आरण्यकपर्व
अध्यायः ४
वैशंपायन उवाच।
वनं प्रविष्टेष्वथ पाण्डवेषु
प्रज्ञाचक्षुस्तप्यमानोऽम्बिकेयः।
धर्मात्मानं विदुरमगाधबुद्धिं
सुखासीनो वाक्यमुवाच राजा ।।
धृतराष्ट्र उवाच।
प्रज्ञा च ते भार्गवस्येव शुद्धा
धर्मं च त्वं परमं वेत्थ सूक्ष्मम्।
समश्च त्वं संमतः कौरवाणां
पथ्यं चैषां मम चैव ब्रवीहि ।।
एवं गते विदुरयदद्य कार्यं
पौराश्चेमे कथमस्मान्भजेरन्।
ते चाप्यस्मान्नोद्धरेयुः समूला-
न्न कामये तांश्च विनश्यमानान् ।।
`सौबलेनैव पापेन दुर्योधनहितैषिणा।
क्रूरमाचरितं क्षत्तर्न मे प्रियमनुष्ठितम् ।।
तथैवाङ्गीकृते तत्र तद्भवान्वक्तुमर्हति।
उत्तरं प्राप्तकालं च किमन्यन्मन्यते क्षमम् ।।
नास्ति धर्मे सहायत्वमिति मे दीर्यते मनः।
यत्र पाण्डुसुताः सर्वे क्लिश्यन्ति वानमागताः' ।।
विदुर उवाच।
त्रिवर्गोऽयं धर्ममूलो नरेन्द्र
राज्यं चेदं धर्ममूलं वदन्ति।
धर्मे राजन्वर्तमानः स्वशक्त्या
पुत्रान्सर्वान्पाहि कुन्तीसुतांश्च ।।
स वै ध्रमो विप्रलब्धः सभायां
पापात्मभिः सौबलेयप्रधानैः।
आहूय कुन्तीसुतमक्षवत्यां
पराजैषीत्सत्यसन्धं सुतस्ते ।।
एतस्य ते दुष्प्रणीतस्य राज-
न्द्वेषस्याहं परिपश्याम्युपायम्।
यथा पुत्रस्तव कौरव्य पापा-
न्मुक्तो लोके प्रतितिष्ठेत साधु ।।
तद्वै सर्वं पाण्डुपुत्रा लभन्तां
यत्तद्राजन्नतिसृष्टं त्वयाऽऽसीत्।
एष धर्मः परमो यत्स्वकेन
राजा तुष्येन्न परस्वेषु गृद्ध्येत् ।।
[यशो ने नश्येज्ज्ञातिभेदश्च न स्या-
द्धर्मो न स्यान्नैव चैवं कृते त्वाम्।]
एतत्कार्ये तव सर्वप्रधानं
तेषां तुष्टिः शकुनेश्चावमानः ।।
एवं शेषं यदि पुत्रेषु ते स्या-
देतद्राजंस्त्वरमाणः कुरुष्व।
अथैतदेवं न करोषि राजन्
ध्रुवं कुरूणां भविता विनाशः ।।
नहि क्रुद्धो भीमसेनोऽर्जुनो वा
शेषं कुर्याच्छात्रवाणामनीके।
येषां योद्धा सव्यसाची कृतास्त्रो
धनुर्येषां गाण्डिवं लोकसारम् ।।
येषां भीमो बाहुशाली च योद्धा
तेषां लोके किंनु न प्राप्यमस्ति।
उक्तं पूर्वं जातमात्रे सुते ते
मया यत्ते हितमासीत्तदानीम् ।।
पुत्रं त्यजेममहितं कुलस्य
हितं परं न च तत्त्वं चकर्थ।
इदानीं ते हितमुक्तं न चेत्त्व-
मेवं कर्ता परितप्ताऽसि पश्चात् ।।
यद्येतदेवमनुमन्ता सुतस्ते
संप्रीयमाणः पाण्डवैरेकराज्यम्।
तापो न ते भविता प्रीतियोगा-
त्त्वं चेन्न गृह्णासि सुतं सहायैः ।।
दुर्योधनं त्वहितं वै निगृह्य
पाण्डोः पुत्रं प्रकुरुष्वाधिपत्ये।
`ध्रुवं विनाशस्तव पुत्रेण धीमन्
सबन्धुवर्गेण सहैव राजभिः ।।
चतुर्दशे चैव वर्षे नरेन्द्र
कुलक्षयं प्राप्स्यसि राजसिंह।
तस्मात्कुरुष्वाधिपत्ये नरेन्द्र
युधिष्ठिरं धर्मभृतां वरिष्ठम् ।।'
अजातशत्रुर्हि विमुक्तरागो
धर्मोणेमां पृथिवीं शास्तु राजन्।
ततो राजन्पार्थिवाः सर्व एव
वैश्या इवास्मानुपतिष्ठन्तु सद्यः ।।
दुर्योधनः शकुनिः सूतपुत्रः
प्रीत्या राजन्पाण्डुपुत्रान्भजन्तु।
दुःशासनो याचतु भीमसेनं
सभामध्ये द्रुपदस्यात्मजां च ।।
युधिष्ठिरं त्वं परिसान्त्वयस्व
राज्ये चैनं स्थापयस्वाभिपूज्य।
त्वया पृष्टः किमहमन्यद्वदेय-
मेतत्कृत्वा कृतकृत्योसि राजन् ।।
धृतराष्ट्र उवाच।
एतद्वाक्यं विदुर यत्ते सभाया-
मिह प्रोक्तं पाण्डवान्प्राप्य मां च।
हितं तेषामहितं मामकाना-
मेतत्सर्वं मम नावैदि चेतः ।।
इदं त्विदानीं गत एव निश्चितं
तेषामर्थे पाण्डवानां यदात्थ।
तेनाद्य मन्ये नासि हितो ममेति
कथं हि पुत्रं पाण्डवार्थे त्यजेयम् ।।
असंशयं तेऽपि ममैव पुत्रा
दुर्योधनस्तु मम देहात्प्रमूतः।
स्वं वै देहं परहेतोस्त्यजेति
कोनु ब्रूयात्समतामन्ववेक्षन् ।।
स मां जिह्मं विदुर सर्वं ब्रवीपि
मन्युं तेऽहमधिकं धारयामि।
यथेच्छकं गच्छ वा तिष्ठ वा त्वं
सुसान्त्व्यमानाऽप्यसती स्त्री जहाति ।।
वैशेपायन उवाच।
एतावदुक्त्वा धृतराष्ट्रोऽन्वपद्य-
दन्तर्वेश्म सहसोत्थाय राजन्।
नेदमस्तीत्यथ विदुरो भापमाप्पः
संप्राद्रवद्यत्र पार्था बभूवुः ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
किर्मीरवधपर्वणि चतुर्थोऽध्यायः ।। 4 ।।