आरण्यकपर्व

अध्यायः २७८

Aranyaka Parva (Sanskrit) · Adhyaya 278
अक्षर का आकार

युधिष्ठिर उवाच।

उक्तं भगवता जन्म रामादीनां पृथक्पृथक्।
प्रस्थानकारणं ब्रह्मञ्श्रोतुमिच्छामि कथ्यताम् ।।

कथं दाशरथी वीरौ भ्रातरौ रामलक्ष्मणौ।
प्रस्तापितौ वने ब्रह्मन्मैथिली च यशस्विनी ।।

मार्कण्डेय उवाच।

जातपुत्रो दशरथः प्रीतिमानभवन्नृप।
क्रियारतिर्धर्मरतः सततं वृद्धसेविता ।।

क्रमेण चास्य ते पुत्रा व्यवर्धन्त महौजसः।
वेदेषु सरहस्येषु धनुर्वेदेषु पारगाः ।।

चरितब्रह्मचर्यास्ते कृतदाराश्च पार्तिव।
दृष्ट्वा रामं दशरथः प्रीतिमानभवत्सुखी ।।

ज्येष्ठो रामोऽभवत्तेषां रमयामास हि प्रजाः।
मनोहरतया धीमान्पितुर्हृदयनन्दनः ।।

ततः स राजा मतिमान्मत्वाऽऽत्मानं वयोधिकम्।
मन्त्रयामास सचिवैर्मन्त्रज्ञैश्च पुरोहितैः ।।

अभिषेकाय रामस्य यावैराज्येन भारत।
प्राप्तकालं च ते सर्वे मेनिरे मन्त्रिसत्तमाः ।।

लोहिताक्षं महाबाहुं मत्तमातङ्गगामिनम्।
कम्बुग्रीवं महोरस्कं नीलकुञ्चितमूर्धजम् ।।

दीप्यमानं श्रिया वीरं शक्रादनवरं बले।
पारगं सर्वधर्माणां बृहस्पतिसमं मतौ ।।

सर्वानुरक्तप्रकृतिं सर्वविद्याविशारदम्।
जितेन्द्रियममित्राणामपि दृष्टिमनोहरम् ।।

नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम्।
धृतिमन्तमनाधृष्यं जेतारमपराजितम् ।।

पुत्रं राजा दशरथः कौसल्यानन्दवर्धनम्।
संदृश्यपरमां प्रीतिमगच्छत्कुलनन्दनम् ।।

चिन्तयंश्च महातेजा गुणान्रामस्य वीर्यवान्।
अभ्यभाषत भद्रं ते प्रीयमाणः पुरोहितम् ।।

अद् पुष्यो निशि ब्रह्मन्पुण्यं योगमुपैष्यति।
संभाराः संभ्रियन्तां मे रामश्चोपनिमन्त्र्यताम् ।।

`श्व एवपुष्यो भविता यत्ररामः सुतो मया।
यौवराज्येऽभिषेक्तव्यः पौरेषु सहमन्त्रिभिः' ।।

इति तद्राजवचनं प्रतिश्रुत्याथ मन्थरा।
कैकेयीमभिगम्येदं काले वचनमब्रवीत् ।।

अद्य कैकेयि दौर्भाग्यं राज्ञा ते ख्यापितं महत्।
आशीविषस्त्वां संक्रुद्धश्छन्नो दशति दुर्भगे ।।

सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते।
कुतो हि तव सौभाग्यं यस्याः पुत्रो न राज्यभाक् ।।

सा तद्वचनमाज्ञाय सर्वाभरणभूषिता।
वेदी विलग्नमध्येन बिभ्रती रूपमुत्तमम् ।।

वविक्ते पतिमासाद्य हसन्तीव शुचिस्मिता।
राजानं तर्जयन्तीव मधुरं वाक्यमब्रवीत् ।।

सत्यप्रतिज्ञ यन्मे त्वं काममेकं विसृष्टवान्।
उपाकुरुष्व तद्राजंस्तस्मान्मुञ्चस्व संकटात्।
`तदद्य कुरु सत्यं मे वरं वरद भूपते' ।।

राजोवाच।

वरं ददानि ते हन्त तद्गृहाण यदिच्छसि।
अवध्यो वध्यतां कोद्य वध्यः कोऽद्य विमुच्यतां ।।

धनं ददानि कस्याद् ह्रियतां कस्यरवापुनः।
ब्राह्मणस्वादिहान्यत्रयत्किंचिद्वित्तमस्ति मे ।।

पृथिव्यां राजराजोस्मि चातुर्वर्ण्यस् रिता।
यस्तेऽभिलपितः कामो ब्रूहि कल्याणि माचिरं ।।

सातद्वचनमाज्ञाय परिगृह्य नराधिपम्।
आत्मनो बलमाज्ञाय तत एनमुवाच ह ।।

आभिषेचनिकं यत्ते रामार्थमुपकल्पितम्।
भरतस्तदवाप्नोतु वनं गच्छतु राघवः ।।

`नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः।
चीराजिनजटाधारी रामो भवतु तापसः' ।।

स तं राजा वरं श्रुत्वा विप्रियं दारुणोदयम्।
दुःखार्तो भरतश्रेष्ठ न किंचिद्व्याजहार ह ।।

ततस्तथोक्तं पितरं रामो विज्ञाय वीर्यवान्।
वनं प्रतस्थे धर्मात्मा राजा सत्यो भवत्विति ।।

तमन्वगच्छल्लक्ष्मीवान्धनुष्माँल्लक्ष्मणस्तदा।
सीता च भार्या भद्रं ते वैदेही जनकात्मजा ।।

ततो वनं गतेरामे राजा दशरथस्तदा।
समयुज्यत देहस्य कालपर्यायधर्मणा ।।

रामं तु गतमाज्ञाय राजानं च तथागतम्।
अनार्या भरतं देवी कैकेयी वाक्यमब्रवीत् ।।

गतोदशरथः स्वर्गं वनस्थौ रामलक्ष्मणौ।
गृहाण राज्यंविपुलं क्षेमं निहतकण्टकम् ।।

तामुवाच स धर्मात्मा नृशंसं बत ते कृतम्।
पतिं हत्वाकुलं चेदमुत्साद्य धनलुब्धया ।।

अयशः पातयित्वा मे मूर्ध्नि त्वं कुलपांसने।
सकामा भव मे मातरित्युक्त्वा प्ररुरोद ह ।।

स चारित्रं विशोध्याथ सर्वप्रकृतिसन्निधौ।
अन्वयाद्धातरं रामं विनिवर्तनलालसः ।।

कौसल्यां च सुमित्रां च कैकेयीं च सुदुःखितः।
अग्रे प्रस्थाप्य यानैः स शत्रुघ्नसहितो ययौ ।।

वसिष्ठवामदेवाभ्यां विप्रैश्चान्यैः सहस्रशः।
पौरजानपदैः सार्धं रामानयनकाङ्क्षया ।।

ददर्श चित्रकूटस्थं स रामं सहलक्ष्मणम्।
तापसानामलंकारं धारयन्तं धनुर्धरम् ।।

`उवाच प्राञ्जलिर्भूत्वाप्रणिपत्य रघूत्तमम्।
शशंस मरणं राज्ञः सोऽनाथांश्चापि कोसलान् ।।

नाथ त्वं प्रतिपद्यस्व स्वराज्यमिति चोक्तवान् ।।

स तस्य वचनं श्रुत्वा रामः परमदुःखितः।
चकार देवकल्पस्य पितुः स्नात्वोदकक्रियाम् ।।

अब्रवीत्स तदारामो भ्रातरं भ्रातृवत्सलम्।
पादुके मे भविष्येते राज्यगोप्त्र्यौ परंतप।
एवमस्त्विति तं प्राह भरतः प्रणतस्तदा' ।।

विसर्जितः स रामेण पितुर्वचनकारिणा।
नन्दिग्रामेऽकरोद्राज्यं पुरस्कृत्यास्य पादुके ।।

रामस्तु पुनराशङ्क्य पौरजानपदागमम्।
प्रविवेश महारण्यं शरभङ्गाश्रमं प्रति ।।

सत्कृत्य शरभङ्गं स दण्डकारण्यमाश्रितः।
नदीं गोदावरीं रम्यामाश्रित्य न्यवसत्तदा ।।

वसतस्तस्य रामस्य ततः शूर्पणखाकृतम्।
खरेणासीन्महद्वैरं जनस्थाननिवासिना ।।

रक्षार्थं तापसानां तु राघवो धर्मवत्सलः।
चतुर्दशसहस्राणि जघान भुवि राक्षसान् ।।

दूषणं च स्वरं चैवनिहत्य सुमहाबलौ।
चक्रे क्षेमं पुनर्धीमान्धर्मारण्यं स राघवः ।।

हतेषु तेषु रक्षःसु ततः शूर्पणखा पुनः।
ययौ निकृत्तनासोष्ठी लङ्कां भ्रातुर्निवेशनम् ।।

ततो रावणमभ्येत्य राक्षसी दुःखमूर्च्छिता।
पपात पादयोर्भ्रातुः संशुष्करुधिरानना ।।

तां तथा विकृतां दृष्ट्वा रावणः क्रोधमूर्च्छितः।
उत्पपातासनात्क्रुद्धो दन्तैर्दन्तानुपस्पृशन् ।।

स्वानमात्यान्विसृज्याथ विविक्ते तामुवाच सः।
केनास्येवं कृता भद्रे मामचिन्त्यावमत्य च ।।

कः शूलं तीक्ष्णमासाद्य सर्वगात्रेषु सेवते।
कः शिरस्यग्निमाधाय विश्वस्तः स्वपते सुखम् ।।

आशीविषं घोरतरं पादेन स्पृशतीह कः।
सिंहं केसरिणं मत्तः स्पृष्ट्वा दंष्ट्रासु तिष्ठति ।।

इत्येवं ब्रुवतस्तस्य नेत्रेभ्यस्तेजसोऽर्चिषः।
निश्चेरुर्दह्यतो रात्रौ वृक्षस्येव स्वरन्ध्रतः ।।

तस्य तत्सर्वमाचख्यौ भगिनी रामविक्रमम्।
खरदूषणसंयुक्तं राक्षसानां पराभवम् ।।

`ततो ज्ञातिवधं श्रुत्वा रावणः कालचोदितः।
रामस्य वधमाकाङ्क्षन्मारीचं मनसागमत्' ।।

स निश्चित्यततः कृत्यं सागरं लवणाकरम्।
ऊर्ध्वमाचक्रमे राजा विधाय नगरे विधिम् ।।

त्रिकूटं समतिक्रम्य कालपर्वतमेव च।
ददर्श मकरावासं गम्भीरोदं महोदधिम् ।।

तमतीत्याथ गोकर्णमभ्यगच्छद्दशाननः।
दयितं स्तानमव्यग्रं शूलपाणेर्महात्मनः ।।

तत्राभ्यगच्छन्मारीचं पूर्वामात्यं दशाननः।
पुरा रामभयादेव तापसं प्रियजीवितम् ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
रामोपाख्यानपर्वणि अष्टसप्तत्यधिकद्विशततमोऽध्यायः ।। 278 ।।