आरण्यकपर्व

अध्यायः २७९

Aranyaka Parva (Sanskrit) · Adhyaya 279
अक्षर का आकार

मार्कण्डेय उवाच।

मारीचस्त्वथ संभ्रान्तो दृष्ट्वा रावणमागतम्।
पूजयामास सत्कारैः फलमूलादिभिस्ततः ।।

विश्रान्तं चैनमासीनमन्वासीनः स राक्षसः।
उवाच प्रश्रितं वाक्यं वाक्यज्ञो वाक्यकोविदम् ।।

न ते प्रकृतिमान्वर्णः कच्चित्क्षेमं पुरे तव।
कच्चित्प्रकृतयः सर्वा भजन्ते त्वां यथा पुरा ।।

किमिहागमने चापि कार्यं ते राक्षसेश्वर।
कृतमित्येव तद्विद्धि यद्यपि स्यात्सुदुष्करम् ।।

शशंस रावणस्तस्मै तत्सर्वं रामचेष्टितम्।
समासेनैव कार्याणि क्रोधामर्षसमन्वितः ।।

मारीचस्त्वब्रवीच्छ्रत्वा समासेनैव रावणम्।
अलं ते राममासाद्य वीर्यज्ञो ह्यस्मि तस्य वै ।।

बाणवेगं हि कस्तस्य शक्तः सोढुं महात्मनः।
प्रव्रज्यायां हि मे हेतुः स एव पुरुषर्षभः।
विनाशमुखमेतत्ते केनाख्यातं दुरात्मना ।।

तमुवाचाथ सक्रोधो रावणः परिभर्त्सयन्।
अकुर्वतोऽस्मद्वचनं स्यान्मृत्युरपि ते ध्रुवम् ।।

मरीचश्चिन्तयामास विशिष्टान्मरणं वरम्।
अवश्यं मरणे प्राप्ते करिष्याम्यस्य यन्मतम् ।।

ततस्तं प्रत्युवाचाथ मारीचो रक्षसांवरम्।
किं ते साह्यां मया कार्यं करिष्याम्यवशोपि तत् ।।

तमब्रवीद्दशग्रीवो गच्छ सीतां प्रलोभय।
रत्नशृङ्गो मृगो भूत्वा रत्नचित्रतनूरुहः ।।

ध्रुवं सीता समालक्ष्यत्वां रामं चोदयिष्यति।
अपक्रान्ते च काकुत्स्थे सीता वश्या भविष्यति ।।

तामादायापनेष्यामि ततः स नभविष्यति।
भार्यावियोगाद्दुर्बुद्धिरेतत्साह्यं कुरुष्व मे ।।

इत्येवमुक्तोमारीचः कृत्वोदकमथात्मनः।
रावणं पुरतो यान्तमन्वगच्छत्सुदुःखितः ।।

ततस्तस्याश्रमं गत्वारामस्याक्लिष्टकर्मणः।
चक्रतुस्तद्यथा सर्वमुभौ यत्पूर्वमन्त्रितम् ।।

रावणस्तु यतिर्भूत्वा मुण्डः कुण्डीत्रिदण्डधृत्।
मृगश्चभूत्वामारीचस्तं देशमुपजग्मतुः ।।

दर्शयामास मारीचो वैदेहीं मृगरूपधृत्।
चोदयामास तस्यार्थे सा रामं विधिचोदिता ।।

रामस्तस्याः प्रियं कुर्वन्धनुरादाय सत्वरः।
रक्षार्थे लक्ष्मणं न्यस्य प्रययौ मृगलिप्सया ।।

स धन्वी बद्धतूणीरः खङ्गगोधाङ्गुलित्रवान्।
अन्वधावन्मृगं रामो रुद्रस्तारामृगं यथा ।।

सोऽन्तर्हितः पुनस्तस्य दर्शनं राक्षसो व्रजन्।
चकर्ष महदध्वानं रामस्तं वुबुधे ततः ।।

निशाचरं विदित्वा तं राघवः प्रतिभानवान्।
अमोघं शरमादाय जघान मृगरूपिणम् ।।

स रामवाणाभिहतः कृत्वा रामस्वरं तदा।
हा सीते लक्ष्मणेत्येवं चुक्रोशार्तस्वरेण ह ।।

शुश्राव तस्य वैदेही ततस्तां करुणां गिरम्।
साप्रापतत्ततः सीता तामुवाचाथ लक्ष्मणः ।।

अलं ते शङ्कया भीरु को रामं प्रहरिष्यति।
मुहूर्ताद्द्रक्ष्यसे रामं भर्तारं त्वं शुचिस्मितम् ।।

इत्युक्ता सा प्ररुदती पर्यशङ्कत लक्ष्मणम्।
हता वै स्त्रीस्वभावेन शुद्धचारित्रभूषणा ।।

सा तं परुषमारब्धा वक्तुं साध्वी पतिव्रता।
नैष कामो भवेन्मूढ यं त्वं प्रार्थयसे हृदा ।।

अप्यहंशस्त्रमादाय हन्यामात्मानमात्मना।
पतेयं गिरिशृङ्गाद्वा विशेयं वा हुताशनम् ।।

रामं भर्तारमुत्सुज्यन त्वहं त्वां कथञ्चन।
निहीनमुपतिष्ठेयं शार्दूली क्रोष्टुकं यथा ।।

एतादृशं वचः श्रुत्वा लक्ष्मणः प्रियराघ्नव।
पिधायकर्णौ सद्वृत्तः प्रस्थितो येन राघवः ।।

स रामस्य पदंगृह्य प्रससार धनुर्धरः।
अवीक्षमाणो विम्बोष्ठीं प्रययौ लक्ष्मणस्तदा ।।

एतस्मिन्नन्तरे रक्षो रावणः प्रत्यदृश्यत।
अभव्यो भव्यरूपेण भस्मच्छन्न इवानलः ।।

यतिवेपप्रतिच्छन्नो जिहीर्षुस्तामनिन्दिताम्।
`उपागच्छत्स वैदेहीं रावणः पापनिश्चयः' ।।

सा तमालक्ष्यसंप्राप्तं धर्मज्ञा जनकात्मजा।
निमन्त्रयामास तदा फलमूलाशनादिभिः ।।

अवमत्यततः सर्वं स्वं रूपं प्रत्यपद्यत।
सान्त्वयामास वैदेहीं कामी राक्षसपुङ्गवः ।।

सीते राक्षसराजोऽहंरावणो नाम विश्रुतः।
मम लङ्कापुरी नाम्ना रम्या पारे महोदधेः ।।

तत्र त्वं नरनारीषु शोभिष्यसि मया सह।
भार्या मे भव सुश्रोणि तापसं त्यज राघवम् ।।

एवमादीनि वाक्यानि श्रुत्वा तस्याथ जानकी।
पिधाय कर्णौ सुश्रोणी मैवमित्यब्रवीद्वचः ।।

प्रपतेद्द्यौः सनक्षत्रा पृथिवी शकलीभवेत्।
`शुष्येत्तोयनिधौ तोयं चन्द्रः शीतांशुतां त्यजेत् ।।

उष्णांशुत्वमथो जह्यादादित्यो वह्निरुष्णताम्'।
त्यक्त्वाशैत्यं भजेन्नाहं त्यजेयंरघुनन्दनम् ।।

कथं हि भिन्नकरटं पद्मिनं वनगोचरम्।
उपस्थाय महानागं करेणुः सूकरं स्पृशेत् ।।

कथं हि पीत्वा माध्वीकं पीत्वा च मधुमाधवीम्।
लोभं सौवीरके कुर्यान्नारी काचिदिति स्मरेः ।।

इति सा तं समाभाष्य प्रविवेशाश्रमं ततः।
क्रोधात्प्रस्फुरमाणौष्ठी विधुन्वाना करौ मुहुः ।।

तामधिद्रुत्य सुश्रोणीं रावणः प्रत्यषेधयत् ।।

भर्त्सयित्वातु रूक्षेण स्वरेण गतचेतनाम्।
मूर्धजेषु निजग्राह ऊर्ध्वमाचक्रमे ततः ।।

तां ददर्श ततो गृध्रो जटायुर्गिरिगोचरः।
रुदतीं रामरामेति हियमाणां तपस्विनीम् ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
रामोपाख्यानपर्वणि एकोनाशीत्यधिकद्विशततमोऽध्यायः ।। 279 ।।