आरण्यकपर्व
अध्यायः २७७
मार्कण्डेय उवाच।
ततो ब्रह्मर्षयः सर्वे सिद्धा देवर्षयस्तथा।
हव्यवाहं पुरस्कृत्य ब्रह्माणं शरणं गताः ।।
अग्निरुवाच।
योसौ विश्रवसः पुत्रो दशग्रीवो महाबलः।
अवध्यो वरदानेन कृतो भगवता पुरा ।।
स बाधते प्रजाः सर्वा विप्रकारैर्महाबलः।
ततो नस्त्रातु भगवान्नान्यस्त्राता हि विद्यते ।।
ब्रह्मोवाच।
न स देवासुरैः शक्यो युद्धे जेतुं विभावसो।
विहितं तत्रयत्कार्यमभितस्तस्य निग्रहः ।।
तदर्थमवतीर्णोऽसौ मन्नियोगाच्चतुर्भुजः।
विष्णुः प्रहरतां श्रेष्ठः स तत्कर्म करिष्यति ।।
मार्कण्डेय उवाच।
पितामहस्ततस्तेषां संनिधौ शक्रमब्रवीत्।
सर्वैर्देवगणैः सार्धं संभव त्वं महीतले ।।
विष्णोः सहायानृक्षीषु वानरीषु च सर्वशः।
जनयध्वं सुतान्वीरान्कामरूपबलान्वितान् ।।
`ते यथोक्ता भगवता तत्प्रतिश्रुत्य शासनम्।
ससृजुर्देवगन्धर्वाः पुत्रान्वानररूपिणः' ।।
ततो भागानुभागेन देवगन्धर्वदानवाः।
अवतर्तुं महीं सर्वे मन्त्रयामासुरञ्जसा ।।
`अवतेरुर्महीं स्वर्गादंशैश्च सहिताः सुराः।
ऋषयश्च महात्मानः सिद्धाश्च सह किन्नरैः।
चारणाश्चासृजन्घोरान्वानरान्वनचारिणः ।।
यस्य देवस्य यद्रूपं वेषस्तेजश्च यद्विधम्।
अजायन्त समास्तेन तस्य तस्य सुतास्तदा' ।।
तेषां समक्षं गन्धर्वी दुन्दुभीं नाम नामतः।
शशास वरदो देवो गच्छ कार्यार्थसिद्धये ।।
पितामहवचः श्रुत्वा गन्धर्वी दुन्दुभी ततः।
मन्थरा मानुषे लोके कुब्जा समभवत्तदा ।।
शक्रप्रभृतयश्चैव सर्वे ते सुरसत्तमाः।
वानरर्क्षवरस्त्रीषु जनयामासुरात्मजान् ।।
तेऽन्ववर्तन्पितॄन्सर्वे यशसा च बलेन च।
भेत्तारो गिरिशृङ्गाणां सालतालशिलायुधाः ।।
वज्चसंहननाः सर्वेसर्वेऽमोघवलास्तथा।
कामवीर्यबलाश्चैवसर्वे बुद्धिविशारदाः ।।
नागायुतसमप्राणा वायुवेगसमा जवे।
यथेच्छविनिपाताश्च केचिदत्र वनौकसः ।।
एवं विधाय तत्सर्वं भगवाँल्लोकभावनः।
मन्थरां बोधयामास यद्यत्कार्यं त्वया तथा ।।
सा तद्वच समाज्ञाय तथा चक्रे मनोजवा।
इतश्चेतश्च गच्छन्ती वैरसंधुक्षणे रता ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
रामोपाख्यानपर्वाणि सप्तसप्तत्यधिकद्विशततमोऽध्यायः ।। 277 ।।