आरण्यकपर्व

अध्यायः २५९

Aranyaka Parva (Sanskrit) · Adhyaya 259
अक्षर का आकार

जनमेजय उवाच।

दुर्योधनं मोक्षयित्वा पाण्डुपुत्रा महाबलाः।
किमकार्षुर्वने तस्मिंस्तन्ममाख्यातुमर्हसि ।।

वैशंपायन उवाच।

ततः शयानं कौन्तेयं रात्रौ द्वैतवन मृगाः।
स्वप्नान्ते दर्शयामासुर्बाष्पकण्ठा युधिष्ठिरम् ।।

तानब्रवीत्स राजेन्द्रो वेपमानान्कृताञ्जलीन्।
ब्रूत यद्वक्तुकामाः स्थ के भवन्तः किमिष्यते ।।

एवमुक्ताः पाण्डवेन कौन्तेयेन यशस्विना।
प्रत्यब्रुवन्मृगास्तत्रहतशेषा युधिष्ठिरम् ।।

वयं मृगा द्वैतवने हतशिष्टास्तु भारत।
नोत्सीदेम महाराज क्रियतां वासपर्ययः ।।

भवन्तो भ्रातरः शूराः सर्व एवास्त्रकोविदाः।
कुलान्यल्पावशिष्टानि कृतवन्तो वनौकसाम् ।।

बीजभूता वयं केचिदवशिष्टा महामते।
विवर्धेमहि राजेन्द्र प्रसादात्ते युधिष्ठिर ।।

तान्वेपमानान्वित्रस्तान्बीजमात्रावशेषितान्।
मृगान्दृष्ट्वा सुदुःखार्तो धर्मराजो युधिष्ठिरः ।।

तांस्तथेत्यब्रवीद्राजा सर्वभूतहिते रतः।
यथा भवन्तो ब्रुवते करिष्यामि च तत्तथा ।।

इत्येवं प्रतिबुद्धः स रात्र्यन्ते राजसत्तमः।
अब्रवीत्सहितान्भ्रातॄन्दयापन्नो मृगान्प्रति ।।

उक्तो रात्रौ मृगैरस्मि स्वप्नान्ते हतशेषितैः।
तनुभूताः स्म भद्रं ते दया नः क्रियतामिति ।।

ते सत्यमाहुः कर्तव्या दयाऽस्माभिर्वनौकसाम्।
साष्टमासं हि नो वर्षं यदेनानुपयुंक्ष्महे ।।

पुनर्वहुमृगं रम्यं काम्यकं काननोत्तमम्।
तत्रेमां वसतिं शिष्टां विहरन्तो रमेमहि ।।

वैशंपायन उवाच।

ततस्ते पाण्डवाः शीघ्रं प्रययुर्धर्मकोविदाः ।।

ब्राह्मणैः सहिता राजन्ये च तत्रसहोषिताः।
इन्द्रसेनादिभिश्चैव प्रेष्यैरनुगतास्तदा ।।

ते यात्वा सुसुखैर्मार्गैः स्वन्नैः शुचिजलान्वितैः।
ददृशुः काम्यकं पुण्यमाश्रमं तापसान्वितम् ।।

विविशुस्ते स्म कौरव्या वृता विप्रर्षभैस्तदा।
तद्वनं भरतश्रेष्ठाः स्वर्गं सुकृतिनो यथा ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
मृगस्वप्नोद्भवपर्वणि एकोनषष्ट्यधिकद्विशततमोऽध्यायः ।। 259 ।।