आरण्यकपर्व
अध्यायः २६०
वैशंपायन उवाच।
वने निवसतां तेषां पाण्डवानां महात्मनाम्।
वर्षाण्येकादशातीयुः कृच्छ्रेण भरतर्षभ ।।
फलमूलाशनास्ते हि सुखार्हा दुःखमुत्तमम्।
प्राप्तकालमनुध्यान्तः सेहिरे वरपूरुषाः ।।
युधिष्ठिरस्तु राजर्षिरात्मकर्मापराधजम्।
चिन्तयन्स महाबाहुर्भ्रातॄणां दुःखमुत्तमम् ।।
न सुष्वाप सुखं राजा हृदि शल्यैरिवार्पितैः।
दौरात्म्यमनुपश्यंस्तत्काले द्यूतोद्भवस्य हि ।।
संस्मरन्परुषा वाचः सूतपुत्रस्य पाण्डवः।
निःश्वासपरमो दीनो दध्रे कोपविषं महत् ।।
अर्जुनोयमजौ चोभौ द्रौपदी च यशस्विनी।
स च भीमो महातेजाः सर्वेषामुत्तमो बले ।।
`चिरस्य जातं धर्मज्ञं सासूयमिव ते तदा'।
युधिष्ठिरमुदीक्षन्तः सेहुर्दुखमनुत्तमम् ।।
अवशिष्टं त्वल्पकालं मन्वानाः पुरुषर्षभाः।
वपुरन्यदिवाकार्पुरुत्साहामर्षचेष्टितैः ।।
कस्यचित्त्वथ कालस्य व्यासः सत्यवतीसुतः।
आजगाम महायोगी पाण्डवानवलोककः ।।
तमागतमभिप्रेक्ष्यकुन्तीपुत्रो युधिष्ठिरः।
प्रत्युद्गम्य महात्मानं प्रत्यगृह्णाद्यथाविधि ।।
तमासीनमुपासीनः शुश्रूषुर्नियतेन्द्रियः।
तोषयामास शौचेन व्यासं पाण्डवनन्दनः ।।
तानवेक्ष्यकृशान्पौत्रान्वने वन्येन जीवतः।
महर्षिरनुकम्पार्थमब्रवीद्बाष्पगद्गदम् ।।
युधिष्ठिर महाबाहो शृणु धर्मभृतांवर।
नातप्ततपसो लोके प्राप्नुवन्ति महत्सुखम्।
सुखदुःखे हि पुरुषः पर्यायेणोपसेवते ।।
नात्यन्तमसुखं कश्चित्प्राप्नोति पुरुषर्षभ।
प्रज्ञावांस्त्वेव पुरुषः संयुक्तः परया धिया ।।
उदयास्तमयज्ञो हि न हृष्यति न शोचति।
सुखमापतितं विन्दन्दुःखमापतितं सहन् ।।
कालप्राप्तमुपासीत सस्यानामिव कर्षकः।
तपसो हि परं नास्ति तपसा विन्दते महत् ।।
नासाध्यं तपसः किंचिदिति बुध्यस् भारत।
सत्यमार्जवमक्रोधः संविभागो दमः शमः ।।
अनसूयाऽविहिंसा च शौचमिन्द्रियसंयमः।
साधनानि महाराज नराणां पुण्यकर्मणाम् ।।
अधर्मरुचयो मूढास्तिर्यग्गतिपरायणाः।
कृच्छ्रां योनिमनुप्राप्ता न सुखं विन्दते अनाः ।।
इह यत्क्रियते कर्म तत्परत्रोपभुज्यते।
`मूलसिक्तस्य वृक्षस्य फलं शाखासु दृश्यते'।
तस्माच्छरीरं युञ्जीत तपसा नियमेन च ।।
यथाशक्ति प्रयच्छेत संपूज्याभिप्रणम्य च।
काले प्राप्ते च हृष्टात्मा राजन्विगतमत्सरः ।।
सत्यवादी लभेतायुरनायासमथार्जवम्।
अक्रोधनोऽनसूयश्च निर्वृतिं लभते पराम् ।।
दान्तः शमपरः शश्वत्परिक्लेशं न विन्दति।
न च तप्यति दान्तात्मा दृष्ट्वा परगतां श्रियम् ।।
संविभक्ता च दाता च भोगवान्सुखवान्नरः।
भवत्यहिंसकश्चैव परमारोग्यमश्नुते ।।
मान्यं मानयिता जन्म कुले महति विन्दति।
`विन्दते सुखमत्यर्थमिह लोके परत्र च'।
व्यसनैर्न तुसंयोगं प्राप्नोति विजितेन्द्रियः ।।
शुभानुशयबुद्धिर्हि संयुक्तः कालधर्मणा।
प्रादुर्भवति तद्योगात्कल्याणमतिरेव सः ।।
युधिष्ठिर उवाच।
भगवन्दानधर्माणआं तपसो वा महामुने।
किंस्विद्बहुगुणं प्रेत्य किं वा दुष्करमुच्यते ।।
व्यास उवाच।
दानान्न दुष्करं तात पृथिव्यामस्ति किंचन।
अर्थे च महती तृष्णा स च दुःखेन लभ्यते ।।
`राजन्प्रत्यक्षमेवैतद्दृश्यते लोकसाक्षिकम्'।
परित्यज्य प्रियान्प्राणान्प्रविशन्ति रणाजिरम्।
तथैव प्रतिपद्यन्ते समुद्रमटवीं तथा ।।
कृषिगोरक्ष्यमित्येके प्रतिपद्यन्ति मानवाः।
पुरुषाः प्रेष्यतामेके निर्गच्छन्ति धनार्थिनः ।।
तस्माद्दुःखार्जितस्यैव परित्यागः सुदुष्करः।
सुदुष्करतरं दानं तस्माद्दानं मतं मम ।।
विसेषस्त्वत्र विज्ञेयो न्यायेनोपार्जितं धनम्।
पात्रे काले च देशे च प्रयतः प्रतिपादयेत् ।।
अन्यायात्समुपात्तेन दानधर्मौ धनन यः।
कुरुते न स कर्तारं त्रायते महतो भयात् ।।
पात्रे दानं स्वल्पमपि काले दत्तं युधिष्ठिर।
मनसा हि विशुद्धेन प्रेत्यानन्तफलं स्मृतम् ।।
`श्रद्धा धर्मानुगा देवी पावनी विश्वधारिणी।'
सवित्री प्रसवित्री च संसारार्णवतारिणी ।।
श्रद्धया धार्यते धर्मो महद्भिर्नार्थदर्शिभिः।
सधना अपिराजानो निःश्रद्धा नरकं गताः ।।
निष्किंचनाश्च मुनयः श्रद्धावन्तो दिवं गताः।
देशे काले च पात्रे च मुद्गलः श्रद्धयाऽन्वितः।
व्रीहिद्रोणं प्रदायाथ परं पदमवाप्तवान्' ।।
अत्राप्युदाहरन्तीमतिहासं पुरातनम्।
व्रीहिद्रोणपरित्यागाद्यत्फलं प्राप मुद्गलः ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
व्रीहिद्रौणिकपर्वणि षष्ट्यधिकद्विशततमोऽध्यायः ।। 260 ।।