आरण्यकपर्व
अध्यायः २५८
वैशंपायन उवाच।
प्रविशन्तं महाराज सूतास्तुष्टुवुरच्युतम्।
जनाश्चापि महेष्वासं तुष्टुवू राजसत्तमम् ।।
लाजैश्चन्दनचूर्णैश्च विकीर्य च जनास्ततः।
ऊटुर्दिष्ट्या नृपाविघ्नः समाप्तोयं क्रतुस्तव ।।
अपरे त्वब्रुवंस्तत्रवादिकास्तं महीपतिम्।
यौधिष्ठिरस्य यज्ञस्य न समो ह्येष ते क्रतुः ।।
नैव तस्य क्रतोरेष कलामर्हति षोडशीम्।
एवं तत्राब्रुवन्केचिद्वातिकास्तं जनेश्वरम् ।।
सुहृदस्त्वब्रुवंस्तत्र अति सर्वानयं क्रतुः।
`प्रवर्तितो ह्ययं राज्ञा धार्तराष्ट्रेण धीमता' ।।
ययातिर्नहुषश्चापि मान्धाता भरतस्तथा।
क्रतुमेनं समाहृत्य पूताः सर्वे दिवं गताः ।।
एता वाचः शुभाः शृण्वन्सुहृदां भरतर्षभ।
प्रविवेश पुरं हृष्टः स्ववेश्म च नराधिपः ।।
अभिवाद्य ततः पादान्मतापित्रोर्विशांपते।
भीष्मद्रोणकृपादीनां विदुरस्य च धीमतः ।।
अभिवादितः कनीयोभिर्भ्रातृभिर्भ्रातृनन्दनः।
निषसादासने मुख्ये भ्रातृभिः परिवारितः ।।
तमुत्थाय महाराजं सूतपुत्रोऽब्रवीद्वचः।
दिष्ट्या ते भरतश्रेष्ठ समाप्तोऽयं महाक्रतुः ।।
हतेषु युधि पार्थेषु राजसूये तथा त्वया।
आहृतेऽहं नरश्रेष्ठ त्वां सभाजयिता पुनः ।।
तमब्रवीन्महाराजो धार्तराष्ट्रो महायशाः।
सत्यमेतत्त्वयोक्तं हि पाण्डवेषु दुरात्मसु।
निहतेषु नरश्रेष्ठ प्राप्ते चापि महाक्रतौ।
राजसूये पुनर्वीर त्वमेवं वर्धयिष्यसि ।।
एवमुक्त्वा महाराज कर्णमाश्लिष्य भारत।
राजसूयं क्रतुश्रेष्ठं चिन्तयामास कौरवः ।।
सोऽब्रवीत्कौरवांश्चापि पार्श्वस्थान्नृपसत्तमः।
`राधेयसौबलादीन्वै धार्तराष्ट्रो महीपतिः' ।।
कदा तु तं क्रतुवरं राजसूयं महाधनम्।
निहत्य पाण्डवान्सर्वानाहरिष्यामि कौरवाः ।।
तमब्रवीत्तदा कर्णः शृणु मे राजकुञ्जर।
पादौ न धावये तावद्यावन्न निहतोऽर्जुनः ।।
कीलालजं न खादेयं करिष्ये चासुरव्रतम्।
नास्तीति नैव वक्ष्यामि याचितो येन केचनित् ।।
अथोत्क्रुष्टं महेष्वासैर्धार्तराष्ट्रैर्महारथैः।
प्रतिज्ञाते फल्गुनस्य वधे कर्णेन संयुगे ।।
विजितांश्चाप्यमन्यन्त पाण्डवान्धृतराष्ट्रजाः।
`तदा प्रतिज्ञामारुह्य सूतपुत्रेण भाषिते' ।।
दूर्योधनोऽपि राजेन्द्र विसृज्यनरपुङ्गवान्।
प्रविवेश गृहंश्रीमान्यथा चैत्ररथं प्रभुः ।।
तेऽपिसर्वे महेष्वासा जग्मुर्वेश्मानि भारत।
`स्वानिस्वनि महाराज भीष्मद्रोणादयो नृपा' ।।
पाण्डवाश्च महेष्वासा दूतवाक्यप्रचोदिताः।
चिन्तयन्तस्तमेवार्थं नालभन्त सुखं क्वचित् ।।
भूयश्च चारै राजेन्द्र प्रवृत्तिरुपपादिता।
प्रतिज्ञा सूतपुतर्स्य विजयस्य वधं प्रति ।।
एतच्छ्रुत्वा धर्मसुतः समुद्विग्नो नराधिप।
`अधोमुखश्चिरं तस्थौ किं कार्यमिति चिन्तयन्' ।।
अभेद्यकवचं मत्वा कर्णमद्भुतविक्रमम्।
अनुस्मरंश् संक्लेशान्न शान्तिमुपजग्मिवान् ।।
तस्य चिन्तापरीतस्य बुद्धिर्जज्ञे महात्मनः।
बहुव्यालमृगाकीर्णं त्यक्तुं द्वैतवनं वनम् ।।
धार्तराष्ट्रोऽपि नृपतिः प्रशशास वसुंधराम्।
भ्रातृभिः सहितो वीरैर्भीष्मद्रोणकृपैस्तथा ।।
संगम्य सूतपुत्रेण कर्णेनाहवशोभिना।
`सततं प्रीयमाणो वै देविना सौबलेन च' ।।
दुर्योधनः प्रिये नित्यं वर्तमानो महीभृताम्।
पूजयामास विप्रेन्द्रान्क्रतुभिर्भूरिदक्षिणैः ।।
भ्रातॄणां च प्रियं राजन्स चकार परंतपः।
निश्चित्य मनसा वीरो दत्तभुक्तफलं धनम् ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
घोषयात्रापर्वणि अष्टपञ्चाशदधिकद्विशततमोऽध्यायः ।। 258 ।।