आरण्यकपर्व

अध्यायः २५४

Aranyaka Parva (Sanskrit) · Adhyaya 254
अक्षर का आकार

जनमेजय उवाच।

एवं गतेषु पार्थेषु वने तस्मिन्महात्मसु।
धार्तराष्ट्रा महेष्वासाः किमकुर्वत सत्तमाः ।।

कर्णो वैकर्तनश्चैव शकुनिश्च महाबलः।
भीष्मद्रोणकृपाश्चैव तन्मे शंसितुमर्हसि ।।

वैशंपायन उवाच।

एवं गतेषु पार्थेषु विसृष्टे च सुयोधने।
आगते हास्तिनपुरं मोक्षिते पाण्डुनन्दनैः।
भीष्मोऽब्रवीन्महाराज धार्तराष्ट्रमिदं वच ।।

उक्तं तात मया पूर्वं गच्छतस्ते तपोवनम्।
वचनं ते न रुचितं मम तन्न कृतं च ते ।।

ततः प्राप्तं त्वया वीर ग्रहणं शत्रुभिर्बलात्।
मोक्षितश्चासि धर्मज्ञैः पाण्डवैर्न च लज्जसे ।।

प्रत्यक्षं तव गान्धारे ससैन्यस् विशांपते।
सूतपुत्रोऽपयाद्भीतो गन्धर्वाणां तदा रणात् ।।

क्रोशतस्तव राजेन्द्र ससैन्यस्य नृपात्मज।
`व्यपायात्पृष्ठतस्तस्मात्प्रेक्षमाणः पुनःपुनः ।।'

दृष्टस्ते विक्रमश्चैव पाण्डवानां महात्मनाम्।
कर्णस्य च महाबाहो सूतपुत्रस्य दुर्मते ।।

न चापि पादभाक्कर्णः पाण्डवानां महात्मनाम्।
धनुर्वेदे च शौर्ये च धर्मे वा धर्मवत्सल ।।

तस्मादहं क्षमं मन्ये पाण्डवैस्तैर्महात्मभिः।
रसन्धिं सन्धिविदांश्रेष्ठ कुलस्यास्य विवृद्धये ।।

एवमुक्तश्च भीष्मेण धार्तराष्ट्रो जनेश्वरः।
प्रहस्य सहसा राजन्विप्रतस्थे ससौबलः ।।

तं तु प्रस्थितमाज्ञाय कर्णदुःशासनादयः।
अनुजग्मुर्महेष्वासा धार्तराष्ट्रं महाबलम् ।।

तांस्तु संप्रस्थितान्दृष्ट्वा भीष्मः कुरुपितामहः।
लज्जया व्रीडितो राजञ्जगाम स्वं निवेशनम् ।।

गते भीष्मे महाराज धार्तराष्ट्रो जनेश्वरः।
पुनरागम्य तं देशममन्त्रयत मन्त्रिभिः ।।

किमस्माकं भवेच्छ्रेयः किं कार्यमवशिष्यते।
कथं च सुकृतं तत्स्यान्मन्त्रयामास भारत ।।

[*कर्ण उवाच।

दुर्योधन निबोधेदं यत्त्वां वक्ष्यामि कौरव।
भीष्मोस्मान्निन्दति सदा पाण्डवांश्च प्रशंसति ।।

त्वद्वेषाच्च महाबाहो मामपि द्वेष्टुमर्हति।
विगर्हते च मां नित्यं त्वत्समीपे नरेश्वर ।।

सोऽहं भीष्मवचस्तद्वै न मृष्यामीह भारत।
त्वत्समं यदुक्तं च भीष्मेणामित्रकर्शन ।।

पाण्डवानां यशो राजंस्तव निन्दां च भारत।
अनुजानीहि मां राजन्सभृत्यबलवाहनम् ।।

जेष्यामि पृथिवीं राजन्सशैलवनकाननाम्।
जिता च पाण्डवैर्भूमिश्चतुर्भिर्बलशालिभिः ।।

तामहं ते विजेष्यामि एक एव न संशयः।
संपश्यतु सुदुर्बुद्धिर्भीष्मः कुरुकुलाधमः ।।

अनिन्द्यं निन्दते यो हि अप्रशंस्यं प्रशंसति।
स पश्यतु बलं मेऽद्य आत्मानं तु विगर्हतु ।।

अनुजानीहि मां राजन्ध्रुवो हि विजयस्तव।
प्रतिजानामि ते सत्यं राजन्नायुधमालभे ।।

तच्छ्रुत्वा तु वचो राजन्कर्णस्य भरतर्षभ।
प्रीत्या परमया युक्तः कर्णमाह नराधिपः ।।

धन्योस्म्यनुगृहीतोस्मि यस्य मे त्वं महाबलः।
हितेषु वर्तसे नित्यं सफलंजन्म चाद्य मे ।।

यदा च मन्यसे वीर सर्वशत्रुनिबर्हणम्।
तदा निर्गच्छ भद्रं ते ह्यनुशाधि च मामिति ।।

एवमुक्तस्तदा कर्णो धार्तराष्ट्रेण धीमता।
सर्वमज्ञापयामास प्रायात्रिकमरिंदम ।।

प्रययौ च महेष्वासो नक्षत्रे शुभदैवते।
शुभेतिथौ मुहूर्ते च पुज्यमानो द्विजातिभिः ।।

मङ्गलैश्च शुभैः स्नातो वाग्भिश्चापि प्रपूजितः।
नादयन्रथघोषेण त्रैलोक्यं सचराचरम् ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
घोषयात्रापर्वणि चतुःपञ्चासदधिकद्विशततमोऽध्यायः ।। 254 ।।