आरण्यकपर्व
अध्यायः २५५
वैशंपायन उवाच।
ततः कर्णो महेष्वासो बलेन महता वृतः।
द्रुपदस्य पुरं रम्यं रुरोध भरतर्षभ ।।
युद्धेन महता चैनं चक्रे वीरं वशानुगम्।
सुवर्णं रजतं चापि रत्नानि विविधानि च।
करं च दापयांमास द्रुपदं नृपसत्तम ।।
तं विनिर्जित्य राजेन्द्र राजानस्तस्य येऽनुगाः।
तान्सर्वान्वशगांश्चक्रे करं चैनानदापयत् ।।
अथोत्तरां दिशं गत्वा वशे चक्रे नराधिपान्।
भगदत्तं च निर्जित्य राधेयो गिरिमारुहत् ।।
हिमवन्तं महाशैलं युध्यमानश्च शत्रुभिः।
प्रययौ च दिशः सर्वान्नृपतीन्वशमानयत् ।।
स हैमवतिकाञ्जित्वा करं सर्वानदापयत्।
नेपालविषये ये च राजानस्तानवाजयत् ।।
अवतीर्य ततः शैलात्पूर्वां दिशमभिद्रुतः।
अङ्गान्वङ्गान्कलिङ्गांश्च शुण्डिकान्मिथिलानथ ।।
मागधान्कर्कखण्डांश्च निवेश्य विषयेऽऽत्मनः।
आवशीरांश्च योध्यांश्च अहिक्षत्रांश्च सोऽजयत् ।।
पूर्वां दिशं विनिर्जित्य वत्सभूमिं तथाऽगमत् ।।
वत्सभूमिं विनिर्जित्य केवलां मृत्तिकावतीम्।
मोहनं पत्तनं चैव त्रिपुरीं कोसलां तथा ।।
एतान्सर्वान्विनिर्जित्य करमादाय सर्वशः।
दक्षिणां दिशमास्थाय कर्णो जित्वा महारथान्।
रुक्मिणं दाक्षिणात्येषु योधयामास सूतजः ।।
स युद्धं तुमुलं कृत्वा रुक्मी प्रोवाच सूतजम्।
प्रीतोस्मि तव राजेन्द्र विक्रमेण बलेन च ।।
न ते विघ्नं करिष्यामि प्रतिज्ञां समपालयम्।
प्रीत्या चाहं प्रयच्छामि हिरण्यं यावदिच्छसि ।।
समेत्य रुक्मिणा कर्णः पाण्ड्यं शैलं च सोगमत् ।।
स केवलं रणए चैव नीलं चापि महीपतिम्।
वेणुदारिसुतं चैव ये चान्ये नृपसत्तमाः।
दक्षिणस्यां दिशि नृपान्करान्सर्वानदापयत् ।।
शैशुपालिं ततो गत्वा विजिग्ये सूतनन्दनः।
पार्श्वस्थांश्चापि नृपतीन्वशे चक्रे महाबलः ।।
आवन्त्यांश्च वशे कृत्वा साम्ना च भरतर्षभ।
वृष्णिभिः सह संम्य पश्चिमामपि निर्जयत् ।।
वारुणीं दिशमागम्य यावनान्वर्बरांस्तथा।
नृपान्पश्चिमभूमिस्थान्दापयामास वै करान् ।।
विजित्य पृथिवीं सर्वां सपूर्वापरदक्षिणाम्।
सम्लेच्छाटविकान्वीरः सपर्वतनिवासिनः ।।
भद्रान्रोहितकांश्चैव आग्रेयान्मालवानपि।
गणान्सर्वान्विनिर्जित्य नीतिकृत्प्रहसन्निव ।।
शशकान्यवनांश्चैव विजिग्ये सूतनन्दनः।
नग्नजित्प्रमुखांश्चैव गणाञ्जित्वा महारथान् ।।
एवं स पृथिवीं सर्वां वशे कृत्वा महारथः।
विजित्य पुरुषव्याघ्रो नागसाह्वयमागमत् ।।
तमागतं महेष्वासं धार्तराष्ट्रो जनाधिपः।
प्रत्युद्गत्य महाराज सभ्रातृपितृबान्धवः ।।
अर्चयामास विधिना कर्णमाहवशोभिनम्।
आश्रावयच्च तत्कर्म प्रीयमाणो जनेश्वरः ।।
यन्न भीष्मान्न च द्रोणान्न कृपान्न च वाह्लिकात्।
प्राप्तवानस्मि भद्रं ते त्वत्तःप्राप्तं मया हि तत् ।।
बहुना च किमुक्तेन शृणु कर्ण वचो मम।
सनाथोस्मि महाबाहो त्वया नाथेन सत्तम ।।
न हि ते पाण्डवाः सर्वे कलामर्हन्ति षोडशीम्।
अन्येवा पुरुषव्याघ्र राजानोऽभ्युदितोदिताः ।।
स भवान्धृतराष्ट्रं तं गान्धारीं च यशस्विनीम्।
पश्य कर्ण महेष्वास अदितिं वज्रभृद्यथा ।।
ततो हलहलाशब्दः प्रादुरासीद्विशांपते।
हाहाकाराश्च बहवो नगरे नागसाह्वये ।।
रकेचिदेनं प्रशंसन्ति निन्दन्ति स्म तथा परे।
तूष्णीमासंस्तथा चान्ये नृपास्तत्र जनाधिप ।।
एवं विजित्य राजेन्द्र कर्णः शस्त्रभृतांवरः।
सपर्वतवनाकाशां ससमुद्रां सनुष्कुटाम् ।।
देशैरुच्चावचैः पूर्णां पत्तनैर्नगरैरपि।
द्वीपैश्चानूपसंपूर्णैः पृथिवीं पृथिवीपते ।।
कालेन नातिदीर्घेण वशे कृत्वा तु पार्थिवान्।
अक्षयं धनमादाय सूतजो नृपमभ्ययात् ।।
प्रविश्य च गृहं राजन्नभ्यन्तरमरिंदम।
गान्धारीसहितं वीरो धृतराष्ट्रं ददर्श सः ।।
पुत्रवच्च नरव्याघ्र पादौ जग्राह धर्मवित्।
धृतराष्ट्रेण चाश्लिष्य प्रेम्णा चापि विसर्जितः ।।
तदाप्रभृति राजा च शकुनिश्चापि सौबलः।
जानाते निर्जितान्पार्थान्कर्णेन युधि भारत ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
घोषयात्रापर्वणि पञ्चपञ्चाशदधिकद्विशततमोऽध्यायः ।। 255 ।।