आरण्यकपर्व
अध्यायः २५०
दुर्योधन उवाच।
चित्रसेनं समागम्य प्रहसन्नर्जुनस्तदा।
इदं वचनमक्लीवमब्रवीत्परवीरहा ।।
भ्रातृनर्हसि मे वीर मोक्तुं गन्धर्वसत्तम।
अनर्हधर्षणा हीमे जीवमानेषु पाण्डुषु ।।
एवमुक्तस्तु गन्धर्वः पाण्डवेन महात्मना।
उवाच यत्कर्ण वयं मन्त्रयन्तो विनिर्गताः ।।
`स्थितोराज्येच्युतान्स्थानाच्छ्रियाहीनांश्रियावृतः'
द्रष्टास्मि निःसुखान्वीरान्सदारान्पाण्डवानिति ।।
तस्मिन्नुच्चार्यमाणे तु गन्धर्वेण वचस्तथा।
भूमेर्विवरमन्वैच्छं प्रवेष्टुं व्रीडयाऽन्वितः ।।
युधिष्ठिरमथागम् गन्धर्वाः सह पाण्डवैः।
अस्मद्दुर्मन्त्रितं तस्मै बद्धांश्चास्मान्न्यवेदयन् ।।
स्त्रीसमक्षमहं दीनो बद्धः शत्रुवशं गतः।
युधिष्ठिरस्योपहृतः किंनु दुःखमतः परम् ।।
ये मे निराकृता नित्यं रिपुर्येषामहं सदा।
तैर्मोक्षितोऽहं दुर्बुद्धिर्दत्तं तैरेव जीवितम् ।।
प्राप्तः स्यां यद्यहं वीर वधं तस्मिन्महारणे।
श्रेयस्तद्भविता मह्यं नैवंभूतस्य जीवितम् ।।
भवेद्यशः पृथिव्यां मे ख्यातं गन्धर्वतो वधात्।
प्राप्ताश्च पुण्यलोकाः स्युर्महेन्द्रसदनेऽक्षयाः ।।
यत्त्वद्य मे व्यवसितं तच्छृणुध्वं नरर्षभाः।
इह प्रायमुपासिष्ये यूयं व्रजत वै गृहान्।
भ्रातरश्चैव मे सर्वे यान्त्वद्य स्वपुरं प्रति ।।
कर्णप्रभृतयश्चैव सुहृदो बान्धवाश्च ये।
दुःशासनं पुरस्कृत्य प्रयान्त्वद्य पुरं प्रति ।।
न ह्यहं संप्रयास्यामि पुरं शत्रुनिराकृतः।
शत्रुमानापहो भूत्वा सुहृदां मानकृत्तथा ।।
`कामं रणशिरस्यद्य शत्रुभिर्वै विमानितः'।
स सुहृच्छोकदो जातः शत्रूणां हर्वर्धनः।
वारणाह्वयमासाद्य किं वक्ष्यामि जनाधिपम् ।।
भीष्मद्रोणौ कृपद्रौणी विदुरः संजयस्तथा।
बाह्लीकः सौमदत्तिश्च ये चान्ये वृद्धसंमताः ।।
ब्राह्मणाः श्रेणिमुख्याश्च तथोदासीनवृत्तयः।
किं मां वक्ष्यंति किं चापि प्रतिवक्ष्यामि तानहं ।।
रिपूणां शिरसि स्थित्वा तथा विक्रम्य चोरसि।
आत्मदोषात्परिभ्रष्टः कथं वक्ष्यामि तानहम् ।।
दुर्विनीताः श्रियं प्राप्य विद्यामैश्वर्यमेव च।
तिष्ठन्ति न चिरं भद्रे यथाऽहं मदगर्वितः ।।
अहो वत यथेदं मे कष्टं दुश्चरितं कृतम्।
स्वयं दुर्बुद्धिना मोहाद्येन प्राप्तोस्मि संशयम् ।।
तस्मात्प्रायमुपासिष्ये न हिशक्ष्यामि जीवितुम्।
चेतयानो हि को जीवेत्कृच्छ्राच्छत्रुभिरुद्धृतः ।।
शत्रुभिश्चावहसितो मानी पौरुषवर्जितः।
पाण्डवैर्विक्रमाढ्यैशच् सावमानमवेक्षितः ।।
वैशंपायन उवाच।
एवं चिन्तापरिगतो दुःशासनमथाब्रवीत्।
दुःशासन निबोधेदं वचनं मम भारत ।।
प्रतीच्छ त्वं मया दत्तमभिषेकं नृपो भव।
प्रशाधि पृथिवीं स्फीतांकर्णसौबलपालिताम् ।।
भ्रातॄन्पालय विस्रब्धं मरुतो वृत्रहा यथा।
बान्धवाश्चोपजीवन्तु देवा इव शतक्रतुम् ।।
ब्राह्मणेषु सदा वृत्तिं कुर्वीथाश्चाप्रमादतः।
बन्धूनां सुहृदां चैव भवेथास्त्वं गतिः सदा ।।
ज्ञातींश्चाप्यनुपश्येथा विष्णुर्देवगणान्यथा।
गुरवः पालनीयास्ते गच्छ पालय मेदिनीम् ।।
नन्दयन्सुहृदः सर्वाञ्शात्रवांश्चावभर्त्सयन्।
कण्ठे चैनं परिष्वज्यगम्यतामित्युवाच ह ।।
तस्य तद्वचनं श्रुत्वा दीनो दुशासनोऽब्रवीत्।
अश्रुकण्ठः सुदुःखार्तः प्राञ्जलिः प्रणिपत्य च ।।
सगद्गदमिदं वाक्यं भ्रातरं ज्येष्ठमात्मनः।
कप्रसीदेत्यपतद्भूमौ दूयमानेन चेतसा ।।
दुःखितः पादयोस्तस्य नेत्रजं जलमुत्सृजन्।
उक्तवांश्च नरव्याघ्रो नैतदेवं भविष्यति ।।
विदीर्यत्सकला भूमिर्द्यौश्चापि शकलीभवेत्।
रविरात्मप्रभां जह्यात्सोमः शीतांशुतां त्यजेत् ।।
वायुः शैघ्र्यमथो जह्याद्धिमवांश्च हिमं त्यजेत्।
शुष्येत्तोयं समुद्रेषु वह्निरप्युष्णतां त्यजेत् ।।
न चाहं त्वदृते राजन्प्रशासेयं वसुंधराम्।
पुनःपुनः प्रसीदेति वाक्यं चेदमुवाच ह ।।
`शत्रूणां शोककृद्राजन्सुहृदां शोकनाशनः'
त्वमेव नःकुलेराजा भविष्यसि शतं समाः ।।
एवमुक्त्वा स राजानं सुश्वरं प्ररुरोद ह।
पादौ संस्पृश्य मानार्हौ भ्रातुर्ज्येष्ठस्य भारत ।।
तथा तौ दुःखितौ दृष्ट्वा दुःशासनसुयोधनौ।
अभिगम्य व्यथाविष्टः कर्णस्तौ प्रत्यभाषत ।।
विषीदथः किं कौरव्यौ बालिश्यात्प्राकृताविव।
न शोकः शोचमानस्य विनिवर्तेत कर्हिचित् ।।
यदा च शोचतः शोकोव्यसनं नापकर्षति।
सामर्थ्यं किं ततः शोके शोचमानौ प्रपश्यथः ।।
धृतिं गृह्णीतं मा शत्रूञ्शोचन्तौ नन्दयिष्यथः।
कर्तव्यं हि कृतं राजन्पाण्डवैस्तव मोक्षणम् ।।
नित्यमेव प्रियं कार्यं राज्ञो विपयवासिभिः।
पाल्यमानास्त्वया ते हि निवसन्ति गतज्वराः ।।
नार्हस्येवंगते मन्युं कर्तुं प्राकृतवत्स्वयम्।
विषण्णास्तव सोदर्यास्त्वयि प्रायं समास्थिते ।।
`तदलं दुःखितानेतान्कर्तुं सर्वान्नराधिप'।
उत्तिष्ठ व्रज भद्रं ते समाश्वासय सोदरान् ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
घोषयात्रापर्वणि पञ्चाशदधिकद्विशततमोऽध्यायः ।। 250 ।।