आरण्यकपर्व

अध्यायः २४९

Aranyaka Parva (Sanskrit) · Adhyaya 249
अक्षर का आकार

दुर्योधन उवाच।

अजानतस्ते राधेय नाभ्यसूयाम्यहं वचः।
जानासि त्वं जिताञ्शत्रून्गन्धर्वां स्तेजसा मया ।।

आयोधितास्तु गन्धर्वाः सुचिरं सोदरैर्मम।
मया सह महाबाहो कृतश्चोभयतः क्षयः ।।

मायाधिकास्त्वयुध्यन्त यदा शूरा वियद्गताः।
तदा नो न समं युद्धमभवत्खेचरैः सह ।।

पराजयं च प्राप्ताः स्मो रणे बन्धनमेव च।
सभृत्यामात्यपुत्राश्च सदारबलवाहनाः।
उच्चैराकाशमार्गेण ह्रियमाणाः सुदुःखिताः ।।

अथ नः सैनिकाः केचिदमात्याश्च महारथाः।
उपगम्याब्रुवन्दीनाः पाण्डवाञ्शरणप्रदान् ।।

एष दुर्योधनो राजा धार्तराष्ट्रः सहानुजः।
सामात्यदारो ह्रियते गन्धर्वैर्दिवमाश्रितैः ।।

तं मोक्षयत भद्रं वः सहदारं नराधिपम्।
परामर्शो मा भविष्यत्कुरुदारेषु सर्वशः।
`इत्यब्रुवन्रणआन्मुक्ता धर्मराजमुपागताः' ।।

एवमुक्ते तु धर्मात्मा ज्येष्ठः पाण्डुसुतस्तदा।
प्रसाद्य सोदरान्सर्वानाज्ञापयत मोक्षणे ।।

अथागम्य तमुद्देशं पाण्डवाः पुरुषर्षभाः।
सान्त्वपूर्वमयाचन्त शक्ताः सन्तो महारथाः ।।

यदा चास्मान्न मुमुचुर्गन्धर्वाः सान्त्विता अपि।
`आकाशचारिणो वीरा नदन्तो जलदा इव' ।।

ततोऽर्जुनश्च भीमश्च यमजौ च बलोत्कटौ।
मुमुचुः शरवर्षाणि गन्धर्वान्प्रत्यनेकशः ।।

अथ सर्वे रणं मुक्त्वा प्रयाताः खेचरा दिवम्।
अस्मानेवाभिकर्षन्तो दीनान्मुदितमानसाः ।।

ततः समन्तात्पश्यामः शरजालेन वेष्टितम्।
अमानुषाणि चास्त्राणि प्रयुञ्जानं घनंजयम् ।।

समावृता दिशो दृष्ट्वा पाण्डवेन शितैः शरैः।
धनंजयसखाऽऽत्मानं दर्शयामास वै तदा ।।

चित्रसेनः पाण्डवेन समाश्लिष्य परस्परम्।
कुशलं परिपप्रच्छ तैः पृष्टश्चाप्यनामयम् ।।

ते समेत्य तथाऽन्योन्यं सन्नाहान्विप्रमुच्य च।
एकीभूतास्ततो वीरा गन्धर्वाः सह पाण्डवैः ।।

`परस्परं समागम्य प्रीत्या परमया युतौ'।
अपूजयेतामन्योन्यं चित्रसेनधनंजयौ ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
घोषयात्रापर्वणि एकोनपञ्चाशदधिकद्विशततमोऽध्यायः ।। 249 ।।