आरण्यकपर्व
अध्यायः २५१
कर्ण उवाच।
राजन्नद्यावगच्छामि तवैव लघुसत्वताम्।
`अल्पत्वं च तथा बुद्धेः कार्याणामविवेकिताम्' ।।
किमत्र चित्रं धर्मज्ञ मोक्षितः पाण्डवैरसि।
सद्यो वशं समापन्नः शत्रूणां शत्रुकर्शन ।।
सेनाजीवैश्च कौरव्य तथा विषयवासिभिः।
अज्ञातैर्यदि वा ज्ञातैः कर्तव्यं नृपतेः प्रियम् ।।
प्रायः प्रधानाः पुरुषाः क्षोभयित्वाऽरिवाहिनीम्।
निगृह्यन्ते चयुद्धेषु मोक्ष्यन्ते च स्वसैनिकैः ।।
सेनाजीवाश्च ये राज्ञां विषये सन्ति मानवाः।
तैः संगम्य नृपार्थाय यतितव्यं यथातथम् ।।
यद्येवं पाण्डवै राजन्भवद्विषयवासिभिः।
यदृच्छया मोक्षितोऽसि कतत्रका परिदेवना ।।
न चैतत्साधु यद्राजन्पाण्डवास्त्वां नृपोत्तमम्।
स्वसेनया संप्रयान्तं नानुयान्ति स्म पृष्ठतः ।।
शूराश्च बलवन्तश्च संयुगेष्वपलायिनः।
भवतस्ते सभायां वै प्रेष्यतां पूर्वमागताः ।।
पाण्डवेयानि रत्नानि त्वमद्याप्युपभुञ्जसे।
सत्वस्थान्पाण्डवान्पश्य न ते प्रायमुपाविशन् ।।
`तदलं ते महाबाहो विषादं कर्तुमीदृशम्'।
उत्तिष्ठ रराजन्भद्रं ते न चिन्तां कर्तुमर्हसि ।।
अवश्यमेव नृपते राज्ञो विषयवासिभिः।
प्रियाण्याचरितव्यानि तत्र का परिदेवना ।।
मद्वाक्यमेतद्राजेन्द्र यद्येवं न करिष्यसि।
स्थास्यामीह भवत्पादौ शुश्रूषन्नरिमर्दन ।।
नोत्सहे जीवितुमहं त्वद्विहीनो नरर्षभः।
प्रायोपविष्टस्तु तथा राज्ञां हास्यो भविष्यसि ।।
वैशंबायन उवाच।
एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा।
नैवोत्थातुं मनश्चक्रे स्वर्गाय कृतनिश्चयः ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
घोषयात्रापर्वणि एकपञ्चाशदधिकद्विशततमोऽध्यायः ।।