आरण्यकपर्व

अध्यायः २२७

Aranyaka Parva (Sanskrit) · Adhyaya 227
अक्षर का आकार

मार्कण्डेय उवाच।

शिवा भार्या त्वङ्गिरसः शीलरूपगुणान्विता।
तस्याः सा प्रथमं रूपं कृत्वादेवी जनाधिप ।।

जगाम पावकाभ्याशं तं चोवाच वराङ्गना।
मामग्ने कामसंतप्तां त्वं कामयितुमर्हसि ।।

करिष्यसि न चेदेवं मृतां मामुपधारय।
`तवाप्यधर्मः सुमहान्भविता वै हुताशन' ।।

अहमङ्गिरसो भार्या शिवा नाम हुताशन।
सखीभिः सहिता प्राप्ता मन्त्रयित्वा विनिश्चयम् ।।

अग्निरुवाच।

कथं मां त्वं विजानीषे कामार्तमितराः कथम्।
यास्त्वया कीर्तिताः सर्वाः सप्तर्षीणां प्रियाः स्त्रियः ।।

शिवोवाच।

अस्माकं त्वं प्रियो नित्यं बिभीमस्तु वयं तव।
त्वच्चित्तमिङ्गितैर्ज्ञात्वा प्रेषिताऽस्मि तवान्तिकम् ।।

मैथुनायेह संप्राप्ता कामाच्चैव द्रुतं च माम्।
`उपयन्तुं महावीर्य पूर्वमेव त्वमर्हसि'।
[जामयो मां प्रतीक्षन्ते गमिष्यामि हुताशन] ।।

मार्कण्डेय उवाच।

ततोऽग्निरुपयेमे तां शिवां प्रीतिमुदायुतः।
प्रीत्या देवी समायुक्ता शुक्रं जग्राह पाणिना ।।

साऽचिन्तयन्ममेदं ये रूपं द्रक्ष्यन्ति कानने।
ते ब्राह्मणीनामनृतं दोषं वक्ष्यन्ति पावके ।।

तस्मादेतद्रक्षमाणा गरुडी संभवाम्यहम्।
वनान्निर्गमनं चैव सुखं मम भविष्यति ।।

मार्कण्डेय उवाच।

सुपर्णी सा तदा भूत्वा निर्जगाम महावनात्।
अपश्यत्पर्वतं श्वेतं शरस्तम्बैः सुसंवृतम् ।।

दृष्टीविषैः सप्तशीर्षैर्गुप्तं भोगिभिरद्भुतैः।
रक्षोभिश्च पिशाचैश्च रौद्रैर्भूतगणैस्तथा ।।

राक्षसीभिश्च संपूर्णमनेकैश्च मृगद्विजैः।
`नदीप्रस्रवणोपेतं नानातरुलताचितम्' ।।

सा तत्र सहसा गत्वा शैलपृष्ठं सुदुर्गमम्।
प्राक्षिपत्काञ्चने कुण्डे शुक्रं सा त्वरिता शुभा ।।

शिष्टानामपि सा देवी सप्तर्षीणां महात्मनाम्।
पत्नीसरूपतां कृत्वा रमयामास पावकम् ।।

दिव्यरूपमरुन्धत्याः कर्तुं न शकितं तया।
तस्यास्तपःप्रभावेण भर्तृशुश्रूषणेन च ।।

षट्कृत्वस्तत्तु निक्षिप्तमग्ने रेतः कुरुत्तम।
तस्मन्कुण्डे प्रतिपदि कामिन्या स्वाहया तदा ।।

तत्स्कन्नं तेजसा तत्रसंवृतंजनयत्सुतम्।
ऋषिभिः पूजितं स्कन्नमनयन्स्कन्दतां ततः ।।

षट्‌शिरा द्विगुणश्रोत्रो द्वादशाक्षिभूजक्रमः।
एकग्रीवस्त्वेककायः कुमारः समपद्यत ।।

द्वितीयायामभिव्यक्तस्तृतीयायां शिशुर्बभौ।
अङ्गप्रत्यङ्गसंभूतश्चतुर्थ्यामभवद्गुहः ।।

लोहिताभ्रेण महता संवृतः सह विद्युता।
लोहिताभ्रे सुमहति भाति सूर्य इवोदितः ।।

गृहीतं तु धनुस्तेन विपुलं रोमहर्षणम्।
न्यस्तं यत्रिपुरघ्नेन सुरारिविनिकृन्तनम् ।।

तद्गृहीत्वा धनुःश्रेष्ठं ननाद बलवांस्तदा।
संमोहयन्निमाँल्लोकान्गुहस्त्रीन्सचराचरान् ।।

तस् तं निनदं श्रुत्वा महामेघौघनिःस्वनम्।
उत्पेततुर्महानागौ चित्रश्चैरावतश्च ह ।।

तावापतन्तौ संप्रेक्ष्यस बालोऽर्कसमद्युतिः।
द्वाभ्यां गृहीत्वा पाणिभ्यां शक्तिं चान्येन पाणिना ।।

अपरेणाग्निदायादस्ताम्रचूडं भुजेन सः।
महाकायमुपश्लिष्टं कुक्कुटं बलिनां वरम्।
गृहीत्वा व्यनदद्भीमं चिक्रीड च महाभुजः ।।

द्वाभ्यां भुजाभ्यां बलवान्गृहीत्वा शङ्खमुत्तमम्।
प्राध्मापयत् भूतानां त्रासनं बलिनामपि।
द्वाभ्यां भुजाभ्यामाकाशं बहुशो निजघान ।।

क्रीडन्भाति महासेनस्त्रींल्लोकान्वदनैः पिवन्।
पर्वताग्रेऽप्रमेयात्मा रश्मिमानुदये यथा ।।

स तस् पर्वतस्याग्रे निषण्णोऽद्भुतविक्रमः।
व्यलोकयदमेयात्मा मुखैर्नानाविधैर्दिशः ।।

स पश्यन्विविधान्भावांश्चकार निनदं पुनः।
तस्य तं निनदं श्रुत्वा न्यपतन्बहुधा जनाः।
भीताश्चोद्विग्रमनसस्तमेव शरणं ययुः ।।

ये तुं संश्रिता देवं नानावर्णास्तदा जनाः।
तानप्याहुः पारिषदान्ब्राह्मणाः सुमहाबलान् ।।

स तूत्थाय महाबाहुरुपसान्त्व्य च ताञ्जनान्।
धनुर्विकृष्य व्यसृजद्बाणाञ्श्वेते महागिरौ ।।

विभेद स शरैः शैलं क्रौञ्चं हिमवतः सुतम्।
तेन हंसाश्च गृध्राश्च मेरुं गच्छन्ति पर्वतम् ।।

स विशीर्णोऽपतच्छैलो भृशमार्तस्वराव्रुवन् ।।

तस्मिन्निपतिते त्वन्ये नेदुः शैला भृशं भयात्।
`घोरमार्तस्वरं चक्रुर्दृष्ट्वा क्रौञ्चं विदारितम्' ।।

सतं नादं भृशार्तानां श्रुत्वाऽपि बलिनांवरः।
न प्राव्यधदमेयात्मा शक्तिमुद्यम्य चानदत् ।।

सा तदा विमला शक्तिः क्षिप्ता तेन महात्मना।
बिभेद शिखरं घोरं श्वेतस् तरसा गिरेः ।।

स तेनाभिहतो दीर्णो गिरिः श्वेतोऽचलैः सह।
पलायत महीं त्यक्त्वा भीतस्तस्मान्महात्मनः ।।

ततः प्रव्यथिता भूमिर्व्यशीर्यत समन्ततः।
आर्ता स्कन्दं समासाद्य पुनर्बलवती बभौ ।।

पर्वताश्च नमस्कृत्यतमेव पृथिवीं गताः।
अथैनमभजल्लोकः स्कन्दं शुक्लस्य पञ्चमीम् ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
रमार्कण्डेयसमास्यापर्वणि सप्तविंशत्यधिकद्विशततमोऽध्यायः ।। 227 ।।