आरण्यकपर्व
अध्यायः २२८
मार्कण्डेय उवाच।
तस्मिञ्जाते महासत्त्वे महासेने महाबले।
समुत्तस्थुर्महोत्पाता घोररूपाः पृथग्विधाः ।। 1 ।।
स्त्रीपुंसोर्विपरीतं च तथा द्वन्द्वानि यानि च।
ग्रहा दीप्ता दिशः खं च ररास च मही भृशम् ।।
ऋषयश्च महाघोरान्दृष्ट्वोत्पातान्समन्ततः।
अकुर्वञ्शान्तिमुद्विग्ना लोकानां लोकभावनाः ।।
निवसन्ति वने ये तु तस्मिंश्चैत्ररथे जनाः।
तेऽब्रुवन्नेष नोऽनर्थः पावकेनाहृतो महान्।
संगम्य षड्भिः पत्नीभिः सप्तर्षीणामिति स्म ह ।।
अपरे गरुडीमाहुस्तयाऽनर्थोऽयमाहृतः।
यैर्दृष्टा सा तदा देवी तस्या रूपेण गच्छती ।।
न तु तत्स्वाहया कर्म कृतंजानाति वै जनः ।।
सुपर्णी तु वचः श्रुत्वा ममायं तनयस्त्विति।
उपगम्य शनैः स्कन्दमाहाहं जननी तव ।।
अथ सप्तर्षयः श्रुत्वा जातं पुत्रं महौजसम्।
तत्यजुः षट् तदा पत्नीर्विना देवीमरुन्धतीम्।
षड्भिरेव तदा जातमाहुस्तद्वनवासिनः ।।
सप्तर्षीनाह च स्वाहा मम पुत्रोऽयमित्युत।
अहं हेतुर्नैतदेवमिति राजन्पुनः पुनः ।।
विश्वामित्रस्तु कृत्वेष्टिं सप्तर्षीणां महामुनिः।
पावकं कामसंतप्तमदृष्टः पृष्ठतोऽन्वगात्।
तत्तेन निखिलं सर्वमवबुध्य यथातथम् ।।
विश्वामित्रस्तु प्रथमं कुमारं शरणं गतः।
स्तवं दिव्यं संप्रचक्रे महासेनस् चापि सः ।।
मङ्गलानि च सर्वाणि कौमाराणि त्रयोदश।
जातकर्मादिकास्तस् क्रियाश्चक्रे महामुनिः ।।
पड्वक्रस्य तु मांहात्म्यं कुक्कुटस्य तु साधनम्।
शक्त्या देव्याः साधनं च तथा पारिषदामषि ।।
विश्वामित्रश्चकारैतत्कर्म लोकहिताय वै।
तस्मादृषिः कुमारस् विश्वामित्रोऽभवत्प्रियः ।।
अन्वजानाच्च स्वाहाया रूपान्यत्वं महामुनिः।
अब्रवीच्च मुनीन्सर्वाननापराध्यन्ति वै स्त्रियः।
श्रुत्वा तु तत्वतस्तस्मात्ते पत्नीः सर्वतोत्यजन् ।।
मार्कण्डेय उवाच।
स्कन्दं श्रुत्वा तदा देवा वासवं सहिताऽब्रुवन्।
अविषह्यं वलं स्कन्दं जहि शक्राशु माचिर् ।।
यदि वा न निहंस्येनमद्येन्द्रोऽयं भविष्यति।
त्रैलोक्यं सन्निगृह्यास्मांस्त्वां च शक्र महाबला ।।
स तानुवाच व्यथितो वालोऽयं सुमहाबलः।
स्रष्टारमपि लोकानां युधि विक्रम्य नाशयेत्।
[न बालमुत्सहे हन्तुमिति शक्रः प्रभाषते ।।
तेऽब्रुवन्नास्ति ते वीर्यं यत एवं प्रभासे।]
सर्वास्त्वद्याभिगच्छन्तु स्कन्दं लोकस्य मातरः ।।
कामवीर्या घ्नन्तु चैनं तथेत्युक्त्वा च ता ययुः।
तमप्रतिबलं दृष्ट्वा विषण्णवदनास्तु ताः ।।
अशक्योऽयंविचिन्त्यैवं तमेव शरणं ययुः।
ऊचुश्चैनं त्वमस्माकं पुत्रोऽस्माभिर्धृतंजगत् ।।
अभिनन्द्य ततः सर्वाः प्रस्नुताः स्नेहविक्लबाः।
[तासां तद्वचनं श्रुत्वा पातुकामः स्तनान्प्रभुः] ।।
ताः संपूज्य महासेनःकामांश्चासां प्रदाय सः।
अपश्यदग्निमायान्तं पितरं बलिनां बली ।।
स तु संपूजितस्तेन सह मातृगणेन ह।
परिवार्य महासेनं रक्षमाणः स्थितः शिवः ।।
सर्वासां या तु मातॄणां नारी क्रोधसमुद्भवा।
धात्री स्वपुत्रवत्स्कन्दं शूलहस्ताऽभ्यरक्षत ।।
लोहितस्योदधेः कन्या क्रूरा लोहितभोजना।
परिष्वज्य महासेनं पुत्रवत्पर्यरक्षत ।।
अग्निर्भूत्वा नैगमेयश्छागवक्रो बहुप्रजः।
रमयामास शैलस्तं बालं क्रीडनकैरिव ।।
ब्रहाः सोपग्रहाश्चैव ऋषयो मातरस्तथा।
हुताशनमुखाश्चैव दृप्ताः पारिषदां गणाः ।।
एते चान्ये च बहवो घोरास्त्रिदिववासिनः।
परिवार्य महासेनं स्थिता मातृगणैः सह ।।
संदिग्धं विजयं दृष्ट्वा विजयेप्सुः सुरेश्वरः।
आरुह्यैरावतस्कन्धं प्रययौ दैवतैः सह ।।
आदाय वज्रं बवान्सर्वैर्देवगणैर्वृतः।
विजिघांसुर्महासेनमिन्द्रस्तूर्णतरं ययौ ।।
`इन्द्रस्तस्य महावेगं दृष्ट्वाऽद्भुतपराक्रमम्।
विस्मितश्चाभवद्राजन्देवानीकमचोदयत् ।।
उग्रं तं च महानादं देवानीकं महाप्रभम्।
विचित्रध्वजसन्नाहं नानावाहनकार्मुकम्' ।।
प्रवराम्बरसंवीतं श्रिया जुष्टमलंकृतम्।
विजिघांसुं तमायान्तं कुमारः शक्रमन्वयात् ।।
वियत्पतिः स शक्रस्तु द्रुतमायान्महाबलः।
संहर्पयन्देवसेनां जिघांसुः पावकात्मजम् ।।
संपूज्यमानस्त्रिदशैस्तथैव परमर्षिभिः।
समीपमथ संप्राप्तो वह्निपुत्रस्य वासवः ।।
सिंहनादं ततश्चक्रे देवेशः सहितैः सुरैः।
गुहोऽपिशब्दं तं श्रुत्वा व्यनदात्सागरो यथा ।।
तस्य शब्देन महता समुद्धूतोदधिप्रभम्।
वभ्राम तत्रतत्रैव दैवसैन्यमचेतनम् ।।
जिधांसूनुपसंप्राप्तान्देवान्दृष्ट्वा सपावकिः।
विससर्ज मुखात्क्रुद्धः प्रवृद्धाः पावकार्चिषः ।।
अदहद्देवसैन्यानि वेपमानानि भूतले ।।
ते प्रदीप्तशिरोदेहाः प्रदीप्तायुधवाहनाः।
प्रच्युताः सहसा भान्ति चित्रास्तारागणा इव ।।
दह्यमानाः प्रपन्नास्ते शरणं पावकात्मजम्।
देवा वज्रधरं त्यक्त्वाततः शानतिमुपागताः ।।
त्यक्तो देवैस्ततः स्कन्दे वज्रं शक्रो न्यपातयत् ।।
तद्विसृष्टं जघानाशु पर्श्वं स्कन्दस्य दक्षिणम्।
विभेद च महाराज पार्श्वं तस्य महात्मनः ।।
वज्रप्रहारात्स्कन्दस्य संजातः पुरुषोऽपरः।
युवा काञ्चनसन्नाहः शक्तिधृग्दिव्यकुण्डलः ।।
यद्वज्रविशनाज्जातो विशाखस्तेन सोऽभवत् ।।
तं जातमपरं दृष्ट्वा कालानलसमद्युतिम्।
भयादिनद्रस्तुत तं स्कन्दं प्राञ्जलिः शरणं गतः ।।
तस्याभयंददौ स्कन्दः सहसैन्यस् सत्तम।
ततः प्रहृष्टास्त्रिदशा वादित्राण्यभ्यवादयन् ।।
स्कन्दपारिषदान्धोराञ्छृणुष्वाद्भुतदर्शनान्।
वज्रप्हहारात्स्कन्दस्य जज्ञुस्तत्र कुमारकाः।
ये हरन्ति शिशूञ्जातान्गर्भस्थाश्चैव दारुणाः ।।
वज्रप्रहारात्कन्याश्च जज्ञिरेऽस् महाबलाः ।।
कुमारान्स विशखं च पुत्रत्वे समकल्पयत्।
स भूत्वा भगवान्सङ्ख्ये रक्षंश्छागमुखस्तदा ।।
वृतः कन्यागणैः सर्वैरात्मीयैः सह पुत्रकैः।
मातृणां प्रेषितानां च भद्रशाखश्चकोमलैः ।।
ततः कुमारं संजातं स्कन्दमाहुर्जना भुवि।
रुद्रमग्निमुखां स्वाहां प्रदेशेषु महाबलाः ।।
यजन्ति पुत्रकामाश्च पुत्रिणश्च सदा जनाः।
यास्तास्त्वजनयत्कन्यास्तपो नाम हुताशनः ।।
किं करोमीति ताः स्कन्दं संप्राप्ताः समभाषयन् ।।
भवेम सर्वलोकस्य मातरो वयमुत्तमाः।
प्रसादात्तव पूज्याश्च प्रियमेतत्कुरुष्व नः ।।
सोऽब्रवीद्बाढमित्येवं भविष्यध्वं पृथिग्विधाः।
शिवाश्चैवाशिवाश्चैव पुनःपुनःरुदारधीः ।।
`अग्निर्भूत्वा ततश्चैनं छागवक्रो बहुप्रजः।
रमयामास शैलस्थं बलं क्रीडनकैरिव' ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
मार्कण्डेयसमास्यापर्वणि अष्टाविंशत्यधिकद्विशततमोऽध्यायः ।। 228 ।।