आरण्यकपर्व
अध्यायः २२६
कन्योवाच।
अहं प्रजापतेः कन्या देवसेनेति वुश्रुता।
भगिनी मे दैत्यसेना सा पूर्वं कोशिना हृता ।।
सहैवावां भगिन्यौ तु सखीभिः सह मानसम्।
आगच्छावो विहारार्थमनुज्ञाप्य प्रजापतिम् ।।
नित्यं चावां प्रार्थयते हर्तुं केशी महासुरः।
इच्छत्येनं दैत्यसेना न चाहं पाकशासन ।।
सा हृताऽनेन भगवान्मुक्ताऽहं त्वद्बलेन तु।
त्वया देवेन्द्र निर्दिष्टं पतिमिच्छामि दुर्जयम् ।।
इन्द्र उवाच।
मम मातृष्वसेयी त्वं माता दाक्षायणी मम।
आख्यातुं त्वहमिच्छामि स्वयमात्मबलं त्वया ।।
कन्योवाच।
अबलाऽहं महाबाहो पतिस्तु बलवान्मम।
वरदानात्पितुर्भावी सुरासुरनमस्कृतः ।।
इन्द्र उवाच।
कीदृशं तु बलंदेवि पत्युस्तव भविष्यति।
एतदिच्छाम्यहं श्रोतुं तव वाक्यमनिन्दिते ।।
कन्योवाच।
देवदानवयक्षाणां किन्नरोरगरक्षसाम्।
जेता यो दुष्टदैत्यानां महावीर्यो महाबलः ।।
यस्तु सर्वाणि भूतानि त्वया सह विजेष्यति।
स हि मे भविता भर्ता ब्रह्मण्यः कीर्तिवर्धनः ।।
मार्कण्डेय उवाच।
इन्द्रस्तस्या वचः श्रुत्वा दुःखितोऽचिन्तयद्भृशम्।
अस्या देव्याः पतिर्नास्ति यादृशं संप्रभाषते ।।
अथापश्यत्स उदये भास्करं भास्करद्युतिः।
सोमं चैव महाभागं प्रविशन्तं दिवाकरम् ।।
अमावास्यां प्रवृत्तायां मुहूर्ते रौद्र एव तु।
देवासुरं च संग्रामं सोऽपश्यदुदये गिरौ ।।
लोहितैश्च घनैर्युक्तां पूर्वां संध्यां शतक्रतुः।
अपश्यल्लोहितोदं च मघवान्वरुणालयम् ।।
भृगुभिश्चाङ्गिरोभ्यश्च हुतं मन्त्रैः पृथग्विधैः।
हव्यं गृहीत्वा वह्निं च प्रविशन्तं दिवाकरम् ।।
पर्व चैव चतुर्विंशं तदा सूर्यमुपस्थितम्।
तथा सूर्यं वह्निगतं सोमं सूर्यगतं च तम् ।।
समालोक्यैकतामेव शशिनो भास्करस्य च।
समवायं तु तं रौद्रं दृष्ट्वा शक्रोऽन्वचिन्तयत् ।।
सूर्याचन्द्रमसोर्घोरं दृश्यते परिवेषणम्।
एतस्मिन्नेव रात्र्यन्ते महद्युद्धं तु शंसति ।।
सरित्सिन्धुरपीयं तु प्रत्यसृग्वाहिनी भृशम्।
शृगालिनयग्निवक्रा च प्रत्यादित्यं विराविणी ।।
एष रौद्रश्चसंघातो महान्युक्तश्च तेजसा।
सोमस्य वह्निसूर्याभ्यामद्भुतोऽयं समागमः ।।
जनयेद्यं सुतं सोमः सोऽस्या देव्याः पतिर्भवेत्।
अथानेकैर्गुणैश्चाग्निरग्निः सर्वाश्च देवताः ।।
एष चेञ्जनयेद्गर्भं सोऽस्या देव्याः पतिर्भवेत्।
एवं संचिन्त्य भगवान्ब्रह्मलोकं तदा गतः ।।
गृहीत्वा देवसेनां तां ववन्दे स पितामहम्।
उवाच चास्या देव्यास्त्वं साधु शूरं पतिं दिशा ।।
ब्रह्मोवाच।
यथैतच्चिन्तितंकार्यं त्वया दानवसूदन।
तथा स भविता गर्भो बलवानुरुविक्रमः ।।
स विष्यति सेनानीस्त्वया सह शतक्रतो।
अस्या देव्याः पतिश्चैव स भविष्यति वीर्यवान् ।।
एतच्छ्रुत्वा नमस्तस्मै कृत्वाऽसौ मह कन्यया।
तत्राभ्यगच्छद्देवेन्द्रो यत्र सप्तर्षयोऽभवन् ।।
वसिष्ठप्रमुखा मुख्या विप्रेन्द्राः सुमहाप्रभाः।
भागार्थं तपसोपात्तं तेषां सोमं तथाऽध्वरे ।।
पिपासवो ययुर्देवाः शतक्रतुपुरोगमाः।
इष्टिं कृत्वयतान्यायं सुसमिद्धे हुताशने ।।
जुहुवुस्ते महात्मानो हव्यं सर्वदिवौकसाम्।
समाहूतो हुतवहःसोऽद्भुतः सूर्यमण्डलात् ।।
विनिःसृत्य ययौ वह्निः पार्श्वतो विधिवत्प्रभुः।
आगम्याहवनीयं वै तैर्द्विजैर्मन्त्रतो हुतम् ।।
सतत्र विविधं हव्यं प्रतिगृह्यहुताशनः।
ऋषिभ्यो भरतश्रेष्ठ प्रायच्छत दिवौकसाम् ।।
निष्क्रामंश्चाप्यपश्यत्स पत्नीस्तेषां महात्मनाम्।
स्वेष्वासतेषूपविष्टाः स्नायन्तीश्च यथासुस्वम् ।।
रुक्मवेदिनिभास्तास्तु चन्द्रलेखा इवामलाः।
हुताशनार्चिःप्रतिमाः सर्वास्तारा इवाद्भुताः ।।
स तत्रतेन मनसा बभूव क्षुभितेन्द्रियः।
पत्नीर्दृष्ट्वा द्विजेन्द्राणां वह्निः कामवशं ययौ ।।
भूयः संचिन्तयामास न न्याय्यं क्षुभितो ह्यहम्।
साध्व्यः पत्न्यो द्विजेन्द्राणामकामा कामयाम्यहम् ।।
नैताः शक्या मया द्रष्टुं स्प्रष्टुं वाऽप्यनिमित्ततः।
गार्हपत्यं समाविश्य तस्मात्पश्याम्यभीक्ष्णशः ।।
मार्कण्डेय उवाच।
संस्पृशन्निव सर्वास्ताः शिखाभिः काञ्चनप्रभाः।
पश्यमानश्च मुमुदे गार्हपत्यं समाश्रितः ।।
निरुध्य तत्रसुचिरमेवं वह्निर्वनं गतः।
मनस्तासु विनिक्षिप्य कामयानो वराङ्गनाः ।।
कामसंतप्तहृदयो देहत्यागे विनिश्चितः।
अलाभे ब्राह्मणस्त्रीणामग्निर्वनमुपागमत् ।।
स्वाहा तं दक्षदुहिता प्रथमाऽकामयत्तदा।
सा तस्य च्छिद्रमन्वैच्छच्चिरात्प्रभृतिभामिनी।
सा तं ज्ञात्वा यथावत्तु वर्हिं वनमुपागतम्।
तत्त्वतः कामसंतप्तं चिन्तयामास भामिनी ।।
अहं सप्तर्षिपत्नीनां कृत्वा रूपाणि पावकम्।
कामयिष्यामि कामार्तं तासां रूपेण मोहितम्।
एवं कृते प्रीतिरस् कामावाप्तिश्च मे भवेत् ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
मार्कण्डेयसमास्यापर्वणि षङ्घिंशत्यधिकद्विशततमोऽध्यायः ।। 226 ।।