आरण्यकपर्व

अध्यायः २२५

Aranyaka Parva (Sanskrit) · Adhyaya 225
अक्षर का आकार

मार्कण्डेय उवाच।

अग्नीनां विविधा वंशाः कीर्तितास्ते मयाऽनघ।
शुणु जन्म तु कौरव्य कार्तिकेयस् धीमतः ।।

अद्भुतस्याद्भुतं पुत्रं प्रवक्ष्याम्यमितौजसम्।
जातं सप्तर्षिभार्याभिर्ब्रह्मण्यं कीर्तिवर्धनम् ।।

देवासुराः पुरा यत्ता विनिघ्नन्तः परस्परम्।
तत्राजयन्सदा देवान्दानवा घोररूपिणः ।।

वध्यमानं बलं दृष्ट्वा बहुशस्तैः पुरंदरः।
स सैन्यनायकार्थाय चिन्तयामास वासवः ।।

देवसेनां दानवैर्हि भग्नां दृष्ट्वा महाबलः।
पालयेद्वीर्यमाश्रित्य स ज्ञेयः पुरुषो मया ।।

स शैलं मानसं गत्वा ध्यायन्नर्थमिमं भृशम्।
शुश्रावार्तस्वरं घोरमथ मुक्तं स्त्रिया तदा ।।

अभिधावतु मां कश्चित्पुरुषस्त्रातु चैव ह।
पतिं च मे प्रदिशतु स्वयं वा पतिरस्तु मे ।।

पुरंदरस्तु तामाह मा भैर्नास्ति भयं तव।
एवमुक्त्वा ततोऽपश्यत्केशिनं स्थितमग्रतः ।।

किरीटिनं गदापाणिं धातुमन्तमिवाचलम्।
हस्ते गृहीत्वा कन्यां तामथैनं वासवोऽब्रवीत् ।।

अनार्यकर्मन्कस्मात्त्वमिमां कन्यां जिहीर्षसि।
वज्रिणं मांविजानीहि विरमास्याः प्रबाधनात् ।।

केश्युवाच।

विसृजस्व त्वमेवैनां शक्रैषा प्रार्थिता मया।
क्षमं तेजीवतो गनतुं स्वपुरं पाकशासन ।।

एवमुक्त्वा गदां केशी चिक्षेपेन्द्रवधाय वै।
तामापतन्तीं चिच्छेद मध्ये वज्रेण वासवः ।।

अथास्य शैलशिखरं केशी क्रुद्धो व्यवासृजत्।
`महामेघप्रतीकाशं चलत्पावकसंकुलम् ।।

तदापन्ततं संप्रेक्ष्य शैलशृङ्गं शतक्रतुः।
बिभेद राजन्वज्रेण भुवि तन्निपपात ह ।।

पतता तु तदा केशी तेन शृङ्गेण ताडितः।
हित्वा कन्यां महाभागां प्राद्रवद्भृशपीडितः ।।

अपयातेऽसुरे तस्मिंस्तां कन्यां वासवोऽब्रवीत्।
कासि कस्यसि किंचेह कुरुषे त्वं शुभानने ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
मार्कण्डेयसमास्यापर्वणि पञ्चविंसत्यधिकशततमोऽध्यायः ।। 225 ।।