आरण्यकपर्व
अध्यायः २१४
मार्कण्येय उवाच।
एवमुक्तस्तु विप्रेण धर्मव्याधो युधिष्ठिर।
प्रत्युवाच यथा विप्रं तच्छृणुष्व नराधिप ।।
व्याध उवाच।
विज्ञानार्थं मनुष्याणां मनः पूर्वं प्रवर्तते।
तत्प्राप्य कामं भजतेक्रोधं च द्विजसत्तम ।।
ततस्तदर्थं यतते कर्म चारभते महत्।
इष्टानां रूपगन्धानामभ्यासं च निषेवते ।।
ततो रागः प्रभवति द्वेषश्च तदनन्तरम्।
ततो लोभः प्रभवति मोहश्च तदनन्तरम् ।।
तस् लोभाभिभूतस्य रागद्वेषहतस्य च।
न धर्मे जायते बुद्धिर्व्याजाद्धर्मं करोति च ।।
व्याजेन चरते धर्ममर्थं व्याजेन रोचते।
व्याजेन सिध्यमानेषु धनेषु द्विजसत्तम ।।
तत्रैव रमते बुद्धिस्ततः पापं चिकीर्षति।
सुहृद्भिर्वार्यमाणश्च पण्डितैश्च द्विजोत्तम ।।
उत्तरं श्रुतिसंबद्धं ब्रवीत्यश्रुतियोजितम्।
अधर्मस्त्रिविधस्तस्य वर्तते रागदोषजः ।।
पापं चिन्तयते चैव ब्रवीति च करोति च।
तस्याधर्मप्रवृत्तस्य गुणा नश्यन्ति साधवः ।।
एकशीलाश्च मित्रत्वं भजन्ते पापकर्मिणः।
स तेन दुःखमाप्नोति परत्र च विपद्यते ।।
पापात्मा भवति ह्येवं धर्मलाभं तु मे शृणु।
यस्त्वेतान्प्रज्ञाया दोषान्पूर्वमेवानुपश्यति ।।
कुशलः सुखदुःखेषु सांधूंश्चाप्युपसेवते।
तस्य साधुसमारम्भाद्बुद्ध्रिधर्मेषु राजते ।।
ब्राह्मण उवाच।
ब्रवीषि सूनृतंधर्मं यस्य वक्ता न विद्यते।
दिव्यप्रभावः सुमहानृषिरेव मतोसि मे ।।
व्याध उवाच।
ब्राह्मणा वै महाभागाः पितरोऽग्रभुजः सदा।
तेषां सर्वात्मना कार्यं प्रियं लोके मनीषिणा ।।
यत्तेषां च प्रियं तत्ते वक्ष्यामि द्विजसत्तम।
नमस्कृत्वा ब्राह्मणेभ्यो ब्राह्मीं विद्यां निबोध मे ।।
इदं विश्वं जगत्सर्वमजगच्चापि सर्वशः।
महाभूतात्मकं ब्रह्मन्नातः परतरं भवेत् ।।
महाभूतानि खं वायुरग्निरापस्तथा च भूः।
शब्दः स्पर्शश्च रूपं च रसो गन्धश् तद्गुणाः ।।
तेषामपि गुणाः सर्वे गुणवृत्तिः परस्परम्।
पूर्वपूर्वगुणाः सर्वे क्रमशो गुणिषु त्रिषु ।।
षष्ठी तु चेतना नाम मन इत्यभिधीयते।
सप्तमी तु भवेद्बुद्धिरहंकारस्ततः परम् ।।
इन्द्रियाणि च पञ्चात्मा रजः सत्वं तमस्तथा।
इत्येष सप्तदशको राशिरव्यक्तसंज्ञकः ।।
सर्वैरिहेन्द्रियार्थैस्तु व्यक्ताव्यक्तैः सुसंवृतैः।
चतुर्विंसक इत्येष व्यकत्वाव्यक्तमयो गुणः।
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
मार्कण्डेयसमास्यापर्वणि चतुर्दशाधिकद्विशततमोऽध्यायः ।। 214 ।।