आरण्यकपर्व

अध्यायः २१३

Aranyaka Parva (Sanskrit) · Adhyaya 213
अक्षर का आकार

मार्कण्डेय उवाच।

धर्मव्याधस्तु निपुणं पुनरेव युधिष्ठिर।
विप्रर्षभमुवाचेदं सर्वधर्मभृतांवर ।।

श्रुतिप्रमाणो धर्मोऽयमिति वृद्धानुशासनम्।
सूक्ष्मा गतिर्हि धर्मस् बहुशाखा ह्यनन्तिका ।।

प्राणान्तिके विवाहे च वक्तव्यमनृतं भवेत्।
अनृतेन भवेत्सत्यं सत्येनैवानृतं भवेत् ।।

यद्भूतहितमत्यन्तं तत्सत्यमिति धारणा।
विपर्ययकृतोऽधर्मः पश्य धर्मस्य सूक्ष्मताम् ।।

यत्करोत्यशुभं कर्म शुभं वा यदि सत्तम।
अवश्यं तत्समाप्नोति पुरुषो नात्र संशयः ।।

विषमां च दशां प्राप्तो देवान्गर्हति वै भृशम्।
आत्मृनः कर्मदोषेण न विजानात्यपण्डितः ।।

मूढो नैकृतिकश्चापि चपलश्च द्विजोत्तम।
`न शुभं कर्म बध्नाति पुरुषं पाषनिश्चयम्' ।।

सुखदुःखविपर्यासो यदा समुपपद्यते।
नैनं प्रज्ञा सुनीतं वा त्रायते नैव पौरुषम् ।।

यो यमिच्छेद्यथा कामं तं तं कामं स आप्नुयात्।
यदि स्यादपराधीनं पौरुषस् क्रियाफलम् ।।

संयताश्चापि दक्षाश्च मतिमन्तश्च मानवाः।
दृश्यन्ते निष्फलाः सन्तः प्रहीणाः सर्वकर्मभिः ।।

भूतानामपरः कश्चिद्धिंसायां सततोत्थितः।
वञ्चनायां च लोकस्य स सुखेनैव युज्यते ।।

अचेष्टमपि चासीनं श्रीः कंचिदुपतिष्ठति।
कश्चित्कर्माणि कुर्वन्हि न प्राप्यमधिगच्छति ।।

देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रगृध्नुभिः।
दशमासधृता गर्भा जायन्ते कुलपांसनाः ।।

अपरे धनधान्यैश्च भोगैश्च पितृसंचितैः।
विपुलैरभिजायन्ते लब्धास्तैरेव मङ्गलैः ।।

`न देहजा मनुष्याणां व्याधयो द्विजसत्तम'।
कर्मजा हि मनुष्याणां रोगा नास्त्यत्र संशयः ।।

आधिभिश्चैव बाध्यन्ते व्यालैः क्षुद्रमृगा इव।
व्याधयो विनिवार्यन्ते मृगा व्याधैरिव द्विज ।।

येषामस्ति च भोक्तव्यं ग्रहणीरोगपीडिताः।
न शक्नुवन्ति ते भोक्तुं चेष्टितं पूर्वकर्मया ।।

अपरे बाहुबलिनः क्लिश्यन्ति बहवो जनाः।
दुःखेन चाधिगच्छनति भोजनं द्विजसत्तम ।।

इति लोकमनाक्रन्दं देहशङ्कापरिप्लुतम्।
स्रोतसाऽसकृदाक्षिप्तं ह्रियमाणं बलीयसा ।।

न म्रियेयुर्न जीर्यैयुः सर्वे स्युः सर्वकामिकाः।
नाप्रियं प्रतिपश्येयुर्विधिश्च यदि नो भवेत् ।।

उपर्युपरि लोकस्य सर्वो गन्तुं समीहते।
यतते च यथाथक्ति न च तद्वर्तते तथा ।।

बहवः संप्रदृश्यन्ते तुल्यनक्षत्रमङ्गलाः।
महत्तु फलवैषम्यं दृश्यते कर्मसिद्धिषु ।।

न केचिदीशते ब्रह्मन्स्वयंग्राह्यस्य सत्तम।
कर्मणां प्राकृतानां वै इह सिद्धिः प्रदृश्यते ।।

तथा श्रुतिरियंब्रह्मञ्जीवः किल सनातनः।
शरीरमध्रुवं लोके सर्वेषां प्राणिनामिह ।।

वध्यमाने शरीरे तु देहनाशो भवत्युत।
जीवः संक्रमतेऽन्यत्रकर्मबनधनिबन्धनः ।।

ब्राह्मण उवाच।

कथं धर्मविदांश्रेष्ठ जीवो भवति शाश्वतः।
एतदिच्छाम्यहं ज्ञातुं तत्त्वेन वदतांवर ।।

व्याध उवाच।

न जीवनाशोस्ति हि देहभेदे
मिथ्यैतदाहुर्म्रियतीति मूढाः।
जीवस्तु देहान्तरितः प्रयाति
दशार्धतैवास् शरीरभेदः ।।

अन्यो हि नाश्नाति कृतं हि कर्म
मनुष्यलोके मनुजस् कश्चित्।
यत्तेन किंचिद्धि कृतंहि कर्म
तदश्नुते नास्ति कृतस्य नाशः ।।

सुपुण्यशीला हि भवन्ति पुण्या
नराधमाः पापकृतो भवन्ति।
नरोऽनुयातस्त्विह कर्मभिः स्वै-
स्ततः समुत्पद्यति भावितस्तैः ।।

ब्राह्मण उवाच।

कथं संभवते योनौ कथं वा पुण्यपापयोः।
जातीः पुण्या ह्यपुण्याश् कथं गच्छति सत्तम ।।

व्याध उवाच।

गर्भाधानसमायुक्तं कर्मेदं संप्रदृश्यते।
समासेन तु ते क्षिप्रं प्रवक्ष्यामि द्विजोत्तम ।।

यथा संभृतसंभारः पुनरेव प्रजायते।
शुभकृच्छुभयोनीषु पापकृत्पापयोनिषु ।।

शुभैः प्रयोगैर्देवत्वंव्यामिश्रैर्मानुषो भवेत्।
मोहनीयैर्वियोनीषु त्वधोगामी च किल्बिषैः ।।

जातिमृत्युजरादुःखैः सततं समभिद्रुतः।
संसारे पच्यमानश्च दोषैरात्मकृतैर्नरः ।।

तिर्यग्योनिसहस्राणि गत्वा नरकमेव च।
जीवाः संपरिवर्तन्ते कर्मबन्धनिबन्धनाः ।।

जन्तुस्तु कर्मभिस्तैस्तैः स्वकृतैः प्रेत्य दुःखितः।
तद्दुःखप्रतिघातार्थमपुण्यां योनिमाप्नुते ।।

ततः कर्म समादत्ते पुनरन्यन्नवं बहु।
पच्यते तु पुनस्तेन भुक्त्वाऽपथ्यमिवातुरः ।।

अजस्रमेव दुःखार्तोऽदुःखितः सुखिसंज्ञितः।
ततो निवृत्तबन्धत्वात्कर्मणामुदयादपि ।।

परिक्रामति संसारे चक्रवद्बहुवेदनः।
स चेन्निवृत्तबन्धस्तु विशुद्धश्चापि कर्मभिः ।।

तपोयोगसमारम्भं कुरुते द्विजसत्तम।
कर्मभिर्बहुभिश्चापि लोकानश्नाति कर्मभिः ।।

[स चेन्निवृत्तबन्धस्तु विशुद्धश्चापि कर्मभिः।]
प्राप्नोति सुकृताँल्लोकान्यत्रगत्वा न शोचति ।।

पापं कुर्वनपुण्यवृत्तः पुण्यस्यान्तं न गच्छति।
`पुण्यं कुर्वन्पुण्यवृत्तः पुण्यस्यान्तं न गच्छति'।
तस्मात्पुण्यं यतेत्कर्तुं वर्जयीत च पापकम् ।।

अनसूयुः कृतज्ञश्च कल्याणान्येव सेवते।
सुखानि धर्ममर्थं च स्वर्गं च लभते नरः ।।

संस्कृतस्य च दान्तस् नियतस्य यतात्मनः।
प्राज्ञास्यानन्तरा वृत्तिरिहि लोके परत्र च ।।

सतां धऱ्मेण वर्तेत क्रियां शिष्टवदाचरेत्।
असंक्लेशेन लोकस्य वृत्तिं लिप्सेत वै द्विजः ।।

सन्ति ह्यागमविज्ञानाः शिष्टाः शास्त्रे विचक्षणाः।
स्वधर्मेण क्रिया लोके कुर्वाणास्ते ह्यसंकराः ।।

प्राज्ञो धर्मेण रमते धर्मं चैवोपजीवति।
तस्माद्धर्मादवाप्तेन धनन द्विजसत्तम ।।

तस्यैव सिंचते मूलं गुणान्पश्यति यत्र वै।
धर्मात्मा भवति ह्येवं चित्तं चास्य प्रसीदति।
स मित्रजनसंतुष्ट इह प्रेत्य च नन्दति ।।

शब्दं स्पर्शं तथा रूपं गन्धानिष्टांस्च सत्तम।
प्रभुत्वं लभते चापि धर्मस्यैतत्फलं विदुः ।।

धरमस्य च पलं लब्ध्वा न तुष्यति महाद्विज।
अतुष्यमाणो निर्वेदमादत्ते ज्ञानचक्षुषा ।।

प्रज्ञाचक्षुर्नर इह दोषं नैवानुरुध्यते।
विरज्ये यथाकामं न च धर्मं विमुञ्चति ।।

फलत्यागे च यतते दृष्ट्वा लोकं क्रियात्मकम्।
ततो मोक्षे प्रयतते नानुपायादुपायतः ।।

एवं निर्वेदमादत्ते पापं कर्म जहाति च।
धार्मिकश्चापि भवति मोक्षं च लभते परम् ।।

तपो निःश्रेयसं जन्तोस्तस्य मूलं शमो दमः।
तेन सर्वानवाप्नोति कामान्यान्मनसेच्छति ।।

इन्द्रियाणां निरोधेन सत्येन च दमेन च।
ब्रह्मणः पदमाप्नोति यत्परं द्विजसत्तम ।।

ब्राह्मण उवाच।

इन्द्रियाणीति यान्याहुः कानि तानि यतव्रत।
निग्रहश्च कथं कार्यो निग्रहस्य च किं फलम् ।।

कथं च फलमाप्नोति तेषां धर्मभृतांवर।
एतदिच्छामि तत्त्वेन धर्मं ज्ञातुं सुधार्मिक ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
मार्कण्डेयसमस्यापर्वणि त्रयोदशाधिकद्विशततमोऽध्याः ।। 213 ।।