आरण्यकपर्व
अध्यायः २१०
मार्कण्डेय उवाच।
चिन्तयित्वा तदाश्चर्यं स्त्रिया प्रोक्तमशेपतः।
विनिन्दन्स द्विजोऽऽत्मानमागस्कृत इवाबभौ ।।
चिन्तयानः स धर्मस्य सूक्ष्मां गतिमथाब्रवीत्।
श्रद्दधानेन वै भाव्ये गच्छामि मिथिलामहम् ।।
कृतात्मा धर्मवित्तस्यां व्याधो निवसते किल।
तं गच्चाम्यहमद्यैव धर्मं प्रष्टुं तपोधनम् ।।
इतिसंचिन्त्य मनसा श्रद्दधानः स्त्रिया वचः।
बलाकाप्रत्ययेनासौ धर्म्यैश्च वचनैः शुभैः ।।
संप्रतस्थे स मिथिलां कौतूहलसमन्वितः।
अतिक्रामन्नरण्यानि ग्रामांश्च नगराणि च ।।
ततो जगाम मिथिलां जनकेन सुरक्षिताम्।
धर्मसेतुसमाकीर्णां यज्ञोत्सववतीं शुभाम् ।।
गोपुराट्टालकवतीं हर्म्यप्राकारशोभनाम्।
प्रविश्य नगरीं रम्यां विमानैर्बहुभिर्युताम् ।।
पण्यैश्च बहुभिर्युक्तां सुविभक्तमहापथाम्।
अश्वै रथैस्तथा नागैर्योधैश्च बहुभिर्युताम् ।।
हृष्टपुष्टजनाकीर्णां नित्योत्सवसमाकुलाम्।
सोऽपस्यद्बहुवृत्तान्तां ब्राह्मणः समतिक्रमन् ।।
धर्मव्याधमपृच्छच्च स चास्य कथितो द्विजैः।
अपश्यत्तत्रगत्वा तं सूनामध्ये व्यवस्थितम् ।।
मार्गमाहिपमांसानि विक्रीणन्तं तपस्विनम्।
आकुलत्वाच्च क्रेतृणामेकान्ते संस्थितो द्विजः ।।
स तु ज्ञाता द्विजं प्राप्तं सहसा संभ्रमोत्थितः।
आजगाम यतो विप्रः स्थित एकान्तआसने ।।
व्याध उवाच।
अभिवादये त्वां भगवन्स्वागतं ते द्विजोत्तम।
अहं व्याधो हि भद्रं ते किं करोमि प्रशाधि माम् ।।
एकपत्न्या यदुक्तोसि गच्छ त्वं मिथिलामिति।
जानाम्येतदहं सर्वं यदर्थं त्वमिहागतः ।।
श्रुत्वा च तस्य तद्वाक्यं स विप्रो भृशविस्मितः।
द्वितीयमिदमाश्चर्यमित्यचिन्तयत द्विजः ।।
अदेशस्थं हि ते स्तानमिति व्याघोऽब्रवीद्द्विजम्।
गृहं गच्छाव भगवन्यदि ते रोचतेऽनघ ।।
मार्कण्डेय उवाच।
बाढमित्येव तं विप्रो हृष्टो वचनमब्रवीत्।
अग्रतस्तु द्विजं कृत्वा स जगाम गृहं प्रति ।।
प्रविश्य च गृहंरम्यमासनेनाभिपूजितः।
`अर्ध्येण च स वै तेन व्याधेन द्विजसत्तमः' ।।
पाद्यमाचमनीयं च प्रतिगृह्य द्विजोत्तमः।
ततः सुखोपविष्स्तं व्याधं वचनमब्रवीत् ।।
कर्मैतद्वै न सदृशं भवतः प्रतिभाति मे।
अनुतप्ये भृशं तात तव घोरेण कर्मणा ।।
व्याध उवाच।
कुलोचितमिदं कर्म पितृपैतामहं परम्।
वर्तमानस्य मे धर्मे स्वे मन्युं मा कृथा द्विज ।।
विधात्रा विहितं पूर्वं कर्म स्वमनुपालयन्।
प्रयत्नाच्च गुरू वृद्धौ शुश्रूषेऽहं द्विजोत्तम ।।
सत्यं वदे नाभ्यसूये यथाशक्ति ददामि च।
देवतातिथिभृत्यानामवशिष्टेन वर्तये ।।
न कुत्सयाम्यहं किंचिन्न गर्हे बलवत्तरम्।
कृतमन्वेति कर्तारं पुरा कर्म द्विजेत्तम ।।
कृषिगोरक्ष्यवाणिज्यमिह लोकस्य जीवनम्।
दण्डनीतिस्त्रयो विद्या तेन लोको भवत्युत ।।
कर्म शूद्रे कृषिर्वैश्ये संग्रामः क्षत्रिये स्मृतः।
ब्रह्मचर्यतपोमन्त्राः सत्यं च ब्राह्मणे सदा ।।
राजा प्रशास्ति धर्मेण स्वकर्मनिरताः प्रजाः।
विकर्माणश्च ये केचित्तान्युनक्ति स्वकर्मसु ।।
भेतव्यं हि सदा राज्ञां प्रजानामधिपा हिते।
मारयन्ति विकर्मस्थं लुब्धा मृगमिवेषुभिः ।।
जनकस्येह विप्रर्षे विकर्मस्थो न विद्यते।
स्वकर्मनिरता वर्णाश्चत्वारोपि द्विजोत्तम ।।
स एष जनको राजा दुर्वृत्तमपि चेत्सुतम्।
दण्ड्यं दण्डे निक्षिपति यथा न ग्लाति धार्मिकम् ।।
सुयुक्तचारो नृपतिः सर्वं धर्मेण पश्यति।
श्रीश्च राज्यं च दण्डश्च क्षत्रियाणां द्विजोत्तम ।।
राजानो हि स्वधर्मेण श्रियमिच्छन्ति भूयसीम्।
सर्वेषामेव वर्णानां त्राता राजा भवत्युत ।।
परेण हि हतान्ब्रह्मन्वराहमहिषानहम्।
न स्वयं हन्मि विप्रर्षे विक्रीणामि सदा त्वहम् ।।
न भक्षयामि मांसानि ऋतुगामी तथाह्यहम्।
सदोपवासी च तथा नक्तभोजी सदा द्विज ।।
अशीलश्चापि पुरुषो भूत्वा भवति शीलवान्।
प्राणिहिंसारतिश्चापि भवते धार्मिकः पुनः ।।
व्यभिचाराननरेन्द्राणां धर्मः संकीर्यते महान्।
अधर्मो वर्तते चापि संकीर्यन्ते ततः प्रजाः ।।
भेरुण्डा वामनाः कुब्जाः स्थूलशीर्षास्तथैव च।
क्लीबाश्चान्धाश्च बधिरा जायन्तेऽत्युच्चलोचनाः ।।
पार्थिवानामधर्मत्वात्प्रजानामभवः सदा।
स एष राजा जनकः प्रजा धर्मेण पश्यति ।।
अनुगृह्णन्प्रजाः सर्वाः स्वधर्मनिरताः सदा।
`पात्येष राजा जनकः पितृवद्द्विजसत्तम' ।।
येचैव मां प्रशंसन्ति येच निन्दन्ति मानवाः।
सर्वान्सुपरिणीतेन कर्माणा तोषयाम्यहम् ।।
ये जीवन्ति स्वधर्मेण संयुञ्जन्ति च पार्थिवाः।
न किंचिदुपजीवनति दान्ता उत्थानसीलिनः ।।
शक्त्याऽन्नदानं सततं तितिक्षा धर्मनित्यता।
यथार्हं प्रतिपूजा च सर्वभूतेषु वै दया ।।
त्यागान्नान्यत्र मर्त्यानां गुणास्तिष्ठान्ति पूरुषे।
मृषावादं परिहरेत्कुर्यात्प्रियमयाचितः ।।
न च कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत्।
प्रिये नातिभृशं हृष्येदप्रिये न च संज्वरेत् ।।
न मुह्येदर्थकृच्छ्रेषु न च धऱ्मं परित्यजेत्।
कर्म चेत्किंचिदन्यत्स्यादितरन्न तदाचरेत् ।।
यत्कल्याणमभिध्यायेत्तत्रात्मानं नियोजयेत्।
न पापं प्रति पापः स्यात्साधुरेव सदा भवेत् ।।
आत्मनैव हतः पापो यः पापं कर्तुमिच्छति।
कर्म चैतदसाधूनां वृजिनानामसाधुकम् ।।
न धर्मोस्तीति मन्वानाः शुचीनवहसन्ति ये।
अश्रद्दधाना धर्मस् ते नश्यन्ति न संशयः ।।
महादृतिरिवाध्मातः पापो भवति नित्यदा।
`साधुः सन्नतिमानेव सर्वत्रद्विजसत्तम' ।।
मूढानामवलिप्तानामसारं भाषितं भवेत्।
दर्शयन्त्यन्तरात्मानं दिवा रूपमिवांशुमान् ।।
न लोके राजते मूर्खः केवलात्मप्रशंसया।
अपिचेह मृजाहीनः कृतविद्यः प्रकाशते ।।
अब्रुवन्कस्यचिन्निन्दामात्मपूजामवर्णयन्।
न कश्चिद्गुणसंपन्नः प्रकाशो भुवि दृश्यते ।।
विकर्मणा तप्यमानः पापाद्विपरिमुच्यते।
न तत्कुर्यां पुनरिति द्वितीयात्परिमुच्यते ।।
कर्मणा येन केनापि पापात्मा द्विजसत्तम।
एवं श्रुतिरियं ब्रह्मन्धर्मेषु प्रतिदृश्यते ।।
पापनि बुद्ध्वेह पुरा कृतानि
स्वधर्मशीलो विनिहन्ति पश्चात्।
धर्मो ब्रह्मन्नुदते ब्राह्मणानां
यत्कुर्वते पापमिह प्रमादात् ।।
पापं कृत्वा हि मन्येत नाहमस्मीति पूरुषः।
[तं तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः] ।।
चिकीर्षेदेव कल्यायणं श्रद्दधानोऽनसूयकः ।।
वसनस्येव च्छिद्राणइ साधूनां विवृणोति यः।
`अपश्यन्नात्मनो दोषान्स पापः प्रेत्य नश्यति' ।।
पापं चेत्पुरुषः कृत्वा कल्याणमभिपद्यते।
मुच्यते सर्वपापेभ्यो महाभ्रेणेव चन्द्रमाः ।।
यथाऽऽदित्यः समुद्यन्वै तमः सर्वं व्यपोहति।
एवं कल्याणमातिष्ठन्सर्वपापैः प्रमुच्यते ।।
पापानां विद्ध्यधिष्ठानं लोभमोहौ द्विजोत्तम।
`तस्मात्तौ विदुषा विप्र वर्जनीयौ विशेषतः' ।।
लुबधाः पापं व्यवस्यन्ति नरा नातिबहुश्रुताः।
अधर्म्या धर्मरूपेण तृणैः कूपा इवावृताः ।।
येषां पञ् पवित्राणि प्रलापा धर्मसंश्रितः।
सर्वं हि विद्यते तेषु शिष्टाचारः सुदुर्लभः ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
मार्कण्डेयसमास्यापर्वणि दशाधिकद्विशततमोऽध्यायः ।। 210 ।।