आरण्यकपर्व

अध्यायः २११

Aranyaka Parva (Sanskrit) · Adhyaya 211
अक्षर का आकार

मार्कण्डेय उवाच।

स तु विप्रो महाप्राज्ञ धर्मव्याधमपृच्छत।
शिष्टाचारं कथमहं विद्यामिति नरोत्तम ।।

`पञ्च कानि पवित्राणि शिष्टाचारेषु नित्यदा'।
एतदिच्छामि भद्रं ते श्रोतुं धर्मभृतांवर।
त्वत्तो महामते व्याध तद्ब्रवीहि यथातथम् ।।

व्याध उवाच।

यज्ञो दानं तपो वेदाः सत्यं च द्विजसत्तम।
पञ्चैतानि पवित्राणि शिष्टाचारेषु नित्यदा ।।

कामक्रोधौ वशे कृत्वा दम्भं लोभमनार्जवम्।
धर्ममित्येवं संतुष्टास्ते शिष्टाः शिष्टसंमताः ।।

न तेषां भिद्यते वृत्तं यज्ञस्वाध्यायशीलिनाम्।
आचारपालनं चैव द्वितीयं शिष्टलक्षणम् ।।

गुरुशुश्रूषणं सत्यमक्रोधो दानमेव च।
एतच्चतुष्टयं ब्रह्मञ्शिष्टाचारेषु नित्यदा ।।

शिष्टाचारे मनः कृत्वा प्रतिष्ठाप्य च सर्वशः।
यामयं लभते तुष्टिं सा न शक्या ह्यतोऽन्यथा ।।

वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः।
दमस्योपनिषत्त्यागः शिष्टाचारेषु नित्यदा ।।

ये तु धर्मानसूयन्ते बुद्धिमोहान्विता नराः।
अपथा गच्छतां तेषामनुयाता च पीड्यते ।।

ये तु शिष्टाः सुनियताः श्रुतित्यागपरायणाः।
धर्मपन्थानमारूढाः सत्यधर्मपरायणाः ।।

नियच्छन्ति परां बुद्धिं शिष्टाचारान्विता जनाः।
उपाध्यायमते युक्ताः स्थित्या धर्मार्थदर्शिनः ।।

नास्तिकान्भिन्नमर्यादान्क्रूरान्पापमतौ स्थितान्।
त्यज ताञ्ज्ञानमाश्रित्य धार्मिकानुपसेव्य च ।।

कामलोभग्रहाकीर्णं पञ्चेन्द्रियजलां नदीम्।
नावं धृतिमयीं कृत्वा जन्मदुर्गाणि संतर ।।

क्रमेण संचितो धर्मो बुद्धियोगमयो महान्।
शिष्टाचारे भवेत्साधू रागः शुक्ले व वाससि ।।

अहिंसा सत्यवचनं सर्वभूतहितं परम्।
अहिंसा परमो धर्मः स च सत्ये प्रतिष्ठितः।
सत्यं कृत्वा प्रतिष्ठां तु प्रवर्तन्ते प्रवृत्तयः ।।

सत्यमेव गरीयस्तु शिष्टाचारनिषेवितम्।
आचारश्च सतां धर्मः सन्तो ह्याचारलक्षणाः ।।

यो यथा प्रकृतिर्जन्तुः स स्वां प्रकृतिमश्नुते।
पापात्मा क्रोधकामादीन्दोषानाप्नोत्यनात्मवान् ।।

आरम्भो न्याययुक्तो यः स हि धऱ्म इति स्मृतः।
अनाचारस्त्वध्रमेति एतच्छिष्टानुशासनम् ।।

अक्रुध्यन्तोऽनसूयन्तो निरहंकारमत्सराः।
ऋजवः शमसंपन्नाः शिष्टाचारा भवन्ति ते ।।

त्रैविद्यवृद्धाः शुचयो वृत्तवन्तो मनस्विनः।
गुरुशुश्रूषवो दान्ताः शिष्टाचारा भवन्त्युत ।।

तेषामहीनसत्वानां दुष्कराचारकर्मणाम्।
स्वैः कर्मभिः सत्कृतानां घोरत्वं संप्रणश्यति ।।

तं तदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम्।
धर्म्यं धर्मेण पश्यन्तः स्वर्गं यान्ति मनीषिणः ।।

आस्तिका मानहीनाश्च द्विजातिजनपूजकाः।
श्रुतवृत्तोपसंपन्नास्ते सन्तः स्वर्गगामिनः ।।

वेदोक्तः प्रथमो धर्मो धर्मशास्त्रेषु चापरः।
शिष्टाचीर्णश् शिष्टानां त्रिविधं धर्मलक्षणम् ।।

धारणं चापि वेदानां तीर्थानामवगाहनम्।
क्षमा सत्यार्जवं शौचं शिष्टाचारनिदर्शनम् ।।

सर्वभूतदयावन्तो ह्यहिंसानिरताः सदा।
परुषं च न भाषन्ते सदा सन्तो द्विजप्रियाः ।।

शुभानामशुभानां च कर्मणां सबलाश्रयम्।
विपाकमभिजानन्ति ते शिष्टाः शिष्टसंमताः ।।

न्यायोपेता गुणोपेताः सर्वलोकहितैषिणः।
सन्तः स्वर्गजितः शक्त्या सन्निविष्टाश्च सत्पथे।
दातारः संविभक्तारो दीनानुग्रहकारिणः ।।

सर्वपूज्याः श्रुतधनास्तथैव च तपस्विनः।
सर्वभूतदयावन्तस्ते शिष्टाः शिष्टसंमताः ।।

दाननित्याः सुखान्याशु प्राप्नुवन्त्यपि च श्रियम्।
पीडया च कलत्रस्य भृत्यानां च समाहिताः ।।

अतिशक्त्या प्रयच्छन्ति सन्तः सद्भिः समागताः।
लोकयात्रां च पशय्न्तो धर्ममात्महितानि च।
एवं सन्तोवर्तमानास्त्वेधन्ते शाश्वतीः समाः ।।

अहिंसा सत्यवचनमानृशंस्यवथार्जवम्।
अद्रोहो नातिमानश्च ह्रीस्तितिक्षा दमः शमः ।।

धीमन्तो धृतिमन्तश्च भूतानामनुकम्पकाः।
अकामद्वेषसंयुक्तास्ते सन्तो लोकसत्कृताः ।।

त्रीण्येव तु पदान्याहुः सतां वृत्तमनुस्मरन्।
न चैव द्रुह्येद्दद्याच्च सत्यं चैव सदा वदेत् ।।

सर्वत्र च दयावन्तः सन्तः करुणवेदिनः।
गच्छन्तीह सुसंतुष्टा धर्म्यं पन्थानमुत्तमम् ।।

शिष्टाचारा महात्मानो येषां धर्मः सुनिश्चितः।
अनसूया क्षमा शान्तिः संतोषः प्रियवादिता ।।

कामक्रोधपरित्यागः शिष्टाचारनिषेवणम्।
कर्म च श्रुतसंपन्नं सतां मार्गमनुत्तमम् ।।

शिष्टाचारं निषेवन्ते नित्यं ध्रममनुव्रताः।
प्रज्ञाप्रासादमारूह्य मुह्यतो महतो जनान् ।।

प्रेक्षन्ते लोकवृत्तानि विविधानि द्विजोत्तमाः।
अतिषुण्यानि दानानि तानि द्विजवरोत्तम ।।

एतत्ते सर्वमाख्यातं यथाप्रज्ञं यथाश्रुतम्।
शिष्टाचारगुणान्ब्रह्मन्पुरस्कृत्य द्विजर्षभ ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
मार्कण्डेयसमास्यापर्वणि एकादशाधिकद्विशततमोऽध्यायः ।।