आरण्यकपर्व

अध्यायः १६७

Aranyaka Parva (Sanskrit) · Adhyaya 167
अक्षर का आकार

वैशंपायन उवाच।

[ततो रजन्यां व्युष्टायां धर्मराजं युधिष्ठिरम्।
भ्रातृभिः सहितः सर्वैरवन्दत धनंजयः ।।]

एतस्मिन्नेव काले तु सर्ववादित्रनिःखनः।
बभूव तुमुलः शब्दस्त्वन्तरिक्षे दिवौकसाम् ।।

रथनेमिखनश्चैव घण्टाशब्दश्च भारत।
पृथग्व्यालमृगाणां च पक्षिणां चैव सर्वशः ।।

`रवोन्मुखास्ते ददृशुः प्रीयमाणाः कुरूद्वह।
मरुद्भिरन्वितं शक्रमापतन्तं विहायसा' ।।

ते समन्तादनुययुर्गन्धर्वाप्सरसस्तथा।
विमानैः सूर्यसंकाशैर्देवराजमरिंदमम् ।।

ततः स हरिभिर्युक्तं जाम्बूनदपरिष्कृतम्।
मेघनादिनमारुह्य श्रिया परमया ज्वलन् ।।

पार्थानभ्याजपामाशु देवराजः पुरंदरः।
आगत्य च सहस्राक्षो रथादवरुरोह वै ।।

तं दृष्ट्वैव महात्मानं धर्मराजो युधिष्ठिरः।
भ्रातृभिः सहितः श्रीमान्देवराजमुपागमत् ।।

पूजयामास चैवाथ विधिवद्भूरिदक्षिणः।
यथार्हममितात्मानं विधिदृष्टेन कर्मणा ।।

धनंजयश्च तेजस्वी प्रणिपत्य पुरंदरम्।
भृत्यवत्प्रणतस्तस्थौ देवराजसमीपतः ।।

आघ्राय तं महातेजाः कुन्तीपुत्रो युधिष्ठिरः।
धनंजयभिप्रेक्ष्यविनीतं स्थितमन्तिके ।।

जटिलं देवराजस्य तपोयुक्तमकल्मषम्।
हर्षेण महताऽऽविष्टः फल्गुनस्याथ दर्शनात्।
बभूव परमप्रीतो देवराजं च पूजयन् ।।

तं तथाऽदीनमनसं राजानं हर्,संप्लुतम्।
उवाच वचनं धीमान्धर्मराजं पुरंदरः ।।

त्वमिमां पृथिवीं राजन्प्रशासिष्यसि पाण्डव।
स्वस्ति प्राप्नुहि कौन्तेय काम्यकं पुनराश्रमम् ।।

अस्त्राणि लब्धानि च पाण्डवेन
सर्वाणि मत्तः प्रयतेन राजन्।
कृतप्रियश्चास्मि धनंजयेन
जेतुं न शक्यस्त्रिभिरेष लोकैः ।।

एवमुक्त्वा सहस्राक्षः कुन्तीपुत्रं युधिष्ठिरम्।
जगाम त्रिदिवं हृष्टः स्तूयमानो महर्षिभिः ।।

धनेश्वरगृहस्थानां पाण्डवानां समागमम्।
शक्रेण य इदं विद्वानधीयीत समाहितः ।।

संवत्सरं ब्रह्मचारी नियतः संशितव्रतः।
स जीवेद्धि निराबाधः सुसुखी शरदां शतम् ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
निवातकवचयुद्धपर्वणि
सप्तषष्ट्यधिकशततमोऽध्यायः ।। 167