आरण्यकपर्व
अध्यायः १६६
वैशंपायन उवाच।
ततः कदाचिद्धरिसंप्रयुक्तं
महेन्द्रवाहं सहसोपयातम्।
विद्युत्प्रभं प्रेक्ष्य महारथानां
हर्षोऽर्जुनं चिन्तयतां बभूव ।।
स दीप्यमानः सहसाऽन्तरिक्षं
प्रकाशयन्मातलिसंगृहीतः।
बभौ महोल्केव घनान्तरस्था
शिखेव चाग्नेर्ज्वलिता विधूमा ।।
तमास्थितः संददृशे किरीटी
स्रग्वी नवान्याभरणानि बिभ्रत्।
धनंजयो वज्रधरप्रभावः
श्रिया ज्वलन्पर्वतमाजगाम् ।।
स शैलमासाद्य किरीटमाली
महेन्द्रवाहादवरुह्य तस्मात्।
धौम्यस्य पादावभिवाद्य पूर्व-
मजातशत्रोस्तदनन्तरं च ।।
वृकोदरस्यापि च वन्द्य पादौ
माद्रीसुताभ्यामभिवादितश्च।
समेत्य कृष्णां परिसान्त्व्य चैनां
प्रह्वोऽभवद्भ्रातुरुपह्वरे सः ।।
बभूव तेषां परमः प्रहर्ष-
स्तेनाप्रमेयेण समेत्य तत्र।
स चापि तान्प्रेक्ष्य किरीटमाली
ननन्द राजानमभिप्रशंसन् ।।
यमास्थितः सप्त जघान पूगान्
दितेः सुतानां नमुचेर्निहन्ता।
तमिन्द्रवाहं समुपेत्य पार्थाः
प्रदक्षिणं चक्रुरदीनसत्वाः ।।
ते मातलेश्चक्रुरतीव हृष्टाः
सत्कारमग्र्यं सुरराजतुल्यम्।
सर्वं यथावच्च दिवौकसङ्घं
पप्रच्युरेनं कुरुराजपुत्राः ।।
तानप्यसौ मातलिरभ्यनन्द-
त्पितेव पुत्राननुशिष्य पार्थान्।
ययौ रथेनाप्रतिमप्रभेण
पुनः सकाशं त्रिदिवेश्वरस्य ।।
गते तु तस्मिन्वरदेववाहे
शक्रात्मजः सर्वरिपुप्रमाथी।
`साक्षात्सहस्राक्ष इव प्रतीतः
श्रीमान्स्वदेहादवमुच्य जिष्णुः' ।।
शक्रेण दत्तानिददौ महात्मा
महाधनान्युत्तमरूपवन्ति।
दिवाकराभाणि विभूषणानि
प्रीतः प्रियायै सुतसोममात्रे ।।
ततऋः स तेषां कुरुपुङ्गवानां
तेषां च सूर्याग्निसमप्रभाणाम्।
विप्रर्षभाणामुपविश्य मध्ये
सर्वं यथावत्कथयांबभूव ।।
एवं मयाऽस्त्राण्युपशिक्षितानि
शक्राच्च वायोश्च शिवाच्च साक्षात्।
तथैव शीलेन समाधिना च
प्रीताः सुरा मे सहिताः सहेन्द्राः ।।
संक्षेपतो वै स विशुद्धकर्मा
तेभ्यः समाख्याय दिवःप्रवेशम्।
माद्रीसुताभ्यां सहितः किरीटी
सुष्वाप तामावसतिं प्रतीतः ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
निवातकवचयुद्धपर्वणि
षट्षष्ट्यधिकशततमोऽध्यायः ।। 166