आरण्यकपर्व

अध्यायः १६८

Aranyaka Parva (Sanskrit) · Adhyaya 168
अक्षर का आकार

वैशपायन उवाच।

यथागतं गते शक्रे भ्रातृभिः सह संगतः।
कृष्णया चैव बीभत्सुर्धर्मराजमपूजयत् ।।

अभिवादयमानं तं मूर्ध्न्युपाघ्राय पाण्डवम्।
हर्षगद्गदया वाचा प्रहृष्टोऽर्जुनमब्रवीत् ।।

कथमर्जुन कालोऽयं स्वर्गे रव्यतिगतस्तव।
कथं चास्त्राण्यवाप्तानि देवराजश्च तोषितः ।।

सम्यग्वा ते गृहीतानि कच्चिदस्त्राणि पाण्डव।
कच्चित्सुराधिपः प्रीतो रुद्रश्चास्त्राण्यदात्तव ।।

यथा दृष्टश्च ते शक्रो भगवान्वा पिनाकधृत्।
यथैवास्त्राण्यवाप्तानि यथैवाराधिताश्च ते ।।

यथोक्तवांस्त्वां भगवाञ्शतक्रतुररिंदम।
कृतप्रियस्त्वयाऽस्मीति तस्य ते किं प्रियं कृतम् ।।

एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते।
यथा तुष्टो महादेवो देवराजस्तथाऽनघ ।।

यच्चापि वज्रपाणेस्तु प्रियं कृतमरिंदम।
एतदाख्याहि मे सर्वमखिलेन धनंजय ।।

अर्जुन उवाच।

शृणु हन्त महाराज विधिना येन दृष्टवान्।
शतक्रतुमहं देवं भगवन्तं च शंकरम् ।।

विद्यामधीत्य तां राजंस्त्वयोक्तामरिमर्दन।
भवता च समादिष्टस्तपसे प्रस्थितो वनम् ।।

भृगुतुन्दमथो गत्वा काम्यकादास्थितस्तपः।
एकरात्रोषितः कंचिदपश्यं ब्राह्मणं पथि ।।

स मामपृच्छत्कौन्तेय क्वासि गन्ता ब्रवीहि मे।
तस्मा अवितथं सर्वमब्रवं कुरुनन्दन ।।

स तथ्यं मम तच्छ्रुत्वा ब्राह्मणो राजसत्तम।
अपूजयत मां राजन्प्रीतिमांश्चाभवन्मयि ।।

ततो मामब्रवीत्प्रीतस्तप आतिष्ठ भारत।
तपस्वी नचिरेण त्वं द्रक्ष्यसे विबुधाधिषम् ।।

ततोऽहं वचनात्तस्य गिरिमारुह्य शैशिरम्।
तपोऽतप्यं महाराज मासं मूलफलाशनः ।।

द्वितीयश्चापि मे मासो जलं भक्षयतो गतः।
निराहारस्तृतीयेऽथ मासे पाण्डवनन्दन ।।

ऊर्ध्वबाहुश्चतुर्थं तु मासमस्मि स्थितस्तदा।
न च मे हीयते प्राणस्तदद्भुतमिवाभवत् ।।

पञ्चमे त्वथ संप्राप्ते प्रथमे दिवसे गते।
वराहसंस्थितं भूतं मत्समीपं समागमत् ।।

निघ्नन्प्रोथेन पृथिवीं विलिखंश्चरणैरपि।
संमार्जञ्जठरेणोर्वीं विवर्तंश्च मुहुर्मुहुः ।।

अनु तस्यापरं भूतं महत्कैरातसंस्थितम्।
धनुर्बाणासिमत्प्राप्तं स्त्रीगणानुगतं तदा ।।

ततोऽहं धनुरादाय तथाऽक्षय्ये महेषुधी।
अताडयं शरेणाथ तद्भूतं रोमहर्षणम् ।।

युपत्तं किरातस्तु विकृष्य बलवद्धनुः।
अभ्याजघ्ने दृढतरं कम्पयन्निव मेदिनीम् ।।

सतु मामब्रवीद्राजन्मम पूर्वपरिग्रहः।
मृगयाधर्ममुत्सृज्य किमर्थं ताडितस्त्वया ।।

एष ते निशितैर्बाणैर्दर्पं हन्मि स्थिरो भव।
संघर्षवान्महाकायस्ततो मामभ्यधावत ।।

ततो गिरिमिवात्यर्थमावृणोन्मां महाशरैः।
तं चाहं शरवर्षेण महता समवाकिरम् ।।

ततः शरैर्दीप्तमुखैर्यन्त्रितैरनु यन्त्रितैः।
प्रत्यविध्यमहं तं तु वज्रैरिव शिलोच्चयम् ।।

तस्य तच्छतधा रूपमभवच्च सहस्रधा।
तानि चास्य शरीराणि शरैरहमताडयम् ।।

पुनस्तानि शरीराणि एकीभूतानि भारत।
अदृश्यन्त महाराज तान्यहं व्यधमं पुनः ।।

अणुर्बृहच्छिरा भूत्वा बृहच्चाणुशिराः पुनः।
एकीभूतस्तदा राजन्सोऽभ्यवर्तत मां युधि ।।

यदाऽभिभवितुं बाणैर्न च शक्नोमि तं रणे।
ततो महास्त्रमातिष्ठं वायव्यं भरतर्षभ ।।

न चैनमशकं हन्तुं तदद्भुतमिवाभवत्।
तस्मिन्प्रतिहते चास्त्रे विस्मयो मे महानभूत् ।।

तत्रापि च महाराज सविशेषमहं ततः।
अस्त्रपूगेन महता रणे भूतमवाकिरम् ।।

स्थूणाकर्णमथो जालं शरवर्षं शरोल्वणम्।
शलभास्त्रमश्मवर्षं समास्थायाहमभ्ययाम् ।।

जग्रास प्रसभं तानि सर्वाण्यस्त्राणि मे नृप।
तेषु सर्वेषु जग्धेषु ब्रह्मास्त्रं महदादिशम् ।।

ततः प्रज्वलितैर्बाणैः सर्वतश्चोपचीयत।
उपचीयमानश्च तदा महास्त्रेण व्यवर्धत ।।

ततः संतापिता लोका मत्प्रसूतेन तेजसा।
क्षणएन हि दिशः स्वं च सर्वतो हि विदीपितं ।।

तदप्यस्त्रं महातेजाः क्षणेनैव व्यशामयत्।
ब्र्हमास्त्रे तु हते राजन्भयं मां महदाविशत् ।।

ततोऽहं धनुरादाय तथाऽक्षय्ये महेषुधी।
सहसाऽभ्यहनं भूतं तान्यप्यस्त्राण्यभक्षयत् ।।

एतेष्वस्त्रेषु भूतेन भक्षितेष्वायुधेषु च।
मम तस् च भूतस्य बाहुयुद्धमवर्तत ।।

व्यायामं मुष्टिभिः कृत्वा तलैरभिसमाहतौ।
अपायच्च तद्भूतमहं चापातयं महीम् ।।

ततः प्रहस्य तद्भूतं तत्रैवान्तरधीयत।
सह स्त्रीभिर्महाराज पश्यतो मेऽद्भुतोपमम् ।।

मुख्यं कृत्वा स भगवांस्ततोऽन्यद्रूपमात्मनः।
दिव्यमेव महाराज वरानोऽद्भुतमम्बरम् ।।

हित्वा किरातरूपं च भगवांस्त्रिदशेश्वरः।
स्वरूपं दिव्यमास्थाय तस्यौ महेश्वरः ।।

सोऽदृश्यत ततः साक्षाद्भगवान्गोवृषध्वजः।
धनुर्गृह्यतदा पाणौ बहुरूपः पिनाकधृत् ।।

स मामभ्येत्य समरे तथैवाभिमुखं स्थितम्।
शूलपाणिरथोवाच तुष्टोस्मीति परंतप ।।

ततस्तद्धनुरादाय तूणौ चाक्षय्यसायकौ।
प्रादान्ममैव भगवान्वरयस्वेति चाब्रवीत् ।।

तुष्टोस्मि तव कौन्तेय ब्रूहि किं करवाणि ते।
मनोगतं वीर यत्ते तद्ब्रूहि वितराम्यहम्।
अमरत्वमपाहाय ब्रूहि यत्ते मनोगतम् ।।

ततः प्राञ्डलिरेवाहमस्त्रेषु कृतमानसः।
प्रणम्य शिरसा शर्वं ततो वचनमाददे ।।

भगवानमे प्रसन्नश्चेदीप्सितोऽयं वरो मम।
अस्त्राणीच्छाम्यहं ज्ञातुं यानि देवेषु कानिचित् ।।

ददानीत्येव भगवानब्रवीत्र्यम्बकश्च माम्।
रौद्रमस्त्रं मदीयं त्वामुपस्थास्यति पाण्डव ।।

प्रददौ च मम प्रीतः सोऽस्त्रं पाशुपतं प्रभुः।
उवाच च महादेवो दत्त्वा मेऽस्त्रं सनातनम् ।।

न प्रयोज्यंभवेदेतन्मानुषेषु कथंचन।
[जगद्विनिर्दहेदेवमल्पतेजसि पातितम् ।।

पीड्यमानन बलवत्प्रयोज्यंस्याद्धनंजय।
अस्त्राणां प्रतिघाते च सर्वथैव प्रयोजयेः ।।

ततोऽप्रतिहतं दिव्यं सर्वास्त्रप्रतिषेधनम्।
मूर्तिमन्मे स्थितं पार्श्वे प्रसन्ने गोवृषध्वजे ।।

उत्सादनममित्राणां परसेनानिकर्तनम्।
दुरासदं दुष्प्रसहं सुरदानवराक्षसैः ।।

अनुज्ञातस्त्वहं तेन तत्रैव समुपाविशम्।
प्रेक्षतश्चैवमे देवस्तत्रैवान्तरधीयत ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
निवातकवचयुद्धपर्वणि
अष्टषष्ट्यधिकशततमोऽध्यायः ।। 168