आरण्यकपर्व

अध्यायः १६५

Aranyaka Parva (Sanskrit) · Adhyaya 165
अक्षर का आकार

वैशंपायन उवाच।

तस्मिन्नगेन्द्रे वसतां तु तेषां
महात्मनां सद्व्रतमास्थितानाम्।
रतिः प्रमोदश्च बभूव तेषा-
माकाङ्क्षतां दर्शनमर्जुनस्य ।।

तान्वीर्ययुक्तान्सुविशुद्धसत्वां-
स्तेजस्विनः सत्यधृतिप्रधानान्।
संप्रीयमाणा बहवोऽबिजग्मु-
र्गन्धर्वसङ्घाश्च महर्षयश्च ।।

तं पादपैः पुष्पफलैरुपेतं
नगोत्तमं प्राप्य महारथानाम्।
मनःप्रसादः परमो बभूव
यथा दिवं प्राप्य मरुद्गणानाम् ।।

मयूरहंसस्वननादितानि
पुष्पोपकीर्णानि महाचलस्य।
शृङ्गाणि सानूनि च पश्यमाना
गिरेः परं हर्षमवाप्य तस्थुः ।।

साक्षात्कुबेरेण कृताश्च तस्मि-
न्नगोत्तमे संवृतकूटगुल्माः।
कादम्बकारण्डवहंसजुष्टाः
पद्माकुलाः पुष्करिणीरपश्यन् ।।

क्रीडाप्रदेशांस्च समृद्धरूपा-
न्सवेदिकांस्ते न्यवसन्सुवेशान्।
मणिप्रकीर्णांश्च मनोरमांश्च
यथा भवेयुर्नदस्य राज्ञः ।।

अनेकवर्णैश् सुगन्धिभिश्च
महाद्रुमैः संततमभ्रजालैः।
तपःप्रधानाः सततं चरन्तः
शृङ्गं गिरेश्चिन्तयितुं न शेकुः ।।

स्वतेजसा तस्य नगोत्तमस्य
महौषधीनां च तथा प्रभावात्।
विभक्तरूपः सविता बभूव
निशामुखं प्राप्य नरर्षभाणाम् ।।

यमास्थितः स्थावरजङ्गमानां
विभावसुर्भाविता हरीशः।
तस्योदयं चास्तमनं च वीर-
स्तत्रस्थितास्ते ददृशुर्नृसिंहाः ।।

रवेस्तमिस्रागमनिर्गमांस्ते
तथोदयं चास्तमनं च वीराः।
समावृताः प्रेक्ष्य तमोनुदस्य
गभस्तिजालैः प्रदिशो दिशश्च ।।

स्वाध्यायवन्तः सततक्रियाश्च
धर्मप्रधानाश्च शुचिव्रताश्च।
सत्ये स्थितास्तस्य महारथस्य
सत्यव्रतस्यागमनप्रतीक्षाः ।।

इहैव हर्षोऽस्तु समागतानां
क्षिप्रं कृतास्त्रेण धनंजयेन।
इति ब्रुवन्तः परमाशिपस्ते
पार्थास्तपोयोगपरा बभूवुः ।।

दृष्ट्वा विचित्राणि गिरौ वनानि
किरीटिनं चिन्तयतामभीक्ष्णम्।
बभूव राविर्दिवसश्च तेषां
संवत्सरेणैव समानरूपः ।।

यदैव धौम्यानुमते महात्मा
कृत्वा जटां प्रव्रजितः स जिष्णुः।
तदैव तेषां नबभूव हर्षः
कुतो रतिस्तद्गतमानसानाम् ।।

भ्रातुर्नियोगात्तु युधिष्ठिरस्य
वनादसौ वारणमत्तगामी।
यत्काम्यकात्प्रव्रजितः स जिष्णु-
स्तदैव ते शोकहता बभूवुः ।।

तथैव तं चिन्तयतां सिताश्व-
मस्त्रार्थिनं वासवमभ्युपेतम्।
कालः स कृच्छ्रेण महानतीत-
स्तस्मिन्नगे भारत भारतानाम् ।।

[उषित्वा पञ्चवर्षाणि सहस्राक्षनिवेशने।
अवाप्य दिव्यान्यस्त्राणि सर्वाणि विबुधेश्वरात् ।।

आग्नेयं वारुणं सौम्यं वायव्यमथ वैष्णवम्।
ऐन्द्रं पाशुपतं ब्राह्मं पारमेष्ठ्यं प्रजापतेः ।।

यमस्य धातुः सवितुस्त्वष्टुर्वैश्रवणस्य चं।
तानि प्राप्य सहस्राक्षादभिवाद्य शतक्रतुम् ।।

अनुज्ञातस्तदा तेन कृत्वा चापि प्रदक्षिणम्।
आगच्छदर्जुनः प्रीतः प्रहृष्टो गन्धपादनम् ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
यक्षयुद्धपर्वणि पञ्चषष्ट्यधिकशततमोऽध्यायः ।। 165 ।।