आरण्यकपर्व

अध्यायः १५९

Aranyaka Parva (Sanskrit) · Adhyaya 159
अक्षर का आकार

वैशंपायन उवाच।

निहते राक्षसे तस्मिन्पुनर्नारायणाश्रमम्।
अभ्येत्य राजा कौन्तेयो निवासमकरोत्प्रभुः ।।

स समानीय तान्सर्वान्भ्रातॄनित्यब्रवीद्वचः।
द्रौपद्या सहितः काले संस्मरन्भ्रातरं जयम् ।।

समाश्चतस्रोऽभिगताः शिवेन चरतां वने।
कृतोद्देशः स बीभत्सुऋ पञ्चमीमभितः समाम् ।।

प्राप्य पर्वतराजानं श्वेतं शिखरिणांवरम्।
[पुष्पितैर्द्रुमषण्डैश्च मत्तकोकिलाषट्पदैः ।।

मयूरैश्चातकैश्चापि नित्योत्सवविभूषितम्।
व्याघ्रैर्वरहैर्महिषैर्गवयैर्हरिणैस्तथा ।।

श्वापदैर्व्यालरूपैश्च रुरुभिश्च निषेवितम्।
फुल्लैः सहस्रपत्रैश्च शतपत्रैस्तथोत्पलैः ।।

प्रफुल्लैः कमलैश्चैव तथा नीलोत्पलैरपि।
महापुणअयं पवित्रं च सुरासुरनिषेवितम्।]
तत्रापि च कृतोद्देशः समागमदिदृक्षुभिः ।।

कृतश्च समयस्तेन पार्थेनामिततेजसा।
पञ्चवर्षाणि वत्स्याभि विद्यार्थीति पुरा मयि ।।

अत्रगाण्डीवधन्वानमवाप्तास्त्रमरिंदमम्।
देवलोकादिमं लोकं द्रक्ष्यामः पुनरागतम् ।।

इत्युक्त्वा ब्राह्मणान्सर्वानामन्त्रयत पाण्डवः।
कारणं चैव तत्तेवामाचचक्षे तपस्विनाम् ।।

तमुग्रतपसः प्रीताः कुत्वापार्थं प्रदक्षिणम्।
ब्राह्मणास्तेऽन्वमोदन्त शिवेन कुशलेन च ।।

सुखोदर्कमिमं क्लेशमचिराद्भरतर्षभ।
क्षत्रधर्मेण धर्मज्ञ तीर्त्वा गां पालयिष्यसि ।।

तत्तु राजा वचस्तेषां प्रतिगृह्य तपस्विनाम्।
प्रतस्थे सह विप्रैस्तैर्भ्रातृभिश्च परंतपः ।।

`द्रौपद्या सहितः श्रीमान्हैडिम्बेयादिभिस्तदा'।
राक्षसैरनुयातो वै लोमशेनाभिरक्षितः ।।

क्वचित्पद्भ्यां ततोऽगच्छद्राक्षसैरुदह्यते क्वचित्।
तत्रतत्र महातेजा भ्रातृभिः सह सुव्रतः ।।

ततो युधिष्ठिरो राजा बहुन्क्लेशान्विचिन्तयन्।
सिंहव्याघ्रगजाकीर्णामुदीचीं प्रययौ दिशम् ।।

अवेमाण कैलासं मैनाकं चैव पर्वतम्।
गन्धमादनपादांश्च मेरुं चापि शिलोच्चयम् ।।

उपर्युपरि शैलस्य बहीश्च सरितः शिवाः।
पृष्ठं हिमवतः पुण्यं ययौ सप्तदशेऽहनि ।।

ददृशुः पाण्डवा राजन्गन्धमादनमन्तिकम्।
पृष्ठे हिमवतः पुण्ये नानाद्रुमलतावृते ।।

सलिलावर्तसंजातैः पुष्पितैश्च महीरुहैः।
समावृतं पुण्यतममाश्रमं वृषपर्वणः ।।

तमुपक्रम्य राजर्षिं धर्मात्मानमरिंदमाः।
पाण्डवा वृषपर्वाणमवदन्त गतक्लमाः ।।

अभ्यनन्दत्स राजर्षिः पुत्रवद्भरतर्षभान्।
पूजिताश्चावसंस्तत्रसप्तरात्रमरिंदमाः ।।

अष्टमेऽहनि संप्राप्ते तमृषिं लोकविश्रुतम्।
आमन्त्र्य वृषपर्वाणं प्रस्थानं प्रत्यरोचयन् ।।

एकैकशश्च तान्विप्रान्निवेद्य वृषपर्वणि।
न्यासभूतान्यथाकालं बन्धूनिव सुसत्कृतान्।
पारिबर्हं चतं शेषं परिदाय महात्मने ।।

ततस्ते यज्ञपात्राणि रत्नान्याभरणानि च।
न्यदधुःपाण्डवा राजन्नाश्रमे वृषपर्वणः ।।

अतीतानागते विद्वान्कुशलः सर्वधर्मवित्।
अन्वशासत्स धर्मज्ञः पुत्रवद्भरतर्षभान् ।।

तेऽनुज्ञाता महात्मानः प्रययुर्दिशमुत्तराम्।
`कुष्णया सहिता वीरा ब्राह्मणैश्च महात्मभिः

तान्प्रस्थितानन्वगच्छद्वृषपर्वा महीपतीन्।
उपन्यस् महातेजा विप्रेभ्यः पाण्डवांस्तदा ।।

अनुसंसार्य कौन्तेयानाशीर्भिरभिनन्द्य च।
वृषपर्वा निववृतेपन्थानमुपदिश्य च ।।

नानामृगगणैर्जुष्टं कौन्तेयः सत्यविक्रमः।
पदातिर्भ्रातृभिः सार्धं प्रातिष्ठत युधिष्ठिरः ।।

नानाद्रुमनिरोधेषु वसन्तः शैलसानुषु।
पर्वतं विविशुस्ते तं चतुर्थेऽहनि पाण्डवाः ।।

महाभ्रघनसंकाशं सलिलोपहितं शुभम्।
मणिकाञ्चनरम्यं च शैलं नानासमुच्छ्रयम् ।।

`रम्यं हिमवतः प्रस्थं बहुकन्दरनिर्झरम्।
शिलाविभङ्गविकटं लतापादपसङ्कुलम्' ।।

ते समासाद्यपन्थानं यतोक्तं वृषपर्वणा।
अनुसस्रुर्यथोद्देशं पश्यन्तो विविधान्नगान् ।।

उपर्युपरि शैलस्य गुहाः परमदुर्गमाः।
सुदुर्गमांस्ते सुबहून्सुखेनैवाभिचक्रमुः ।।

धौम्यः कृष्णा च पार्ताश्च लोमशश्च महानृषिः।
आगच्छन्सहितास्तत्रन कश्चिदपि हीयते ।।

ते मृगद्विजसंघुष्टं नानाद्रुमलतायुतम्।
शाखामृगगणैश्चैव सेवितं सुमनोरमम् ।।

पुण्यं पद्मसरोपेतं सपल्वलमहावनम्।
उपतस्थुर्महाभागा माल्यवतं महागिरिम् ।।

ततः किंपुरुषावासं सिद्धचारणसेवितम्।
ददृशुर्हृषरोमाणाः पर्वतं गन्धमादनम् ।।

विद्याधरानुचरितं किन्नरीभिस्तथैव च।
गजसङ्घसमावासं सिंहव्याघ्रगणायुतम् ।।

शरभोन्नादसंघुष्टं नानमृगनिषेवितम् ।।

ते गन्धमादनवनं तन्नन्दनवनोपमम्।
मुदिताः पाण्डुतनया मनोनयननन्दनम् ।।

विविशुः क्रमशो वीरा अरण्यं शुभकाननम्।
द्रौपदीसहिता वीरास्तैश्च विप्रैर्महात्मभिः ।।

शृण्वन्तः प्रीतिजननान्वल्गून्मन्दकलाञ्शुभान्।
श्रोत्ररम्यान्सुमधुराञ्शब्दान्खगमुखेरितान् ।।

सर्वर्तुफलभाराञ्यान्सर्वर्तुकुसुमोज्ज्वलाम्।
पश्यन्तः पादपांस्चापि फलभारावनामितान् ।।

आम्रानाम्रातकान्फुल्लान्नारिकेलान्सतिन्दुकान्।
मुञ्जातकांस्तथाञ्जीरान्दाडिमान्बीजपूरकान् ।।

पनसाँल्लिकुचान्मोचाः खर्जूरानम्लवेतसान्।
परावतांस्तथा क्षौद्रानीपांश्चापि मनोरमान् ।।

बेल्वान्कपित्थाञ्जम्बूश्च काश्मरीर्ब्रदरीस्तथा।
पुक्षानुदुम्बरवटानश्वत्थान्क्षीरिकास्तथा ।।

मल्लातकानामलकीर्हरीतकबिभीतकान्।
इङ्गुदान्करमर्दांश्च तिन्दुकांश् महाफलान् ।।

एतानन्यांश्च विविधान्गन्धमादनसानुषु।
फलैरमृतकल्पैस्तानाचितान्स्वादुभिस्तरूपन् ।।

तथैव चम्पकाशोकान्केतकान्बकुलांस्तथा।
पुन्नागान्सप्तपर्णांश्च कर्णिकारान्सकेतकान्।
पाटलान्कुटजान्रम्यान्मन्दारेन्दीवरांस्तथा ।।

पारिजातान्कोविदारान्देवदारुद्रुमांस्तथा।
पारिजातान्कोविदारान्देवदारुद्रुमांस्तथा।
शालांस्तालांस्तमालांश्च पिप्पलान्हिङ्गुकांस्तथा ।।

चकोरैः शतपत्रैश् भृङ्गराजैस्तथा शुकैः।
कोकिलैः कलविङ्कैश्च हारितैर्जीवजीवकैः ।।

प्रियकैश्चातकैश्चैव तथाऽन्यैर्विविधैः खगैः।
श्रोत्ररम्यं सुमधुरं कूजद्भिश्चाप्यधिष्ठितान् ।।

सरांसि च मनोज्ञानि समन्ताज्जलचारिभिः।
कुमुदैः पुण्डरीकैश्च तृथा कोकनदोत्पलैः।
कहारैः कमलैश्चैव आचितानि समन्ततः ।।

कादम्बैश्चक्रवाकैश्च कुररैर्जलकुक्कुटैः।
कारण्डवैः प्लवैर्हंसैर्बकैर्मद्गुभिरेव च ।।

एतैश्चान्यैश्च कीर्णानि समन्ताज्जलचारिभिः।
हृष्टैस्तथा तामरसरसासवमदालसैः ।।

पद्मोदरच्युतरजःकिञ्जल्कारुणरञ्जितैः।
मञ्जुस्वरैर्मधुकरैर्विरुतान्कमलाकरान् ।।

अपश्यंस्ते नरव्याघ्रा गन्धमादनसानुषु।
तथैव पद्मषण्डैश्च मण्डितांश्च समन्ततः ।।

शिखण्डिनीभिः सहिताँल्लतामण्डलकेषु च।
मेघतूर्यरवोद्दाममदनाकुलितान्भृशम् ।।

कृत्वैव केकामधुरं संगीतं मधुरस्वरम्।
चित्रान्कलापान्विस्तीर्य सविलासान्मदालसान् ।।

मयूरान्ददृशुर्हृष्टान्नृत्यतो वनलालसान्।
कांश्चित्प्रियाभिः सहितान्रममाणान्कलापिनः ।।

वल्लीलतासंकटेषु कुटजेषु स्थितांस्तथा।
कांश्चिच्च कुटजानां तु विटपेषूत्कटानिव ।।

कलापरुचिराटोपनिचितान्मुकुटानिव।
विवरेषु तरूणां च रुचिरान्ददृशुश्च ते ।।

सिन्धुवारांस्तथोदारान्मन्मथस्येव तोमरान्।
सुवर्णवर्णकुसुमान्गिरीणां सिखरेषु च।
कर्णिकारान्विकसितान्कर्णपूरानिवोत्तमान् ।।

तथाऽपश्यन्कुरबकान्वनराजिषु पुष्पितान्।
कामवश्यौत्सुक्यकरान्कामस्येव शरोत्करान् ।।

तथैव वनराजीनामुदारान्रचितानिव।
विराजमानांस्तेऽपश्यंस्तिलकांस्तिलकानिव ।।

तथानङ्गशराकारान्सहकारान्मनोरमान्।
अपश्यन्भ्रामरान्राजन्मञ्जरीभिर्विराजितान् ।।

हिरण्यसदृशैः पुष्यैर्दावाग्निसदृशैरपि।
लोहितैरञ्जनाभैश्च वैदूर्यसदृशैरपि।
अतीव वृक्षा राजन्ते पुष्पिताः शैलसानुषु ।।

तथा सालांस्तमालांश्च पाटलाबकुलानपि।
माला इव समासक्ताः शैलानां शिखरेषु च ।।

विमलस्फाटिकाभानि पाण्डुरच्छदनैर्द्विजैः।
कलहंसैरुपेतानि सारसाभिरुतानि च ।।

सरांसि बहुशः पार्था पश्यन्तः शैलसानुषु।
पद्मोत्पलविमिश्राणि सुखशीतजलानि च ।।

एवं क्रमेण ते वीरा वीक्षमाणाः समन्ततः।
गन्वन्त्यथ माल्यानि रसवन्ति फलानि च ।।

सरांसि च मनोज्ञानि वृक्षांश्चातिमनोरमान्।
विविशुः पाण्डवाः सर्वेविस्मयोत्फुल्ललोचनाः ।।

कमलोत्पलकह्लारपुण्डरीकसुगन्धिना।
सेव्यमाना वने तस्मन्सुखस्पर्शेन वायुना ।।

ततो युधिष्ठिरो भीममाहेदं प्रीतिमद्वचः।
अहो श्रीमदिदं भीम गन्धमादनकाननम् ।।

वने ह्मस्मिन्मनोरम्ये दिव्या काननजा द्रुमाः।
लताश्च विविधाकाराः पत्रपुष्पफलोपगाः।
भान्त्येते पुष्पविकचाः पुंस्कोकिलकुलाकुलाः ।।

नात्र कण्टकिनः केचिन्न च विद्यन्त्यपुष्पिताः।
स्निग्धपत्रफला वृक्षा गन्धमादनसानुषु ।।

भ्रमरारावमधुरा नलिनीः फुल्लपङ्कजाः।
विलोड्यमाना पश्येमाः करिभिः सकरेणुभिः ।।

पश्येमां नलिनीं चान्यां कमलोत्पलमालिनीम्।
स्रग्धरां विग्रहवतीं साक्षाच्छ्रियमिवापराम् ।।

नानाकुसुमगन्धाढ्यास्तस्येमाः काननोत्तमे।
उपगीयमाना भ्रमरै राजन्ते वनराजयः ।।

पश्य भीम शुभान्देशान्देवाक्रीडान्समन्ततः।
अमानुषगतिं प्राप्ताः संसिद्धाः स्म वृकोदर ।।

लताभिः पुष्पिताग्राभिः पुष्पिताः पादपोत्तमाः।
संश्लिष्टाः पार्थ शोभन्ते गन्धमादनसानुषु ।।

शिखण्डिनीभिश्चरतां सहितानां शिखण्डिनाम्।
नदतां शृणु निर्घोषं भीम पर्वतसानुषु ।।

चकोराः शतपत्राश्च मत्तकोकिलशारिकाः।
पत्रिणः पुष्पितानेतान्संपतन्ति महाद्रुमान् ।।

रक्तपीतारुणाः पार्थ पादपाग्रगताः खगाः।
परस्परमुदीन्ते बहवो जीवजीवकाः ।।

हरितारुणवर्णानां शाड्वलानां समीपतः।
सारसाः प्रतिदृश्यन्ते शैलप्रस्रवणेष्वपि ।।

वदन्ति मधुरा वाचः सर्वभूतमनोरमाः।
भृङ्गराजोपचक्राश्च लोहपृष्ठाः पतत्रिणः ।।

चतुर्विषाणाः पद्माभाः कुञ्जराः सकरेणवः।
एते वैडूर्यवर्णाभं क्षोभयन्ति महत्सरः ।।

बहुतालसमुत्सेघाः शैलशृङ्गपरिच्युताः।
नानाप्रस्रवणेभ्यश्च वारिधाराः पतन्ति च ।।

भास्कराभप्रभा भीमाः शारदाभ्रघनोपमाः।
शोभयन्ति महाशैलं नानारजतधातवः ।।

क्वचिदञ्जनवर्णाभाः क्वचित्काञ्चनसन्निभाः।
धातवो हरितालस्य क्वचिद्धिङ्गुलकस्य च ।।

मनःशिलागुहाश्चैव संध्याभ्रनिकरोपमाः।
शशलोहितवर्णाभाः क्वचिद्गैरिकधातवः ।।

सितासिताभ्रप्रतिमा बालसूर्यसमप्रभाः।
एते बहुविधाः शैलं शोभयन्ति महाप्रभाः ।।

गन्धर्वाः सह कान्ताभिर्यथेष्टं भीमविक्रमाः।
दृश्यन्ते शैलशृङ्गेषु पार्थ किंपुरुषैः सह ।।

गीतानां समतालानां तथासाम्नां च निःखनः।
श्रूयते बहुधा भीम सर्वभूतमनोहरः ।।

महागङ्गामुदीक्षख पुण्यां देवनदीं शुभाम्।
कलहंसगणैर्जुष्टामृषिकिन्नरसेविताम् ।।

धातुभिश्च सरिद्भिश्च किन्नरैर्मृगपक्षिभिः।
गन्धर्वैरप्सरोभिश्च काननैश्च मनोरमैः ।।

व्यालैश्च विविधाकारैः शतशीर्षैः समन्ततः।
उपेतं पश्य कौन्तेय शैलराजमरिंदम ।।

वैशंपायन उवाच।

ते प्रीतमनसः शूराः प्राप्ता गतिमनुत्तमाम्।
नातृप्यन्पर्वतेन्द्रस्य दर्शनेन परंतपाः ।।

उपेतमथ माल्यैश्च फलवद्भिश्च पादपैः।
आर्ष्टिपेणस् राजर्षेराश्रमं ददृशुस्तदा ।।

ततस्ते तिग्मतपसं कृशं धमनिसंततम्।
पारगं सर्वविद्यानामार्ष्टिषेणमुपागमन् ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
यक्षयुद्धपर्वणि एकोनषष्ट्यधिकशततमोऽध्यायः ।। 159 ।।