आरण्यकपर्व

अध्यायः १५८

Aranyaka Parva (Sanskrit) · Adhyaya 158
अक्षर का आकार

वैशंपायन उवाच।

ततस्तान्परिविश्वस्तान्वसतस्तत्र पाण्डवान्।
[पर्वतेन्द्रे द्विजैः सार्धं पार्तागमनकाङ्क्षया ।।]

गतेषु तेषु रक्षःसु भीमसेनात्मजेऽपि च।
रहितान्मीमसेनेन कदाचित्तान्यदृच्छया।
जहार धर्मराजं वै यमौ कृष्णां च राक्षसः ।।

`जनमेजय उवाच।

ब्रह्मन्कथं धर्मराजं यमौ कृष्णां च राक्षसः।
जहार चित्रं भीमश्च गतो राक्षसकण्टकः।
वक्तुमर्हसि विप्राग्र्य व्यक्तमेतन्ममाऽनघ ।।

वैशंपायन उवाच।'

ब्राह्मणो मन्त्रकुशलः सर्वास्त्रेष्वस्त्रवित्तमः।
इति ब्रुवन्पाण्डवेयान्पर्युपास्ते स्म नित्यदा ।
परीप्समानः पार्थानां कलापांश्च धनूंषि च ।।

अन्तरं संपरिप्रेप्सुर्द्रौपद्या हरणं प्रति।
दुष्टात्मा पापबुद्धिः स नाम्ना ख्यातो जटासुरः ।।

[पोषणं तस् राजेनद्र चक्रे पाण्डवनन्दनः।
बुबुधे न च तं पापं भस्मच्छन्नमिवानलम् ।।

स भीमसेने निष्क्रान्ते मृगयार्थमरिंदमे।
[घटोत्कचं सानुचरं दृष्ट्वा विप्रद्रुतं दिशः ।।

लोमशप्रभृतींस्तांस्तु महर्षीश्च समाहितान्।
स्नातुं विनिर्गतान्दृष्ट्वा पुष्पार्थं च तपोधनान्] ।।

रूपमन्यत्समास्थाय विकृतं भैरवं महत्।
गृहीत्वा सर्वशस्त्राणि द्रौपदीं परिगृह्य च।
प्रातिष्ठत सुदुष्टात्मा त्रीन्गृहीत्वा च पाण्डवान् ।।

[विक्रम्य कौशिकं खङ्गं मोक्षयित्वा ग्रहं रिपोः।]
आक्रन्दद्भीमसेन वै येन यातो महाबलः ।।

तमब्रवीद्धर्मराजो ह्रियमाणो युधिष्ठिरः।
धर्मस्ते हीयते मूढ न चैनं समवेक्षसे ।।

येऽन्ये क्वचिन्मनुष्येषु तिर्यग्योनिगताश्च ये।
धर्मं ते समवेक्षन्ते रक्षांसि च विशेषतः ।।

धर्मस्यराक्षसा मूलं धर्मं ते विदुरुत्तमम्।
एतत्परीक्ष्यसर्वं त्वं समीपे स्थातुमर्हसि ।।

देवाश्च ऋषयः सिद्धाः पितरश्चापि राक्षस।
गन्धर्वोरगरक्षांसि वयांसि पशवस्तथा ।।

तिर्यग्योनिगताश्चैव अपि कीटपिपीलिकाः।
मनुष्यानुपजीवन्ति ततस्त्वमपि जीवसि ।।

समृद्ध्या यस्य लोकस्य लोको युष्माकमृध्यति।
इमं च लोकं शोचन्तमनुशोचन्ति देवताः।
पूज्यमानाश्च वर्धन्ते हव्यकव्यैर्यथाविधि ।।

वयं राष्ट्रस्य गोप्तारो रक्षितारश्च राक्षस।
राष्ट्रस्यारक्ष्यमाणस्य कुतो भूतिः कुतः सुखम् ।।

न च राजाऽवमन्तव्यो रक्षसा जात्वनागसि।
अनुरप्यपचारश्च नास्त्यस्माकं नराशन ।।

विघसाशान्यथाशक्त्या कुर्महे देवतादिषु।
गुरूंश्च ब्राह्मणांश्चैव प्रमाणप्रवणाः सदा ।।

द्रोग्धव्यं न च मित्रेषु न विश्वस्तेषु कर्हिचित्।
येषां चान्नानि भुञ्जीत यत्रच स्यात्प्रतिश्रयः ।।

स त्वं प्रतिश्रयेऽस्माकं पूज्यमानः सुखोषितः।
भुक्त्वा चान्नानि दुष्प्रज्ञ कथमस्माञ्जिहीर्षसि ।।

एवमेव वृथाचारो वृथा वृद्धो वृथामतिः।
वृथामरणमर्हस्त्वं वृथाऽद्य नमविष्यसि ।।

अथ चेद्दुष्टबुद्धिस्त्वं सर्वैर्धर्मैर्विवर्जितः।
प्रदाय शस्त्राण्यस्माकं युद्धेन द्रौपदीं हर ।।

अथ चेत्त्वमविज्ञाय इदं कर्म करिष्यसि।
अधर्मं चाप्यकीर्तिं च लोके प्राप्स्यसि केवलं ।।

एतामद्य परामृश्य स्त्रियं राक्षस मानुषीम्।
विषमेतत्समालोड्य कुम्भेन प्राशितं त्वया ।।

ततो युधिष्ठिरस्तस्य भारिकः समपद्यत।
स तु भाराभिभूतात्मा न तथा शीघ्रगोऽभवत् ।।

अथाब्रवीद्द्रौपदीं च नकुलं च युधिष्ठिरः।
मा भैष्टं राक्षसान्मूढाद्गतिरस्य मया हृता ।।

नातिदूरे महबाहुर्भविता पवनात्मजः।
अस्मिन्मुहूर्ते संप्राप्ते नभविष्यति राक्षसः ।।

सहदेवस्तु तं दृष्ट्वा राक्षसं मूढचेतसम्।
उवाच वचनं राजन्कुन्तीपुत्रं युधिष्ठिरम् ।।

राजन्किं नाम सत्कृत्यं क्षत्रियस्यास्त्यतोऽधिकम्।
यद्युद्धेऽभिमुखः प्राणांस्त्यजेच्छत्रुं जयेत वा ।।

एष वास्मान्वयं वैनं युध्यमानाः परंतप।
सूदयेम महाबाहो देशः कालो ह्ययं नृप ।।

क्षत्रधर्मस्य संप्राप्तः कालः सत्यपराक्रम।
जयन्तो हन्यमाना वा प्राप्तुमर्हाम सद्गतिम् ।।

राक्षसे जीवमानेऽद्य रविरस्तमियाद्यदि।
नाहं ब्रूयां पुनर्जातु क्षत्रियोस्मीति भारत ।।

भोभो राक्षस तिष्ठस्व सहदेवोस्मि पाण्डवः।
हत्वा रवा मां नयस्वैनां हतो वा स्वप्स्यसीह वै ।।

तदा ब्रुवति माद्रेये भीमसेनो यदृच्छया।
प्रादृश्यत महाबाहुः सवज्र इव वासवः ।।

सोऽपश्यद्धातरौ तत्र द्रौपदीं च यशस्विनीम्।
क्षितिस्थं सहदेवं च क्षिपन्तं राक्षसं तदा ।।

मार्गाच्च राक्षसं मूढं कालोपहतचेतसम्।
भ्रमन्तं तत्रतत्रैव दैवेन परिमोहितम् ।।

हृतान्संदृश्य तान्भ्रातृन्द्रौपदीं च महाबलः।
क्रोधमाहारयद्भीमो राक्षसंचेदमब्रवीत् ।।

विज्ञातोऽसि मया पूर्वं चेष्टञ्शस्त्रपरीक्षणे।
आस्था तु त्वयि मे नास्ति यतोसि न हतस्तदा ।।

ब्रह्मरूपप्रतिच्छन्नो न नो वदसि चाप्रियम्।
प्रियेषु रममाणं त्वां न चैवाप्रियकारिणम्।
ब्रह्मरूपेण विहितं नैव हन्यामनागसम् ।।

राक्षसं जानमानोऽपि यो हन्यान्नरकं व्रजेत्।
अपक्वस्य च कालेन वधस्तव न विद्यते ।।

नूनमद्यासि संपक्वो यथा ते मतिरीदृशी।
दत्ता कृष्णापहरणे कालेनाद्भुतकर्मणा।
`सोपि कालं समासाद्य तथाऽद्य नभविष्यसि' ।।

बडिशोऽयंत्वया ग्रस्तः कालसूत्रेण लम्बितः।
मत्स्योऽम्भसीव स्यूतास्यः कथमद्य गमिष्यसि ।।

यं चासि प्रस्थितो देशं मनः पूर्वं गतं च ते।
न तं गन्तासि गन्तासि मार्गं बकहिडिम्बयोः ।।

एवमुक्तस्तु भीमेन राक्षसः कालचोदितः।
भीत उत्सृज्य तान्सर्वान्युद्धाय समुपस्थितः ।।

अब्रवीच्च पुनर्भीमं रोषात्प्रस्फुरिताधरः।
न मे मूढा दिशः पाप त्वदर्थं मे विलम्बनम् ।।

श्रुता मे राक्षसा ये ये त्वया विनिहता रणे।
तेषामद्यकरिष्यामि तवास्रेणोदकक्रियाम् ।।

`एवमुक्त्वातदा भीमं राक्षसो योद्धुमाययौ।
करालवदनः क्रोधात्कालसर्प इव श्वसन्' ।।

एवमुक्तस्ततो भीमः सृक्विणी परिलेलिहन्।
स्मयमान इव क्रोधात्साक्षात्कालान्तकोपमः ।।

`ब्रुवन्वै तिष्ठतिष्ठेति क्रोधसंरक्तलोचनः'।
बाहुसंरम्भमेवेच्छन्नभिदुद्राव राक्षसम् ।।

मुहुर्मुहुर्व्याददानः सृक्विणी परिसंलिहन्।]
अभिदुद्राव संरब्धो बलो वज्रधरं यथा ।।

भीमसेनोऽप्यवष्टब्धो नियुद्धायाभवत्स्थितः।
राक्षसोऽपि च विस्रब्धो बाहुयुद्धमकाङ्क्षत' ।।

वर्तमाने तयो राजन्बाहुयुद्धे सुदारुणे।
माद्रीपुत्रावतिक्रुद्धावुभावप्यभ्यधावताम् ।।

न्यवारयत्तौ प्रहसन्कुन्तीपुत्रो वृकोदरः।
शक्तोऽहं राक्षसस्येति प्रेक्षध्वमिति चाब्रवीत् ।।

आत्मना भ्रातृभिश्चैव धर्मेण सुकृतेन च।
इष्टेन च शपे राजन्सूदयिष्यामि राक्षसम् ।।

इत्येवमुक्त्वा तौ वीरौ स्पर्धमानौ परस्परम्।
बाहुभिः समसज्जेतामुभौ रक्षोवृकोदरौ ।।

तयोरासीत्संप्रहारः क्रुद्धयोर्भीमरक्षसोः।
अमृष्यमाणयोः सङ्ख्ये शक्रशम्बरयोरिव ।।

तौ वीरौ समभिक्रुद्धावन्योन्यं पर्यधावताम्।
आरुज्यारुज्यतौ वृक्षानन्योन्यमभिजघ्नतुः।
जीमूताविव धर्मान्ते विनदन्तौ महाबलौ ।।

बभञ्जतुर्महावृक्षानूरुभिर्बलिनां वरौ।
अन्योन्येनाभिसंरब्धौ परस्परवधैषिणौ ।।

तद्वृक्षयुद्धमभवनमहीरुहविनाशनम्।
वालिसुग्रीवयोर्भ्रात्रोः पुरेव कपिसिंहयोः ।।

आविध्याविध्य तौ वृक्षान्मुहूर्तमितरेतरम्।
ताडयामासतुरुभौ विनदन्तौ मुहुर्मुहुः ।।

तस्मिन्देशे यदा वृक्षाः सर्व एव निपातिताः।
पुगीकृताश्च शतशः परस्परवधेप्सया ।।

ततः शिलाः समादाय मुहूर्तमिव भारत।
महाभ्रैरिव शैलेन्द्रौ युयुधाते महाबलौ ।।

शिलाभिरुग्ररूपाभिर्बृहतीभिः परस्परम्।
वज्रैरिव महावेगैराजघ्नतुरमर्षणौ ।।

अभिद्रुत्य च भूयस्तावन्योन्यबलदर्पितौ।
भुजाभ्यां परिगृह्याथ चकर्षाते गजाविव ।।

मुष्टिभिश् महाघोरैरन्योन्यमभिपेततुः।
ततः कटकटाशब्दो बभूव शुमहात्मनोः ।।

ततः संहृत्यमुष्टिं तु पञ्चशीर्षमिवोरगम्।
वेगेनाभ्यहनद्भीमो राक्षसस्य शिरोधराम् ।।

ततः श्रान्तं तु तद्रक्षो भीमसेनभुजाहतम्।
सुपरिभ्रान्तमालक्ष्य भीमसेनोऽभ्यवर्तत ।।

तत एनं महाबाहुर्बाहुभ्याममरोपमः।
समुत्क्षिप्य बलाद्भीमो निष्पिपेष महीतले ।।

`ततः संपीड्य बलवद्भुजाभ्यां क्रोधमूर्च्छितः।'
तस्य गात्राणि सर्वाणि चूर्णयामास पाण्डवः।
अरत्निना चाभिहत्य शिरः कायादपाहरत् ।।

संदष्टौष्ठं विवृत्ताक्षं फलं वृक्षादिव च्युतम्।
जटासुरस्य तु शिरो भीमसेनबलाद्धृतम्।
पपात रुधिरादिग्धं संदष्टदशनच्छदम् ।।

तं निहत्यमहेष्वासो युधिष्ठिरमुपागमत्।
स्तूयमानो द्विजाग्र्यैस्तु मरुद्भिरिव वासवः ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
जटासुरवधपर्वणि अष्टपञ्चाशदधिकशततमोऽध्यायः ।। 158 ।।