आरण्यकपर्व

अध्यायः १६०

Aranyaka Parva (Sanskrit) · Adhyaya 160
अक्षर का आकार

वैशंपायन उवाच।

युधिष्ठिरस्तमासाद्य तपसा दग्धकिल्बिषम्।
अभ्यवादयत प्रीतः शिरसा नाम कीर्तयन् ।।

ततः कृष्णा च भीमश्च यमौ च सुतपस्विनौ।
शिरोभिः प्राप्य राजर्षिं परिवार्योपतस्थिरे ।।

तथैव धौम्यो धर्मज्ञः पाण्डवानां पुरोहितः।
यथान्यायमुपाक्रान्तस्तमृषिं संशितव्रतम् ।।

अन्वजानात्स धर्मज्ञो मुनिर्दिव्येन चक्षुषा।
पाण्डोः पुत्रान्कुरुश्रेष्ठानास्यतामिति चाब्रवीत् ।।

कुरूणामृषभं प्राज्ञं पूजयित्वा महातपाः।
सह भ्रातृभिरसीनं पर्यपृच्छदनामयम् ।।

नानृते कुरुषे भावं कच्चिद्धर्मे प्रवर्तसे।
मातापित्रोश्च ते वृत्तिः कच्चित्पार्थ न सीदति ।।

कच्चित्ते गुरवः सर्वे वृद्धा वैद्याश्च पूजिताः।
कच्चिन्न कुरुषे भावं पार्थ पापेषु कर्मसु ।।

सुकृतं प्रतिकर्तुं च कच्चिद्धातुं च दुष्कृतम्।
यथान्यायं कुरुश्रेष्ठ जानासि न विकत्थसे ।।

यथार्हं मानिताः कच्चित्त्वया नन्दन्ति साधवः।
वनेष्वपि वसन्कच्चिद्धर्ममेवानुवर्तसे ।।

कच्चिद्धौम्यस्त्वदाचारैर्न पार्थ परितप्यते।
दानधर्मतपःशौचैरार्जवेन तितिक्षया ।।

पितृपैतामहं वृत्तं कच्चित्पार्थानुवर्तसे।
कच्चिद्राजर्षियातेन पथा गच्छसि पाण्डव ।।

स्वेस्वे किल कुले जाते पुत्रे नप्तरि वा पुनः।
पितरः पितृलोकस्थाः शोचन्ति च रमन्ति च ।।

किं तस्य दुष्कृतेऽस्माभिः संप्राप्तव्यं भविष्यति।
किं चास्य सुकृतेऽस्माभिः प्राप्तव्यमिति शोभनं ।।

पिता माता तथैवाग्निर्गुरुरात्मा च पञ्चमः।
यस्यैतेपूजिताः पार्थ तस्य लोकावुभौ जितौ ।।

[युधिष्ठिर उवाच।

भगवन्नार्य माऽऽहैतद्यथावद्धर्मनिश्चयम्।
यथाशक्ति यथान्यायं क्रियते विधिवन्मया ।।

आर्ष्टिषेण उवाच।]

अब्भक्षा वायुभक्षाश्च प्लवमाना विहायसा।
जुषन्ते पर्वतश्रेष्ठमृषयः पर्वसन्धिषु ।।

कामिनः सह कान्ताभिः परस्परमनुव्रताः।
दृश्यन्ते शैलशृङ्गस्था यथा किंपुरुषा नृप ।।

अरजांसि च वासांसि वसानाः कौशिकानि च।
दृश्यन्ते बहवः पार्थ गन्धर्वाप्सरसां गणाः ।।

विद्याधरगणाश्चैव स्रग्विणः प्रियदर्शनाः।
महोरगगणाश्चैव सुपर्णाश्चारणादयः ।।

अस्य चोपरि शैलस्य श्रूयते पर्वसन्धिषु।
भेरीपणवशङ्खानां मृदङ्गानां च निःस्वनः ।।

इहस्थैरेव तत्सर्वं श्रोतव्यं भरतर्षभाः।
न कार्या वः कथंचित्स्यात्तत्राभिगमने मतिः ।।

न चाप्यतः परं शक्यं गन्तुं भरतसत्तमाः।
विहारस्तत्र देवानाममानुषगतिस्तु सा ।।

ईषच्चपलकर्माणं मनुष्यमिह भारत।
द्विषन्ति सर्वभूतानि ताडयन्ति च राक्षसाः ।।

अस्यातिक्रम्य शिखरं कैलासस्य युधिष्ठिर।
गतिः परमसिद्धानां देवर्षीणां प्रकाशते ।।

चापलाद्धि न गन्तव्यं पार्त यानैस्ततः परम्।
अयःशूलादिभिर्घ्नन्ति राक्षसाः शत्रुसूदन ।।

अप्सरोभिः परिवृतः समृद्ध्या नरवाहनः।
इह वैश्रवणस्तात पर्वसन्धिषु दृश्यते ।।

शिखरे तं समासीनमधिपं यक्षरक्षसाम्।
प्रेक्षन्ते सर्वभूतानि भानुमन्तमिवोदितम् ।।

देवदानवसिद्धानां तथा वैश्रवणस्य च।
गिरेः शिखरमुद्यानमिदं भरतसत्तम ।।

उपासीनस्य धनदं तुम्बुरोः पर्वसन्धिषु।
गीतसामस्वनस्तात श्रूयते गन्धमादने ।।

एतदेवंविधं चित्रमिह तात युधिष्ठिर।
प्रेक्षन्ते सर्वभूतानि बहुशः पर्वसन्धिषु ।।

भुञ्जाना मुनिभोज्यानि रसवन्ति फलानि च।
वसध्वं पाण्डवश्रेष्ठा यावदर्जुनदर्शनात् ।।

न तात चपलैर्भाव्यमिह प्राप्तैः कथंचन।
`चपलः सर्वभूतानां द्वेष्यो भवति मानवः' ।।

उषित्वेह यथाकामं यथाश्रद्धं विहृत्य च।
ततः शस्त्रजितां श्रेष्ठ पृथिवीं पालयिष्यसि ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणिः
यक्षयुद्धपर्वणि षष्ट्यधिकततमोऽध्यायः ।। 160 ।।