आरण्यकपर्व
अध्यायः १५१
वैशंपायन उवाच। 1x
एवमुक्तो महाबाहुर्भीमसेनः प्रतापवान्।
प्रणिपत्य ततः प्रीत्या भ्रातरं हृष्टमानसः ।। 1
उवाच श्लक्ष्णया वाचा हनूमन्तं कपीश्वरम्।
मत्तो धन्यतरो नास्ति यदार्यं दृष्टवानहम् ।। 2
अनुग्रहो मे सुमहांस्तृप्तिश्च तव दर्शनात्।
एतत्तु कृतमिच्छामि त्वयाऽऽर्येण प्रियं मम ।। 3
यत्त्वेतदासीत्प्लवतः सागरं मकरालयम्।
रूपमप्रतिमं वीर तदिच्छामि नीरीक्षितुम् ।। 4
एवं तुष्टो मभिष्यामि श्रद्धास्यामि च ते वचः।
एवमुक्तः स तेजस्वी प्रहस्य हरिरब्रवीत् ।। 5
न तच्छक्यं त्वया द्रष्टुं रूपं नान्येन केनचित्।
कालावस्था तदा ह्यन्या वर्तते सा न सांप्रतम्।
`ततोऽद्य दुष्करं द्रष्टुं मम रूपं नरोत्तम' ।। 6
अन्यः कृतयुगे कालश्रेतायां द्वापरे परः।
अयं प्रध्वंसनः कालो नाद्य तद्रूपमस्ति मे ।। 7
भूमिर्नद्यो नगाः शैलाः सिद्धा देवा महर्षयः।
कालं समनुवर्तन्ते यथा भावा युगेयुगे ।। 8
`कालंकालं समासाद्य नराणां नरपुङ्गव'।
बलवर्ष्मप्रभावा हि प्रहीयन्त्युद्भवन्ति च ।। 9
तदलं बत तद्रूपं द्रष्टुं कुरुकुलोद्वह।
युगं समनुवर्तामि कालो हि दुरतिक्रमः ।। 10
भीम उवाच।
युगसङ्ख्यां समाचक्ष्व आचारं च युगेयुगे।
धर्मकामार्थभावांश्च कर्मवीर्ये भवाभवौ ।। 11
हनूमानुवाच।
कृतं नाम युगं श्रेष्ठं यत्रधर्मः सनातनः।
कृतमेव न कर्तव्यं तस्मिन्काले युगोत्तमे ।। 12
न तत्र धर्माः सीदन्ति क्षीयन्ते न च वै प्रजाः।
ततः कृतयुगं नाम कालेन गुणतां गतम् ।। 13
देवदानवगन्धर्वयक्षराक्षसपन्नगाः।
नासन्कृतयुगे तात तदा न क्रयविक्रयः ।। 14
न सामऋग्यजुर्वर्णाः क्रिया नासीच्च मानवी।
अभिध्याय फलं तत्र धर्मः संन्यास एव च ।। 15
न तस्मिन्युगसंसर्गे व्याधयो नेन्द्रियक्षयः।
नासूया नापि रुदितं न दर्पो नापि वैकृतम् ।। 16
न विग्रहः कुतस्तन्द्री न द्वेषो न च पैशुनम्।
न भयं नापि संतापो न चेर्ष्या न च मत्सरः ।। 17
ततः परमकं ब्रह्म सा गतिर्योगिनां परा।
आत्मा च सर्वभूतानां शुक्लो नारायणस्तदा ।। 18
ब्राह्मणआः क्षत्रिया वैश्याः शूद्राश्च कृतलक्षणाः।
कृते युगे समभवन्स्वकर्मनिरताः प्रजाः ।। 19
समाश्रयं समाचारं समज्ञानं च केवलम्।
तदा हि समकर्माणो वर्णा धर्मानवाप्नुवन् ।। 20
एकदेवसदायुक्ता एकमन्त्रविधिक्रियाः।
पृथग्धर्मास्त्वेकवेदा धर्ममेकमनुव्रताः ।। 21
चातुराश्रम्ययुक्तेन कर्मणा कालयोगिना।
अकामफलसंयोगात्प्राप्नुवन्ति परां गतिम् ।। 22
आत्मयोगसमायुक्तो धर्मोऽयं कृतलक्षणः।
कृते युगे चतुष्पादश्चातुर्वर्ण्यस्य शाश्वतः ।। 23
`कामः कामयमानेषु ब्राह्मणेषु तिरोहितः'।
एतत्कृतयुगं नाम त्रैगुण्यपरिवर्जितम् ।। 24
त्रेतामपि निबोध त्वं यस्मन्सत्रं प्रवर्तते।
पादेन ह्रसते धर्मो रक्ततां याति चाच्युतः ।। 25
सत्यप्रवृत्ताश्च नराः क्रिया धर्मपरायणाः।
ततो यज्ञाः प्रवर्तन्ते धर्माश्चविविधाः क्रियाः ।। 26
त्रेतायां भावसंकल्पाः क्रियादानफलोपगाः।
प्रचलन्ति न वै धर्मात्तपोदानपरायणाः।
स्वधर्मस्थाः क्रियावन्तो नरास्त्रेतायुगेऽभवन् ।। 27
द्वापरे च युगे धर्मो द्विभागो नः प्रवर्तते।
विष्णुर्वै पीततां याति चतुर्धा वेद एव च ।। 28
ततोऽन्ये च चतुर्वेदास्त्रिवेदाश्च तथा परे।
द्विवेदाश्चैकवेदाश्चाप्यनृचश्च तथा परे ।। 29
एवं शास्त्रेषु भिननेषु बहुधा नीयते क्रिया।
तपोदानप्रवृत्ता च राजसी भवति प्रजा ।। 30
एकवेदस्य चाज्ञानाद्वेदास्ते बहवः कृताः।
सत्यस्य चेह विभ्रंशात्सत्ये कश्चिदवस्थितः ।। 31
सत्यात्प्रच्यवमानानां व्याघयो बहवोऽभवन्।
कामाश्चोपद्रवाश्चैव तदा वै दैवकारिताः ।। 32
यैरर्द्यभानाः सुभृशं तपस्तप्यन्ति मानवाः।
कामकामाः स्वर्गकामा यज्ञांस्तन्वन्ति चापरे ।। 33
एवं द्वापरमासाद्य प्रजाः क्षीयन्त्यधर्मतः।
पादेनैकेन कौन्तेय धर्मः कलियुगे स्थितः ।। 34
तामसं युगमासाद्य कृष्णो भवति केशवः।
वेदाचाराः प्रशाम्यन्ति धर्मयज्ञक्रियास्तथा ।। 35
ईतयो व्याधयस्तन्द्री दोषाः क्रोधादयस्तथा।
उपद्रवाः प्रवर्तन्ते आधयो व्याधयस्तथा ।। 36
युगेष्वावर्तमानेषु धर्मो व्यावर्तते पुनः।
धर्मे व्यावर्तमाने तु लोको व्यावर्तते पुनः ।। 37
लोके क्षीणे क्षयं यानति भावा लोकप्रवर्तकाः।
युगक्षयकृता धर्माः प्रार्थनानि विकुर्वते ।। 38
एतत्कलियुगं नाम अचिराद्यत्प्रवर्तते।
युगानुवर्तनं त्वेतत्कुर्वन्ति चिरजीविनः ।। 39
यच्च ते मत्परिज्ञाने कौतूहलमरिंदम।
अनर्थकेषु को भावः पुरुषस्य विजानतः ।। 40
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि।
युगसङ्ख्यां महाबाहो स्वस्ति प्राप्नुहि गम्यताम् ।। 41
।। इति श्रीमन्महाभारते अरण्यपर्वणि
तीर्तयात्रापर्वणि एकपञ्चाशदधिकशततमोऽध्यायः ।। 151 ।।