आरण्यकपर्व
अध्यायः १५२
भीमसेन उवाच।
पूर्वरूपमदृष्ट्वा ते न यास्यामि कथंचन।
यदि तेऽहमनुग्राह्यो दर्शयात्मानमात्मना ।।
वैशंपायन उवाच।
एवमुक्तस्तु भीमेन स्मितं कृत्वा प्लवंगमः।
तद्रूपं दर्शयामास यद्वै सागरलङ्घने ।।
भ्रातुः प्रियमभीप्सन्वै चकार सुमहद्वपुः।
`तद्रूपं यत्पुरा तस्य बभूवोदधिलङ्घने' ।।
देहस्तस्य ततोऽतीव वर्धत्यायामविस्तरैः।
सद्रुमं कदलीषण्डं छादयन्नमितद्युतिः ।।
गिरिश्चोच्छ्रयमाक्रम्य तस्थौ तत्र च वानरः।
समुच्छ्रितमहाकायो द्वितीय इव पर्वतः ।।
ताम्रेक्षणस्तीक्ष्णदंष्ट्रो भृकुटीकृतलोचनः।
दीर्घं लाङ्गूलमाविध्य दिशो व्याप्य स्थितः कपिः ।।
तद्रूपं महदालक्ष्यभ्रातुः कौरवनन्दनः।
विसिष्मिये तदा भीमो जहृषे च पुनः पुनः ।।
तमर्कमिव तेजोभिः सौवर्णमिव पर्वतम्।
प्रदीप्तमिव चाकाशं दृष्ट्वा भीमो न्यमीलयत् ।।
आबभाषे च हनुमान्भीमसेनं स्मयन्निव।
एतावदिह शक्तस्त्वं द्रुष्टुं रूपं ममानघ ।।
वर्धेऽहं चाप्यतो भूयो यावन्मे मनसेप्सितम्।
भीम शत्रुषु चात्यर्थं वर्धते मूर्तिरोजसा ।।
वैशंपायन उवाच।
तदद्भुतं महारौद्रं विन्ध्यपर्वतसन्निभम्।
दृष्ट्वा हनूमतो वर्ष्म संभ्रान्तः पवनात्मजः ।।
प्रत्युवाच ततो भीमः संप्रहृष्टतनूरुहः।
कृताञ्जलिरदीनात्मा हनूमन्तमवस्थितम् ।।
दृष्टं प्रमाणं विपुलं शरीरस्यास्य ते विभो।
संहरस्व महावीर्य स्वयमात्मानमात्मना ।।
न हि शक्नोमि त्वां द्रष्टुं दिवाकरमिवोदितम्।
अप्रमेयमनाधृष्यं मैनाकमिव पर्वतम् ।।
विस्मयश्चैव मे वीर सुमहान्मनसोऽद्य वै।
यद्रामस्त्वयि पार्श्वश्थे स्वयं रावणमभ्यगात् ।।
त्वमेव शक्तस्तां लङ्कां सयोधां सहरावणाम्।
स्वबाहुबलमाश्रित् विनाशयितुमञ्जसा ।।
न हि ते किंचिदप्राप्यं मारुतात्मज विद्यते।
न चैव तव पर्याप्तो रावयणः सगणो युधि ।।
एवमुक्तस्तु भीमेन हनूमान्प्लवगोत्तमः।
प्रत्युवाच ततो वाक्यं स्निग्धगम्भीरया गिरा ।।
एवमेतन्महाबाहो यथा वदसि भारत।
भीमसेन न पर्याप्तो ममासौ राक्षसाधमः ।।
मया तु निहते तस्मिन्रावणे लोककण्टके।
कीर्तिर्नश्येद्राघवस्य तत एतदुपेक्षितम् ।।
तेन वीरेण तं हत्वा सगणं राक्षसाधमम्।
आनीता स्वपुरं सीता कीर्तिश्च स्थापिता नृषु ।।
तद्गच्छ विपुलप्रज्ञ भ्रातुः प्रियहिते रतः।
अरिष्टं क्षेममध्वानं वायुना परिरक्षितः ।।
एष पन्थाः कुरुश्रेष्ठ सौगन्धिकवनाय ते।
द्रक्ष्यसे धनदोद्यानं रक्षितं यक्षराक्षसैः ।।
न च ते तरसा कार्यः कुसुमापचयः स्वयम्।
दैवतानि हि मान्यानि पुरुषेण विशेषतः ।।
बलिहोमनमस्कारैर्मन्त्रैश्च भरतर्षभ।
दैवतानि प्रसादं हि भक्त्या कुर्वन्ति भारत ।।
मा तात साहसं कार्षीः स्वधर्मं परिपालय।
स्वधर्मस्थापनं धर्मं बुध्यस्वागमयस्व च ।।
न हि धर्ममविज्ञाय वृद्धाननुपसेव्य च।
धर्मो वै वेदितुं शक्यो बृहस्पतिसमैरपि ।।
अधर्मो यत्र धर्माख्यो धर्मश्चाधर्मसंज्ञितः।
स विज्ञेयो विभागेन यत्रमुह्यन्त्यबुद्धयः ।।
आचारसंभवो धर्मो धर्माद्वेदाः समुत्थिताः।
वेदैर्यज्ञाः समुत्पन्ना यज्ञैर्देवाः प्रतिष्ठिताः ।।
वेदाचारविधानोक्तैर्यज्ञैर्धार्यन्ति देवताः।
बृहस्पत्युशनःप्रोक्तैर्नयैर्धार्यन्ति मानवाः ।।
बल्याकरवणिज्याभिः कृष्यर्थैर्योनिपोषणैः।
वार्तया धार्यते सर्वं धर्मैरेतैर्द्विजातिभिः ।।
त्रयी वार्ता दण्डनीतिस्तिस्रो विद्या विजानताम्।
ताभिः सम्यक्प्रवृत्ताभिर्लोकयात्रा विधीयते ।।
सा चेद्धर्मकृता न स्यात्रयीधर्ममृते भुवि।
दण्डनीतिमृतेचापि निर्मर्यादमिदं भवेत् ।।
वार्ताधर्मे ह्यवर्तिन्यो विनश्येयुरिमाः प्रजाः।
सुप्रवृत्तैस्त्रिभिर्ह्येतैर्धर्मैः सूयन्ति वै प्रजाः ।।
द्विजानाममृतं धर्मो ह्येकश्चैवैकवर्णकः।
यज्ञाध्ययनदानानि त्रयः साधारणाः स्मृताः ।।
याजनाध्यापने चोभे ब्राह्मणानां परिग्रहः।
पालनं क्षत्रियाणां वै वैश्यधर्मश्च पोषणम् ।।
शुश्रूषा च द्विजातीनां शूद्राणआं धर्म उच्यते।
भैक्षहोमव्रतैर्हीनास्तथैव गुरुवासिताः ।।
क्षत्रधर्मोऽत्रकौन्तेय तव धर्मोऽत्र रक्षणम्।
स्वधर्मं प्रतिपद्यस्व विनीतो नियतेन्द्रियः ।।
वृद्धैः संमन्त्र्य सद्भिश्च बुद्धिमद्भिः श्रुतान्वितैः।
आस्थितः शास्तिदण्डेन व्यसनी परिभूयते ।।
निग्रहानुग्रहैः सम्यग्यदा नेता प्रवर्तते।
तदा भवन्ति लोकस्य मर्यादाः सुव्यवस्थिताः ।।
तस्माद्देशे च दुर्गे च शत्रुमित्रबलेषु च।
नित्यं चारेण बोद्धव्यं स्थानं वृद्धिः क्षयस्तथा ।।
राज्ञामुपायश्चारश्च बुद्धिमन्त्रपराक्रमाः।
निग्रहप्रग्रहौ चैव दाक्ष्यं वै कार्यसाधकम् ।।
साम्ना दानेन भेदेन दण्डेनोपेक्षणेन च।
साधनीयानि कार्याणि समासव्यासयोगतः ।।
मन्त्रमूला नयाः सर्वेचाराश्च भरतर्षभ।
सुमन्त्रितनयैः सद्भिस्तद्विधैः सह मन्त्रयेत् ।।
स्त्रिया मूढेन बालेन लुब्धेन लघुनाऽपि वा।
न मन्त्रयीत गुह्यानि येषु चास्पनदलक्षणम् ।।
मन्त्रयेत्सह विद्वद्भिः शक्तैः कर्माणि कारयेत्।
स्निग्धैश्च नीतिविन्यासैर्मूर्खान्सर्वत्र वर्जयेत् ।।
धार्मिकान्धर्मकार्येषु अर्थकार्येषु पण्डितान्।
स्त्रीषु क्लीबान्नियुञ्जीत क्रूरान्क्रूरेषु कर्मसु ।।
स्वेभ्यश्चैव परेभ्यश्च कार्याकार्यसमुद्भवा।
बुद्धिः कर्मसु विज्ञेया रिपूणां च बलाबलम् ।।
बुद्ध्या स्वप्रतिपन्नेषु कुर्यात्साधुष्वनुग्रहम्।
निग्रहं चाप्यशिष्टेषु निर्मर्यादेषु कारयेत् ।।
निग्रहे प्रग्रहे सम्यग्यदा राजा प्रवर्तते।
तदा भवति लोकस्य मर्यादा सुव्यवस्थिता ।।
एष तेऽभिहितः पार्थ घोरो धर्मो दुरन्वयः।
तं स्वधर्मविभागेन विनयस्थोऽनुपालय ।।
तपोधर्मदमेज्याभिर्विप्रा यान्ति यथा दिवम्।
दानातिथ्यक्रियाधर्मैर्यान्ति वैश्याश्च सद्गतिम् ।।
`द्विजशुश्रूषया शूद्रा लभन्ते गतिमुत्तमाम्'।
क्षत्रं याति तथा स्वर्गं भुवि निग्रहपालनैः ।।
सम्यक्प्रणीतदण्डा हि कामद्वेपविवर्जिताः।
अलुब्धा विगतक्रोधाः सतां यान्ति सलोकतां ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
तीर्थयात्रापर्वणि द्विपञ्चाशदधिकशततमोऽध्यायः ।।