आरण्यकपर्व
अध्यायः १५०
हनूमानुवाच।
हृतदारः सह भ्रात्रा पत्नीं मार्गन्स राघवः।
दृष्टवाञ्शैलशिखरे सुग्रीवं वानरर्षभम् ।।
तेन तस्याभवत्सख्यं राघवस्य महात्मनः।
स हत्वा वालिनं राज्ये सुग्रीवं प्रत्यपादयत् ।।
स राज्यं प्राप्य सुग्रीवः सीतायाः परिमार्गणे।
वानरान्प्रेषयामास शतशोऽथ सहस्रशः ।।
ततो वानरकोटीभिः सहितोऽहं नरर्षभ।
सीतां मार्गन्महाबाहो प्रस्थितो दक्षिणां दिशम् ।।
ततः प्रवृत्तिः सीताया गृध्रेण सुमहात्मना।
संपातिना समाख्याता रावणस्य निवेशने ।।
ततोऽहं कार्यसिद्ध्यर्थं रामस्याक्लिष्टकर्मणः।
शतयोजनविस्तारमर्णवं सहसा प्लुतः ।।
अहं स्ववीर्यादुत्तीर्य सागरं मकरालयम्।
सुतां जनकराजस्य सीतां सुररसुतोपमाम् ।।
दृष्टवान्भरतश्रेष्ठ रावणस्य निवेशने।
समेत्य तामहं देवीं वैदेहीं राघवप्रियाम् ।।
दग्ध्वा लङ्कामशेषेण सादृप्राकारतोरणाम्।
प्रत्यागतश्चास्य पुनर्नाम तत्रप्रकाश्य वै ।।
मद्वाक्यं चावधार्याशु रामो राजीवलोचनः।
अबद्धपूर्वमन्यैश्च बद्ध्वा सेतुं महोदधौ।
वृतो वानरकोटीभिः समुत्तीर्णो महार्णवम् ।।
ततो ररामेण वीर्येण हत्वा तान्सर्वराक्षसान्।
रणे तु राक्षसगणं रावणं लोकरावणम् ।।
निशाचरेनद्रं हत्वा तु सभ्रातृसुतबान्धवम्।
राज्येऽभिषिच्य लङ्कायां राक्षसेन्द्रं विभीषणम् ।।
धार्मिकं भक्तिमन्तं च भक्तानुगतवत्सलः।
प्रत्याहृत्य ततः सीतां नष्टां वेदश्रुतिं यथा ।।
तयैव सहितः साध्व्या पत्न्या रामो महायशाः।
गत्वा ततोऽतित्वरितः स्वां पुरीं रघुनन्दनः।
अध्यावसत्ततोऽयोध्यामयोध्यां द्विषतां प्रभुः ।।
ततः प्रतिष्ठितो राज्ये रामो नृपतिसत्तमः।
वरं मया याचितोऽसौ रामो राजीवलोचनः ।।
यावद्रामकथेयं ते भवेल्लोकेषु शत्रुहन्।
तावज्जीवेयमित्येवं तथाऽस्त्विति च सोब्रवीत् ।।
सीताप्रसादाच्च सदा मामिहस्थमरिंदम।
उपतिष्ठन्ति दिव्या हि भोगा भीम यथेप्सिताः ।।
दशवर्षसहस्राणि दशवर्षशतानि च।
राज्यं कारितवान्रामस्ततः स्वभवनं गतः ।।
तदिहाप्सरसस्तात गन्धर्वाश्च सदाऽनघ।
तस्य वीरस्य चरितं गायन्त्यो रमयन्ति माम् ।।
अयं च मार्गो मर्त्यानामगम्यः कुरुनन्दन।
ततोऽहं रुद्धवान्मार्गं तवेमं देवसेवितम् ।।
`त्वामनेन पथा यान्तं यक्षो वा राक्षसोपि वा'।
धर्षयेद्वा शपेद्वाऽपि मा कश्चिदिति भारत ।।
दिव्यो देवपथो ह्येष नात्र गच्छन्ति मानुषाः।
यदर्थमागतश्चासि अत एव सरश्च तत् ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
तीर्थयात्रापर्वणि पञ्चाशदधिकशततमोऽध्यायः ।। 150 ।।