आरण्यकपर्व

अध्यायः १४५

Aranyaka Parva (Sanskrit) · Adhyaya 145
अक्षर का आकार

वैशंपायन उवाच।

ते शूरा सज्जधन्वानस्तूणवन्तः समार्गणाः।
बद्धगोधाङ्गुलित्राणाः खङ्गवन्तोऽमितौजसः ।।

परिगृह्य द्विजश्रेष्ठाञ्ज्येष्ठाः सर्वधनुष्मताम्।
पञ्चालीसहिता राजन्प्रययुर्गन्धमादनम् ।।

सरांसि सरितश्चैव पर्वतांश्च वनानि च।
वृक्षांश्च बहुलच्छायान्ददृशुर्गिरिमूर्धनि ।।

नित्यपुष्पफलान्देशान्देवर्षिगणसेवितान्।
आत्मन्यात्मानमाधाय वीरा मूलफलाशिनः ।।

चेरुरुच्चावचाकारान्देशान्विषमसंकटान्।
पश्यन्तो मृगजातानि बहूनि विविधानि च ।।

ऋषिसिद्धामरयुतं गन्धर्वाप्सरसां प्रियम्।
विविशुस्ते महात्मानः किन्नराचरितं गिरिम् ।।

प्रविशत्स्वथ वीरेषु पर्वतं गन्धमादनम्।
चणअडवातं महद्वर्षं प्रादुरासीद्विशांपते ।।

ततो रेणुः समुद्भूतः सपत्रबहुलो महान्।
पृथिवीं चान्तरिक्षं च द्यां चैव सहसाऽवृणोत् ।।

न स्म प्रज्ञायते किंचिदावृते व्योम्नि रेणुना।
न चापि शेकुस्तत्कर्तुमन्योन्यस्याभिभाषणम् ।।

न चापश्यंस्ततोऽन्योन्यं तमसाऽऽवृतचक्षुषः।
आकृष्यमाणा वातेन साश्मचूर्णेन भारत ।।

द्रुमाणां वातरुग्णआनां पततां भूतलेऽनिशम्।
अन्येषां च महीजानां शब्दः समभवन्महान् ।।

द्यौः स्वित्पतति किं भूमिर्दीर्यते पर्वतोनु किम्।
इति ते मेनिरे सर्वेपवनेन विमोहिताः ।।

ते पथाऽनन्तरांन्वृक्षान्वल्मीकान्विषमाणि च।
पाणिभिः परिमार्गन्तो भीता वायोर्निलिल्यिरे ।।

ततः कार्मुकमादाय भीमसेनो महाबलः।
कृष्णामादाय संगम्य तस्थावाश्रित्य पादपम् ।।

धर्मराजश्च धौम्यश् निलिल्याते महावने।
अग्निहोत्राण्युपादाय सहदेवस्तु पर्वते ।।

नकुलो ब्राह्मणाश्चान्ये लोमशश्च महातपाः।
वृक्षानासाद्य संत्रस्तास्तत्रतत्र निलिल्यिरे ।।

मन्दीभूते तु पवने तस्मिन्रजसि शाम्यति।
महद्भिर्जलधारौर्घर्वर्षमभ्याजगाम ह ।।

भृशं चटचटाशब्दो वज्राणां क्षिप्यतामिव।
ततस्ताश्चञ्चलाभासश्चेरुरभ्रेषु विद्युतः ।।

ततोऽश्मसहिता धाराः संवृण्वन्त्यः समन्ततः।
प्रपेतुरनिशं तत्र शीघ्रवातसमीरिताः ।।

तत्र सागरगा ह्यापः कीर्यमाणाः समन्ततः।
प्रादुरासन्सकलुषाः फेनवत्यो विशांपते ।।

वहन्त्यो वारि बहुलं फेनोडुपपरिप्लुतम्।
परिसमस्रुर्महाशब्दाः प्रकर्षन्त्यो महीरुहान् ।।

तस्मिन्नुपरते शब्देबाते च समतां गते।
गते ह्यम्भसि निम्नानि प्रादुर्भूते दिवाकरे ।।

निर्जग्मुस्ते शनैः सर्वे समाजग्मुश्च भारत।
प्रतस्थिरे पुनर्वीराः पर्वतं गन्धमादनम् ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
तीर्थयात्रापर्वणि पञ्चचत्वारिंशदधिकशततमोऽध्यायः ।। 145 ।।