आरण्यकपर्व

अध्यायः १४६

Aranyaka Parva (Sanskrit) · Adhyaya 146
अक्षर का आकार

वैशंपायन उवाच।

ततः प्रयातमात्रेषु पाण्डवेषु महात्मसु।
पद्भ्यामनुचिता गन्तुं द्रौपदी समुपाविशत् ।।

श्रान्ता दुःखपरीता च वातवर्षेण तेन च।
सौकुमार्याच्च पाञ्चाली संमुमोह तपस्विनी ।।

सा कम्पमाना मोहेन बाहुभ्यामसितेक्षणा।
रवृत्ताभ्यामनुरूपाभ्यामूरू समवलम्बत ।।

आलम्बमाना सहितावूरू गजकरोपमौ।
रपपात सहसा भूमौ वेपन्ती कदली यथा ।।

तां पतन्तीं वरारोहां भज्यमानां लतामिव।
नकुलः समभिद्रुत्य परिजग्राह वीर्यवान् ।।

नकुल उवाच।

राजन्पाञ्चालराजस्य सुतेयमसितक्षणा।
श्रान्ता निपतिता भूमौ तामवेक्षस्व भारत ।।

अदुःखार्हा परं दुःखं प्राप्तेयं मृदुगामिनी।
आश्वासय महाराज तामिमां श्रमकर्शिताम् ।।

वैशंपायन उवाच।

राजा तु वचनात्तस्य भृशं दुःखसमन्वितः।
भीमश्च सहदेवश्च सहसा समुपाद्रवन् ।।

तामवेक्ष्यतु कौन्तेयो विवर्णवदनां कृशाम्।
अङ्कमानीय धर्मात्मा पर्यदेवयदातुरः ।।

युधिष्ठिर उवाच।

कथं वेश्मसु गुप्तेषु स्वास्तीर्णशयनोचिता।
भूमौ निषतिता शेते सुखार्हा वरवर्णिनी ।।

सुकुमारौ कथं पादौ मुखं च कमलप्रभम्।
मत्कृतेऽद्य वरार्हायाः श्यामतां समुपागतम् ।।

किमिदं द्यूतकामेन मया कृतमबुद्धिना।
आदाय कृष्णां चरता वने मृगगणाकुले ।।

सुखं प्राप्स्यसि कल्याणि पाण्डवान्प्राप्य वै पतीन्।
इतिद्रुवदराजेन पित्रा दत्ताऽयतेक्षणा ।।

तत्सर्वमानवाप्येयं श्रमशोकाद्विकर्शिता।
शेते निपतिता भूमौ पापस्य मम कर्मभिः ।।

वैशंपायन उवाच।

तथा लालप्यमाने तु धर्मराजे युधिष्ठिरे।
धौम्यप्रभृतयः सर्वे तत्राजग्मुर्द्विजोत्तमाः ।।

ते समाश्वासयामासुराशीर्भिश्चाप्यपूजयन्।
राक्षोघ्नांश्च तथा मन्त्राञ्जेपुश्चक्रुश्च ते क्रियाः ।।

पठ्यमानेषु मन्त्रेषु शान्त्यर्थं परमर्षिभिः।
स्पृश्यमाना करैः शीतैः पाण्डवैश्च मुहुर्मुहुः ।।

सेव्यमाना च शीतेन जलमिश्रेण वायुना।
पाञ्चाली सुखमासाद्य लेभे चेतः शनैः शनैः ।।

परिगृह्यच तां दीनां कृष्णामजिनसंस्तरे।
पार्था विश्रामयामासुर्लब्धसंज्ञां तपस्विनम् ।।

तस्या यमौ रक्ततलौ पादौ पूजितलक्षणौ।
कराभ्यां किणजाताभ्यां शनकैः संववाहतुः ।।

पर्याश्वासयदप्येनां धर्मराजो युधिष्ठिरः।
उवाच च कुरुश्रेष्ठो भीमसेनमिदं वचः ।।

बहवः पर्वता मीम विषमा हिमदुर्गमाः।
तेषु कृष्णा महाबाहो कथं नु विचरिष्यति ।।

भीमसेन उवाच।

त्वां राजन्राजपुत्रीं च यमौ च पुरुषर्षभ।
स्वयं नेष्यामि राजेनद्र मा विषादे मनुः कृथाः ।।

अथवा यो मया जातो विहगो मद्बलोपमः।
वहेदनघ सर्वान्नो वचनात्ते घटोत्कचः ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
तीर्थयात्रापर्वणि षट्चत्वारिंशदधिकशततमोऽध्यायः ।। 146 ।।