आरण्यकपर्व

अध्यायः १४४

Aranyaka Parva (Sanskrit) · Adhyaya 144
अक्षर का आकार

[लोमश उवाच।

द्रष्टारः पर्वताः सर्वे नद्यः सपुरकाननाः।
तीर्थानि चैव श्रीमन्ति स्पृष्टं च सलिलं करैः ।।

पर्वतं मन्दरं दिव्यमेष पन्थाः प्रयास्यति।
समाहीता निरुद्विग्नाः सर्वे भवत पाण्डवाः ।।

अयं देवनिवासो वै गन्तव्यो वो भविष्यति।
ऋषीणां चैव दिव्यानां निवासः पुण्यकर्मणां ।।

एषा शिवजला पुण्या याति सौम्य महानदी।
बदरीप्रभवा राजन्देवर्षिगणसेविता ।।

एषा वैहायसैर्नित्यं वालखिल्यैर्महात्मभिः।
अर्चिता चोपयाता च गन्धर्वैश्च महात्मभिः ।।

अत्रसाम स्म गायन्ति सामगाः पुण्यनिःस्वनाः।
मरीचिः पुलहश्चैव भृगुश्चैवाङ्गिरास्तथा ।।

अत्राह्निकं सुरश्रेष्ठो जपते समरुद्गणः।
साध्याश्चैवाश्विनौ चैव परिधावन्ति तं तदा ।।

चन्द्रमाः सह सूर्येण ज्योतीषि च ग्रहैः सह।
अहोरात्रविभागेन नदीमेनामनुव्रजन् ।।

एतस्याः सलिलं मूर्ध्नि वृषाङ्कः पर्यधारयत्।
गङ्गाद्वारे महाभाग येन लोकस्थितिर्भवेत् ।।

एतां भगवतीं देवीं भवन्तः सर्व एव हि।
प्रयतेनात्मना तात प्रतिगम्याभिवादत ।।

तस्य तद्वचनं श्रुत्वा लोमशस्य महात्मनः।
आकाशगङ्गां प्रयताः पाण्डवास्तेऽभ्यवादयन् ।।

अभिवाद्य च ते सर्वे पाण्डवा धर्मचारिणः।
पुनः प्रयाताः संहृष्टाः सर्वैर्ऋषिगणैः सह ।।

ततो दूरात्प्रकाशन्तं पाण्डुरं मेरुसंनिभम्।
ददृशुस्ते नरश्रेष्ठा विकीर्णं सर्वतोदिशम् ।।

तान्प्रष्टुकामान्विज्ञाय पाण्डवान्स तु लोमशः।
उवाच वाक्यं वाक्यज्ञः शृणुध्वं पाण्डुनन्दनाः ।।

एतद्विकीर्णं सुश्रीमत्कैलासशिखरोपमम्।
यत्पश्यसि नरश्रेष्ठ पर्वतप्रतिमं स्थितम् ।।

एतान्यस्थीनि दैत्यस्य नरकस्य महात्मनः।
पर्वतप्रतिमं भाति पर्वतप्रस्तराश्रितम् ।।

पुरातनेन देवेन विष्णुना परमात्मना।
रदैत्यो विनिहतस्तेन सुरराजहितैषिणा ।।

दशवर्षसहस्राणि तपस्तप्यन्महामनाः।
ऐनद्रं प्रार्थयते स्थानं तपःस्वाध्यायविक्रमात् ।।

तपोबलेन महता बाहुवेगबलेन च।
नित्यमेव दुराधर्षो धर्षयन्स दितेः सुतः ।।

स तु तस्य बलं ज्ञात्वा धर्मे च चरितव्रतम्।
भयाभिभूतः संविग्नः शक्र आसीत्तदाऽनघ ।।

तेन संचिन्तितो देवो मनसा विष्णुरव्ययः।
सर्वत्रगः प्रभुः श्रीमानागतश्च स्थितो बभौ ।।

ऋषयश्चापि तं सर्वे तुष्टुवुश्च दिवौकसः ।।

तं दृष्ट्वा ज्वलमानश्रीर्भगवान्हव्यवाहनः।
नष्टतेजाः समभवत्तस्य तेजोभिभर्त्सितः ।।

तं दृष्ट्वा वरदं देवं विष्णुं देवगणेश्वरम्।
प्राञ्जलिः प्रणतो भूत्वा नमस्कृत्य च वज्रभृत्।
प्राह वाक्यं ततस्तत्त्वं यतस्तस्य भयं भवेत् ।।

विष्णुरुवाच।

जानामि ते भयं शक्र दैत्येन्द्रान्नरकात्ततः।
ऐन्द्रं रप्रार्थयते स्थानं तपःसिद्धेन कर्मणा ।।

सोहमेनं तव प्रीत्या तपःसिद्धमपि ध्रुवम्।
वियुनज्मि देहाद्देवेनद्र मुहूर्तं प्रतिपालय ।।

लोमश उवाच।

तस्य विष्णुर्महातेजाः पाणिना चेतनां हरत्।
स पपात ततो भूमौ गिरिराज इवाहतः।
तस्यैतदस्थिसंघातं मायाविनिहतस्य वै ।।

इदं द्वितीयमपरं विष्णो कर्म प्रकाशते ।।

नष्टा वसुमती कृत्स्ना पाताले चैव मज्जिता।
पुनरुद्धरिता तेन वाराहेणैकशृङ्गिणा ।।

युधिष्ठिर उवाच।

मगवन्विस्तरेणेमां कथां कथय तत्त्वतः ।।

कथं तेन सुरेशेन नष्टा वसुमती तदा।
योजनानां शतं ब्रह्मन्पुनरुद्धरिता तदा ।।

केन चैव प्रकारेण जगतो धरणी ध्रुवा।
शिवा देवी महाभागा सर्वसस्यप्ररोहिणी।
कस्य चैव प्रभावाद्धि योजनानां शतं गता ।।

श्रोतुं विस्तरशः सर्वं त्वं हि तस्य प्रतिश्रयः ।।

लोमश उवाच।

यत्तेऽहं परिपृष्टोऽस्मि कथामेतां युधिष्ठिर।
तत्सर्वमखिलेनेह श्रूयतां मम भाषतः ।।

पुरा कृतयुगे तात वर्तमाने भयंकरे।
यमत्वं कारयामास आदिदेवः पुरातनः ।।

यमत्वं कुर्वतस्तस्य देवदेवस्य धीमतः।
न तत्र म्रियते कश्चिज्जायते वा तथाऽच्युत ।।

वर्धन्ते पक्षिसङ्घाश्च तथा पशुगवेडकम्।
गवाश्वं च मृगाश्चैव सर्वे ते पिशिताशनाः ।।

तथा पुरुषशार्दूल मानुपाश्च परंतप।
सहस्रशो ह्ययुतशो वर्धन्ते सलिलं यथा ।।

एतस्मिन्संकुले तात वर्तमाने भयंकरे।
अतिभाराद्वसुमती योजनानां शतं गता ।।

सा वै व्यथितसर्वाङ्गी भारेणाक्रान्तचेतना।
नारायणं वरं देवं प्रपन्ना शरणं गता ।।

पृथिव्युवाच।

भगवंस्त्वत्प्रसादाद्धि तिष्ठेयं सुचिरं त्विह।
भारेणास्मि समाक्रान्ता न शक्नोस्मि स्म वर्तितुम् ।।

ममेमं भगवन्भारं व्यपनेतुं त्वमर्हसि।
शरणागताऽस्मि ते देव प्रसादं कुरु मे विभो ।।

तस्यास्तद्वचनं श्रुत्वा भगवानक्षरः प्रभुः।
प्रोवाच वचनं हृष्टः श्राव्यारसमीरितम् ।।

न ते महि भयं कार्यं भारार्ते वसुधारिणि।
अयमेवं तथा कुर्मि यथा लध्वी भविष्यसि ।।

लोमश उवाच।

स तां विसर्जयित्वा तु वसुधां शैलकुण्डलाम्।
ततो वराहः संवृत्त एकशृङ्गो महाद्युतिः ।।

रक्ताभ्यां नयनाभ्यां तु भयमुत्पादयन्निव।
धूमं च ज्वलयँल्लक्ष्म्या तत्र देशे व्यवर्धत ।।

स गृहीत्वा वसुमतीं शृङ्गेणैकेन भास्वता।
योजनानां शतं वीर समुद्धरति सोऽक्षरः ।।

तस्यां चोद्धार्यमाणायां संक्षोभः समजायत।
देवाः संक्षुभिताः सर्वे ऋषयश्च तपोधनाः ।।

हाहाभूतमभूत्सर्वं त्रिदिवं व्योम भूस्तथा।
न पर्यवस्थितः कश्चिद्देवो वा मानुषोपि वा ।।

ततो ब्रह्माणमासीनं ज्वलमानमिव श्रिया।
देवाः सर्षिगणाश्चैव उपतस्थुरनेकशः ।।

उपसर्प्य च देवेशं ब्रह्माणं लोकसाक्षिकम्।
भूत्वा प्राञ्जलयः सर्वे वाक्यमुच्चारयंस्तदा ।।

लोकाः संक्षुभिताः सर्वे व्याकुलं च चराचरम्।
समुद्राणां च संक्षोभस्त्रिदशेश प्रकाशते ।।

सैषा वसुमती कृत्स्ना योजनानां शतं गता।
किमेतत्किंप्रभावेण येनेदं रव्याकुलं जगत्।
आख्यातु नो भवाञ्शीघ्रं विसंज्ञाः स्मेह सर्वशः ।।

ब्रह्मोवाच।

असुरेभ्यो भयं नास्ति युष्माकं कुत्रचित्क्वचित्।
श्रूयतां यत्कृते त्वेष संक्षोभो जायतेऽमराः ।।

योसौ सर्वत्रगः श्रीमानक्षरात्मा व्यवस्थितः।
तस्य प्रभावात्संक्षोभस्त्रिदिवस्य प्रकाशते ।।

यैषा वसुमती कृत्स्ना योजनानां शतं गता।
समुद्धृता पुनस्तेन विष्णुना परमात्मना ।।

तस्यामुद्धार्यमाणायां संक्षोभः समजायत।
एवं भवन्तो जानन्तु च्छिद्यतां संशयश्च वः ।।

देवा ऊचुः।

क्व तद्भूतं वसुमतीं समुद्धरति हृष्टवत्।
तं देशं भगवन्ब्रूहि तत्र यास्यामहे वयम् ।।

ब्रह्मोवाच।

हन्त गच्छत भद्रं वो नन्दने पशय्त स्थितम्।
एषोत्र भगवाञ्श्रीमान्मुपर्णः संप्रकाशते ।।

वारादेणैव रूपेण भगवाँल्लोकभावनः।
कालानल इवाभाति पृथिवीतलमुद्धरन् ।।

एतस्योरसि सुव्यक्तं श्रीवत्समभिराजते।
पश्यध्वं विबुधाः सर्वे भूतमेतदनामयम् ।।

लोमश उवाच।

ततो दृष्ट्वा महात्मानं श्रुत्वा चामन्त्र्य चामराः।
पितामहं पुरस्कृत्य जग्मुर्देवा यथागतम् ।।

वैशंपायन उवाच।

श्रुत्वा तु तां कथां सर्वे पाण्डवा जनमेजय।
लोमशादेशितेनाशु यथा जग्मुः प्रहृष्टवत् ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
तीर्थयात्रापर्वणि चतुश्चत्वारिंशदधिकशततमोऽध्यायः ।। 144 ।।