आरण्यकपर्व

अध्यायः १४०

Aranyaka Parva (Sanskrit) · Adhyaya 140
अक्षर का आकार

लोमश उवाच।

एतस्मिन्नेव काले तु बृहद्द्युम्नो महीपतिः।
सत्रं तेने महाभागो रैभ्ययाज्यः प्रतापवान् ।।

तेन रैभ्यस्य वै पुत्रावर्वावसुपरासू।
वृतौ सहायौ सत्रार्थं बृहद्द्युम्नेन धीमता ।।

तत्र तौ समनुज्ञातौ पित्रा कौन्तेय जग्मतुः।
आश्रमे त्वभवद्रैभ्यो भार्या चैव परावसोः ।।

अथावलोककोऽगच्छद्गृहानकः परावसुः।
कृष्णाजिनेन संवीतं ददर्श पितरं वने ।।

जघन्यरात्रे निद्रान्धः सावशेषे तमस्यापि।
चरन्तं गहनेऽरण्ये मेने स पितरं मृगम् ।।

मृगं तु मन्यमानेन पिता वै तेन हिंसितः।
अकामयानेन तदा शरीरत्राणमिच्छता ।।

तस्य स प्रेतकार्याणि कृत्वा सर्वाणि भारत।
पुनरागम्य तत्सत्रमब्रवीद्धातरं वचः ।।

इदं कर्म न शक्तस्त्वं वोढुमेकः कथंचन।
मया च हिंसितस्तातो मन्यमानेन वै मृगम् ।।

सोऽस्मदर्थे व्रतं तात चर त्वं ब्रह्मघातिनाम्।
समर्थो ह्यहमेकाकी कर्म कर्तुमिदं मुने ।।

अर्वावसुरुवाच।

करोतु वै भवान्सत्रं बृहद्द्युम्नस्य धीमतः।
ब्रह्महत्यां चरिष्येऽहं त्वदर्थं नियतेन्द्रियः ।।

लोमश उवाच।

स तस्यब्रह्महत्यायाः पारं गत्वा युधिष्ठिर।
अर्वावसुस्तदा सत्रमाजगाम पुनर्मुनिः ।।

ततः परावसुर्दृष्ट्वा भ्रातरं समुपस्थितम्।
बृहद्द्युम्नमुवाचेदं वचनं हर्षगद्गदम् ।।

एष ते ब्रह्महा यज्ञं मा द्रष्टुं प्रविशेदिति।
ब्रह्महा प्रेक्षितेनापि पीडयेत्त्वामसंशयम् ।।

लोमश उवाच।

तच्छ्रुत्वैव तदा राजा प्रेष्यानाह स विट्‌पते।
प्रेष्यैरुत्सार्यमाणस्तु राजन्नर्वावसुस्तदा।
न मया ब्रह्महत्येयं कृतेत्याह पुनःपुनः ।।

उच्यमानोऽसकृत्प्रेष्यैर्ब्रह्महा इति भारत।
नैवस्म प्रतिजानामि ब्र्हमहत्यां स्वयंकृताम्।
मम भ्रात्रा कृतमिदं मया स परिमोक्षितः ।।

स तथा प्रवदन्क्रोधात्तैश्च प्रेष्यैः प्रभाषितः।
तूष्णीं जगाम ब्रह्मर्षिर्वनमेव महातपाः ।।

उग्रं तपः समास्थाय दिवाकरमथाश्रितः।
रहस्यवेदं कृतवान्सूर्यस्य द्विजसत्तमः ।।

मूर्तिमांस्तं ददर्शाथ स्वयमग्रभुगव्ययः ।।

प्रीतास्तस्याभवन्देवाः कर्मणाऽर्वावसोर्नृप।
तं ते प्रवरयामासुर्निरासुश्च परावसुम् ।।

ततो देवा वरं तस्मै ददुरग्निपुरोगमाः ।।

स चापि वरयामास पितुरुत्थानमात्मनः।
अनागस्त्वं ततो भ्रातुः पितुश्चास्मरणं वधे ।।

भरद्वाजस्य चोत्थानं यवक्रीतस्य चोभयोः।
प्रतिष्ठां चापि वेदस्य सौरस्य द्विजसत्तमः ।।

एवमस्त्विति तं देवाः प्रोचुश्चापि वरान्ददुः।
ततः प्रादुर्बभूवुस्ते सर्व एव युधिष्ठिर ।।

अथाब्रवीद्यवक्रीतो देवानग्निपुरोगमान्।
समधीतं मया ब्रह्म व्रतानि चरितानि च ।।

कथं च रैभ्यः शक्तो मामदीयानं तपस्विनम्।
तथायुक्तेन विधिना निहन्तुममरोत्तमाः ।।

देवा ऊचुः।

मैवं कृथा यवक्रीत यथा वदसि वै मुने।
ऋते गुरुमधीता हि स्वयं वेदास्त्वया पुरा ।।

अनन तु गुरूनदुःखात्तोषयित्वाऽऽत्मक्रमणा।
कालेन महता क्लेशाद्ब्रह्माधिगतमुत्तमम् ।।

लोमश उवाच।

यवक्रीतमथोक्त्वैवं देवाः साग्निपुरोगमाः।
संजीवयित्वा तान्सर्वान्पुनर्जग्मुस्त्रिविष्टपम् ।।

`ततो वै स यवक्रीतो ब्रह्मचर्यं चचार ह।
अष्टादश च वर्षाणि त्रिंशतं च युधिष्ठिर' ।।

आस्रमस्तस्य पुण्योऽयं सदापुष्पफलद्रुमः।
अत्रोष्य राजशार्दूल सर्वपापैः प्रभोक्ष्यसे ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
तीर्थयात्रापर्वणि चत्वारिंशदधिकशततमोऽध्यायः ।। 140 ।।