आरण्यकपर्व
अध्यायः १४१
लोमश उवाच।
उशीरबीजं मैनाकं गिरिं श्वेतं च भारत।
समतीतोऽसि कौन्तेय कालशैलं च पार्थिव ।।
एषा गङ्गा सप्तविधा राजते भरतर्षभ।
स्थानं विरजसं पुण्यं यत्राग्निर्नित्यमिध्यते ।।
एतद्वै मानुषेणाद्य न शक्यं द्रष्टुमद्भुतम्।
समाधिं कुरुताव्यग्रास्तीर्थान्येतानि द्रक्ष्यथ ।।
एतद्द्रक्ष्यसि देवानामाक्रीडं च रणाङ्कितम्।
अतिक्रान्तोसि कौन्तेय कालशैलं च पर्वतम् ।।
श्वेतं गिरिं प्रवेक्ष्यामो मन्दरं चैव पर्वतम्।
यत्र माणिवरो यक्षः कुबेरश्चैव यक्षराट् ।।
अष्टाशीतिसहस्राणि गन्धर्वाः शीघ्रगामिनः।
तथा किंपुरुषा राजन्यक्षाश्चैव चतुर्गुणाः ।।
अनेकरूपसंस्थाना नानाप्रहरणाश्च ते।
यक्षेन्द्रं मनुजश्रेष्ठ माणिभद्रमुपासते ।।
तेषामृद्धिरतीवात्र गतौ वायुसमाश्च ते।
यक्षेन्द्रं मनुजश्रेष्ठ माणिभद्रमुपासते ।।
तैस्तात बलिभिर्गुप्ता यातुधानैश्च रक्षिताः।
दुर्गमाः पर्वताः पार्थ समाधिं परमं कुरु ।।
कुबेरसचिवाश्चान्ये रौद्रा मैत्राश्च राक्षसाः।
तैः समेष्याम कौन्तेय यत्तो विक्रमणे भव ।।
कैलासः पर्वतो राजन्पड्योजनशतोच्छ्रितः।
यत्रदेवाः समायान्ति विशाला यत्र भारत ।।
असङ्ख्येयास्तु कौन्तेय यक्षराक्षसकिन्नराः।
नागाः सुपर्णा गन्धर्वाः कुबेरसदनं प्रति ।।
तान्विगाहस्व पार्थाद्य तपसा च दमेन च।
रक्ष्यमाणो मया राजन्भीमसेनबलेन च ।।
स्वस्ति ते वरुणो राजा यमश्च समितिंजयः।
गङ्गा च यमुना चैव पर्वताश्च दिशन्तु ते ।।
मरुतश्च सहाश्विभ्यां सरितश्च सरांसि च।
स्वस्ति देवासुरेभ्यश्च वसुभ्यश् महाद्युते ।।
इन्द्रस्य जाम्बूनदपर्वताद्वै
शृणोमि घोषं तव देवि गङ्गे।
गोपाययेमं सुभगे गिरिभ्यः
सर्वाजमीढापचितं नरेन्द्रम् ।।
ददस्व शर्म प्रविविक्षतोऽस्य
शैलानिमाञ्छैलसुते नृपस्य।
`शिवप्रदा सर्वसरित्प्रधाने
स भ्रातृकस्येह युधिष्ठिरस्य'।
युधिष्ठिर उवाच।
अपूर्वोऽयं संभ्रमो लोमशस्य
कृष्णां च सर्वे रक्षत मा प्रमादः।
देशो ह्ययं दुर्गतमो मतोऽस्य
तस्मात्परं शौचमिहाचरध्वम् ।।
वैशंपायन उवाच।
ततोऽब्रवीद्भीममुदारवीर्यं
कृष्णां यत्तः पालय भीमसेन।
शून्येऽर्जुनेऽसन्निहिते च तात
त्वामेव कृष्णा भजते भयेषु ।।
ततो महात्मां स यमौ समेत्य
मूर्धन्युपाघ्राय विमृज्यगात्रे।
उवाच तौ बाष्पकलं स राजा
मा बैष्टमागच्छतमप्रमत्तौ ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
तीर्थयात्रापर्वणि एकचत्वारिंशदधिकशततमोऽध्यायः ।। 141 ।।