आरण्यकपर्व

अध्यायः १३९

Aranyaka Parva (Sanskrit) · Adhyaya 139
अक्षर का आकार

लोमश उवाच।

भरद्वाजस्तु कौन्तेय कृत्वा स्वाध्यायमाह्निकम्।
समित्कलापमादाय प्रविवेश स्वमाश्रमम् ।।

तं स्म दृष्ट्वा पुरा सर्वे प्रत्युत्तिष्ठिन्ति पावकाः।
न त्वेनमुपतिष्ठन्ति हतपुत्रं तदाऽग्नयः ।।

वैकृतंत्वग्निहोत्रे स लक्षयित्वा महातपाः।
तमन्धं शूद्रमासीनं गृहपालमथाब्रवीत् ।।

किंनु मे नाग्नयः शूद्र प्रतिनन्दन्ति दर्शनम्।
त्वं चापि न यथापूर्वं कच्चित्क्षेममिहाश्रमे ।।

कच्चिन्न रैभ्यं पुत्रो मे गतवानल्पचेतनः।
एतदाचक्ष्व मे शीघ्रं न हि शुद्ध्यति मे मनः ।।

शूद्र उवाच।

रैभ्यं यातो नूनमयं पुत्रस्ते मन्दचेतनः।
तथाहि निहतः शेते राक्षसेन महात्मना ।।

प्रकाल्यमानस्तेनायं शूलहस्तेन रक्षसा।
अग्न्यगारं प्रतिद्वारि मया दोर्भ्यां निवारितः ।।

ततः स विहताशोऽत्रजलकामोशुचिर्ध्रुवम्।
निहतः सोऽतिवेगेन शूलहस्तेन रक्षसा ।।

लोमश उवाच।

भरद्वाजस्तु तच्छ्रुत्वा शूद्रस्य विप्रियं महत्।
गतासुं पुत्रमादाय विललाप सुदुःखितः ।।

भरद्वाज उवाच।

रब्राह्मणानां किलार्थाय ननु त्वं तप्तवांस्तपः।
द्विजानामनधीता वै वेदाः संप्रतिभान्त्विति ।।

तथा कल्याणशीलस्त्वं ब्राह्मणेषुमहात्मसु।
अनागाः सर्वभूतेषु कर्कशत्वमुपेयिवान् ।।

प्रतिषिद्धो मया तात रैभ्यावसथदर्शनात्।
गतवानेव तं क्षुद्रं कालान्तकयमोपमम् ।।

यः स जानन्महातेजा वृद्धस्यैकं ममात्मजम्।
गतवानेव कोपस्य वशं परमदुर्मतिः ।।

पुत्रशोकमनुप्राप्त एष रैभ्यस्य कर्मणा।
त्यक्ष्यामि त्वामृतेपुत्र प्राणानिष्टतमान्भुवि ।।

यथाऽहं पुत्रशोकेन देहं त्यक्ष्यामि किल्विषी।
तथा ज्येष्ठः सुतो रैभ्यं हिंस्याच्छीघ्रमनागसम् ।।

सुखिनो वै नरा येषां जाया पुत्रो न विद्यते।
ये पुत्रशोकमप्राप्य विचरन्ति यथासुखम् ।।

ये तु पुत्रकृताच्छोकाद्भृशं व्याकुलचेतसः।
शपन्तीष्टान्सखीनार्तास्तेभ्यः पापतरो नु कः ।।

परासुश्च सुतो दृष्टः शप्तश्चैष्टः सखा मया।
ईदृशीमापदं कोत्र द्वितीयोऽनुविष्यति ।।

लोमश उवाच।

विलप्यैवं बहुविधं भरद्वाजोऽदहत्सुतम्।
सुसमिद्धं ततः पश्चात्प्रविवेश हुताशनम् ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
तीर्थयात्रापर्वणि एकोनचत्वारिंशदधिकशततमोऽध्यायः ।। 139 ।।