आरण्यकपर्व

अध्यायः १३२

Aranyaka Parva (Sanskrit) · Adhyaya 132
अक्षर का आकार

लोमश उवाच।

इह मर्त्यास्तनूस्त्यक्त्वा स्वर्गं गच्छन्ति भारत।
मर्तुकामा नरा राजन्निहायान्ति सहस्रशः ।।

एवमाशीः प्रयुक्ता हि दक्षेण यजता पुरा।
इह ये वै मरिष्यन्ति ते वै स्वर्गजितो नराः ।।

एषा सरस्वती रम्या दिव्या चौघवती नदी।
एतद्विनशनं नाम सरस्वत्या विशांपते ।।

द्वारं निषादराष्ट्रस्य येषां दोषात्सरस्वती।
प्रविष्टा पृथिवीं वीर मा निषादा हि मां विदुः ।।

एष वै चमसोद्भेदो यत्र दृश्या सरस्वती।
यत्रैनामभ्यवर्तन्त दिव्याः पुण्याः समुद्रगाः ।।

एतत्सिन्धोर्महत्तीर्थं यत्रागस्त्यमरिंदम।
लोपामुद्रा समागम्य भर्तारमवृणीत वै ।।

एतत्प्रकाशते तीर्थं प्रभासं भास्करद्युते।
इन्द्रस्य दयितं पुण्यं पवित्रं पापनाशनम् ।।

एतद्विष्णुपदं नाम दृश्यते तीर्थमुत्तमम्।
एषां रम्या विपाशा च नदी परमपावनी ।।

अत्र वै पुत्रशोकेन वसिष्ठो भगवानृषिः।
बद्ध्वाऽत्मानं निपतितो विपाशः पुनरुत्थितः ।।

काश्मीरमण्डलं चैतत्सर्वपुण्यमरिंदम।
महर्षिभिश्चाध्युषितं पश्येदं भ्रातृभिः सह ।।

यत्रौत्तराणां सर्वेषामृषीणां नाहुषस्य च।
अग्नेश्चैवात्र संवादः काश्यपश्य च भारत ।।

एतद्द्वारं महाराज मानसस्य प्रकाशते।
वर्षमस्य गिरेर्मध्ये रामेण श्रीमता कृतम् ।।

एष वातिकषण्डो वै प्रख्यातः सत्यविक्रमः।
नात्यवर्तत यद्द्वारं विदेहादुत्तरं च यः ।।

इदमाश्चर्यमपरं देशेऽस्मिन्पुरुषर्षभ।
क्षीणे युगे तु कौन्तेय शर्वस्य सह पार्षदैः।
सहोमया च भवति दर्शनं कामरूपिणः ।।

अस्मिन्सरसि सत्रैर्वै चैत्रे मासि पिनाकिनम्।
यजन्ते याजकाः सम्यक् परिवारं शुभार्थिनः ।।

अत्रोपस्पृश्य सरसि श्रद्दधानो जितेन्द्रियः।
क्षीणपापः शुभाँल्लोकान्प्राप्नुते नात्र संशयः ।।

एष उज्जानको नाम पावकिर्यत्र शान्तवान्।
अरुन्धतीसहायश्च वसिष्ठो भगवानृषिः ।।

ह्रदश्च कुशवानेष यत्र पद्मं कुशेशयम्।
आश्रमश्चैव रुक्मिण्या यत्राशाम्यदकोपना ।।

समाधीनां समासस्तु पाण्डवेय श्रुतस्त्वया।
तं द्रक्ष्यसि महाराज भृगुतुन्दं महागिरिम् ।।

वितस्तां पश्य राजेन्द्र सर्वपापप्रमोचनीम्।
महर्षिभिश्चाध्युषितां शीततोयां सुनिर्मलाम् ।।

जलां चोपजलां चैव यमुनामभितो नदीम्।
उशीनरो वै यत्रेष्ट्वा वासवादत्यरिच्यत ।।

तां देवसमितिं तस्य वासवश्च विशांपते।
अभ्यागच्छन्नृपवरं ज्ञातुमग्निश्च भारत ।।

जिज्ञासमानौ वरदौ महात्मानमुशीनरम्।
इन्द्रः श्येनः कपोतोऽग्निर्भूत्वा यज्ञेऽभिजग्मतुः ।।

उरुं राज्ञः समासाद्य कपोतः श्येनजाद्भयात्।
शरणार्थी तदा राजन्निलिल्ये भयपीडितः ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
तीर्थयात्रापर्वणि द्वात्रिंशदधिकशततमोऽध्यायः ।। 132 ।।