आरण्यकपर्व
अध्यायः १३३
श्येन उवाच।
धर्मात्मानं त्वाहुरेकं सर्वे राजन्महीक्षितः।
स वै धर्मविरुद्धं त्वं कस्मात्कर्म चिकीर्षसि ।।
विहितं भक्षणं राजन्पीड्यमानस्य मे क्षुधा।
माहिंसीर्धर्मलोभेन धर्ममुत्सृज्य मा नशः ।।
राजोवाच।
संत्रस्तरूपस्त्राणार्थी त्वत्तो भीतो महाद्विज।
मत्सकाशमनुप्रप्तः प्राणगृध्नुरयं द्विजः ।।
एवमभ्यागतस्येह कपोतस्याभयार्थिनः।
अप्रदाने परो धर्मः किं त्वं श्येनेह पश्यसि ।।
प्रस्पन्दमानः संभ्रान्तः कपोतः श्येन लक्ष्यते।
मत्सकाशं जीवितार्थी तस्य त्यागो विगर्हितः ।।
[यो हि कश्चिद्द्विजान्हन्याद्गां वा लोकस्य मातरम्।
शरणागतं च त्यजते तुल्यं तेषां हि पातकम्]
श्येन उवाच।
आहारत्सर्वभूतानि संभवन्ति महीपते।
आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः ।।
शक्यते दुस्त्यजेऽप्यर्थे चिररात्राय जीवितुम्।
न तु भोजनमुत्सृज्य शक्यं वर्तयितुं चिरम् ।।
भक्ष्याद्विलोपितस्याद्य मम प्राणा विशांपते।
विसृज्यकायमेष्यन्ति पन्थानमपुनर्भवम् ।।
प्रमृते मयि धर्मात्मन्पुत्रदारादि नङ्क्ष्यति।
रक्षमाणः कपोतं त्वं बहून्प्राणान्न रक्षसि ।।
बहून्यो बाधते धर्मो न स धर्मः कुवर्त्म तत्।
अविरोधी तु यो धर्मः स धर्मः सत्यविक्रम ।।
विरोधिषु महीपाल निश्चित्य गुरुलाघवम्।
न बाधा विद्यते यत्र तं धर्मं समुपाचरेत् ।।
गुरुलाघवमाज्ञाय धर्माधर्मविनिश्चये।
यतो भूयांस्ततो राजन्कुरु धर्मविनिश्चयम् ।।
राजोवाच।
बहुकल्याणसंयुक्तं भाषसे विहगोत्तम।
सुपर्णः पक्षिराट् किं त्वं धर्मं ज्ञात्वाऽभिभाषसे ।।
तथाहि धर्मसंयुक्तं बहुचित्रं च भाषसे।
न तेऽस्त्यविदितं किंचिदिति त्वां लक्षयाम्यहम्।
शरणैषिपरित्यागं कथं साध्विति मन्यसे ।।
आहारार्थं समारम्भस्तव चायं विहंगम।
शक्यश्चाप्यन्यथा कर्तुमाहारोऽप्यधिकस्त्वया ।।
गोवृषो वा वराहो वा मृगो वा महिषोपि वा।
त्वदर्थमद्य क्रियतां यच्चान्यदिह काङ्क्षसि ।।
श्येन उवाच।
न वराहं न चोक्षाणं न मृगान्विविधांस्तथा।
भक्षयामि महाराज किं ममान्येन केचचित् ।।
यस्तु मे दैवविहितो भक्षः क्षत्रियपुङ्गव।
तमुत्सृज महीपाल कपोतमिममेव मे ।।
श्येनाः कपोतान्स्वादन्ति श्रुतिरेषा सनातनी।
मा राजन्सारमज्ञात्वा कदलीस्कन्धमासज ।।
राजोवाच।
राष्ट्रं शिवीनामृद्धं वै शाधि पक्षिभिरर्चितः।
कृत्स्नमेतन्मया दत्तं राजवद्विहगोत्तम ।।
यं वा कामयसे कामं श्येन सर्वं ददानि ते।
विनेमं पक्षिणं श्यन शरणार्थिनमागतम् ।।
येनेमं स्थापयेथास्त्वं कर्मणा पक्षिसत्तम।
तदाचक्ष्व करिष्यामि न हि दास्ये कपोतकम् ।।
श्येन उवाच।
उशीनर कपोते ते यदि स्नेहो नराधिप।
आत्मनो मांसमुत्कृत्य कपोततुलया धृतम् ।।
यदा समं कपोतेन तव मांसं नृपोत्तम।
त्वया प्रदेयं तन्मह्यं सा मे तुष्टिर्भविष्यति ।।
राजोवाच।
अनुग्रहमिमं मन्ये श्येन यन्माभियाचसे।
तस्मात्तेऽद्य प्रदास्यामि स्वमांसं तुलया धृतम् ।।
लेमश उवाच।
अथोत्कृत्य स्वमांसं तु राजा परमधर्मवित्।
तुलयामास कौन्तेय कपोतेन समं विभो ।।
ध्रियमाणः कपोतस्तु मांसेनात्यतिरिच्यते।
पुनश्चोत्कृत्यमांसानि राजा प्रादादुशीनरः ।।
न विद्यते यदा मांसं कपोतेन समं धृतम्।
तत उत्कृत्तमांसोऽसावारुरोह स्वयं तुलाम् ।।
श्येन उवाच।
इन्द्रोऽहमस्मि धर्मज्ञ कपोतो हव्यवाडयम्।
जिज्ञासमानौ धर्म त्वां यज्ञवाटमुपागतौ ।।
यत्ते मांसानि गात्रेभ्य उक्तृत्तानि विशांपते।
एषा ते शाश्वती कीर्तिर्लोकानभिभविष्यति ।।
यावल्लोके मनुष्यास्त्वां कथयिष्यन्ति पार्थिव।
तावत्कीर्तिश्च लोकाश्च स्थास्यन्ति तव शाश्वताः ।।
इत्युक्त्वा भूमिपतये तस्मै दत्त्वा यथेप्सितम्।
प्रशस्य जग्मतू राजन्निन्द्राग्री तुष्टमानसौ ।।
उशीनरोऽपिधर्मात्मा धर्मेणावृत्यरोदसी।
विभ्राजमानो वपुषाऽप्यारुरोह त्रिविष्टपम् ।।
तदेतत्सदनं राजन्राज्ञस्तस्य महात्मनः।
पश्यस्वैतन्मया सार्धं पुण्यं पापप्रमोचनम् ।।
तत्र वै सततं देवा मुनयश्च सनातनाः।
दृश्यन्ते ब्राह्मणै राजन्पुण्यवद्भिर्महात्मभिः ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
तीर्थयात्रापर्वणि त्रयस्त्रिंशदधिकशततमोऽध्यायः ।। 133 ।।