आरण्यकपर्व
अध्यायः १३१
लोमश उवाच।
अस्मिन्किल स्वयं राजन्निष्टवान्वै प्रजापतिः।
सत्रमिष्टीकृतं नाम पुरा वर्षसहस्रिकम् ।।
अम्बरीषश्च नाभाग इष्टवान्यमुनामनु।
यत्रेष्ट्वा दशपद्मानि सदस्येभ्योऽभिसृष्टवान् ।।
यज्ञैश्च तपसा चैव परां सिद्धिमवाप सः।
देशश्च नाहुषस्यायं य़ज्वनः पुण्यकर्मणः ।।
सार्वभौमस्य कौन्तेय ययातेरमितौजसः।
स्पर्धमानस्य शक्रेण तस्येदं यज्ञवास्त्विह ।।
पश्य नानाविधाकारैरग्निभिर्निचितां महीम्।
मज्जन्तीमिव चाक्रान्तां ययातेर्यज्ञकर्मभिः ।।
एषा शम्येकपत्रा सा शकटं चैतदुत्तमम्।
पश्य रामह्रदानेतान्पश्य नारायणाश्रमम् ।।
एतच्चर्चीकपुत्रस्य योगैर्विचरतो महीम्।
प्रसर्पणं महीपाल रौप्यायाममितौजसः ।।
अत्रानुवंशं पठतः शृणु मे कुरुनन्दन।
उलूखलैराभरणैः पिशची यदभाषत ।।
युगन्धरे दधि प्राश्य उषित्वा चाच्युतस्थले।
तद्वद्भूतलये स्नात्वा सपुत्रा वस्तुमर्हसि ।।
एकरात्रमुवित्वेह द्वितीयं यदि वत्स्यसि।
एतद्वै ते गदेवावृत्तं रात्रौ वृत्तमितोऽन्यथा ।।
अद्य चात्र निवत्स्यामः क्षपां भरतसत्तम।
द्वारमेतत्तु कौन्तेय कुरुक्षेत्रस्य भारत ।।
अत्रैव नाहुषो राजा राजन्क्रतुभिरिष्टवान्।
ययातिर्बहुरत्नौर्घर्यत्रेन्द्रो मुदमभ्यगात् ।।
एतत्प्लक्षावतरणं यमुनातीर्थमुत्तमम्।
एतद्वै नाकपृष्ठस्य द्वारमाहुर्मनीषिणः ।।
अत्रसारस्वतैर्यज्ञैरीजानाः परमर्षयः।
यूपोलूखलिकास्तात गच्छन्त्यवभृथप्लवम् ।।
अत्रवै भरतो राजा राजन्क्रतुभिरिष्टवान्।
हयमेधेन यज्ञेन मेध्यमश्वमवासृजत् ।।
असकृत्कृष्णसारङ्गं धर्मेणाप्य च मेदिनीम्।
अत्रैव पुरुषव्याघ्र मरुत्तः सत्रमुत्तमम्।
प्राप चैवर्षिमुख्येन संवर्तेनाभिपालितः ।।
अत्रोपस्पृश्य राजेन्द्र सर्वाल्लोँकान्प्रपश्यति।
पूयते दुष्कृताच्चैव अत्रापि समुपस्पृश ।।
वैशंपायन उवाच।
तत्र सभ्रातृकः स्नात्वा स्तूयमानो महर्षिभिः।
लोमशं पाण्डवश्रेष्ठ इदं वचनमब्रवीत् ।।
सर्वाँल्लोकान्प्रपश्यामि तपसा सत्यविक्रम।
इहस्तः पाण्डवश्रेष्ठं पश्यामि श्वेतवाहनम् ।।
लोमश उवाच।
एवमेतन्महाबाहो पश्यन्ति परमर्षयः।
इह स्नात्वा तपोयुक्तांस्त्रील्लोँकान्सचराचरान् ।।
सरस्वतीमिमां पुण्यां पुण्यैकशरणावृताम्।
यत्र स्नात्वा नरश्रेष्ठ धूतपाप्मा भविष्यसि ।।
इह सारस्वतैर्यज्ञैरिष्टवन्तः सुरर्षयः।
ऋषयश्चैव कौन्तेय तथा राजर्षयोपि च ।।
वेदी प्रजापतेरेषा समन्तात्पञ्चयोजना।
कुरोर्वै यज्ञशीलस्य क्षेत्रमेतन्महात्मनः ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
तीर्थयात्रापर्वणि एकत्रिंशदधिकशततमोऽध्यायः ।। 131 ।।