आरण्यकपर्व

अध्यायः १३

Aranyaka Parva (Sanskrit) · Adhyaya 13
अक्षर का आकार

वासदेव उवाच।

नैतत्कृच्छ्रमनुप्राप्तो भवान्स्याद्वसुधाधिप।
यद्यहं द्वारकायां स्यां राजन्सन्निहितः पुरा ।।

आगच्छेयमहं द्यूतमनाहूतोऽपि कौरवैः।
आम्बिकेयेन दुर्धर्ष राज्ञा दुर्योधनेन च।
वारयेयमहं द्यूतं बहून्दोपान्प्रदर्शयन् ।।

भीष्मद्रोणौ समानाय्य कृपं बाह्लीकमेव च।
वैचित्रवीर्यं राजानमलं द्यूतेन कौरव ।।

पुत्राणां तव राजेन्द्र त्वन्निमित्तमिति प्रभो।
तत्राचक्षमहं दोषान्यैर्भवान्व्यतिरोपितः ।।

वीरसेनसुतो यैस्तु राज्यात्प्रभ्रंशितः पुरा।
अतर्कितविनाशश्च देवनेन विशांपते ।।

सातत्यं च प्रसङ्गस्य वर्णयेयं यथातथम् ।।

स्त्रियोऽक्षा मृगया पानमेतत्कामसमुत्थितम्।
दुःखं चतुष्टय प्रोक्तं यैर्नरो भ्रश्यते श्रियः ।।

तत्रसर्वत्रवक्तव्यं मन्यन्ते शास्त्रकोविदाः।
विशेषतश्च वक्तव्यं द्यूते पश्यन्ति तद्विदः ।।

एकाहाद्द्रव्यनाशोऽत्र ध्रुवं व्यसनमेव च।
अभुक्तनाशश्चार्थानां वाक्पारुष्यं च केवलम् ।।

एतच्चान्यच्च कौरव्य प्रसङ्गिकटुकोदयम्।
द्यूते ब्रूयां महाबाहो समासाद्याम्बिकासुतम् ।।

एवमुक्तो यदि मया गृह्णीयाद्वचनं मम।
अनामयं स्याद्धर्मश्च कुरूणां कुरुवर्दन ।।

न चेत्स मम राजेन्द्र गृह्णीयान्मधुरं वचः।
पथ्यं च भरतश्रेष्ठ निगृह्णीयां बलेन तम् ।।

अथैनमविनीतेन सुहृदो नाम दुर्हृदः।
सभासदोऽनुवर्तेरंस्तांश्च इन्यां दुरोदरान् ।।

असान्निध्यं तु कौरव्य ममानर्तेष्वभूत्तदा।
येनेदं व्यसनं प्राज्ञा भवन्तो द्यूतकारितम् ।।

सोहमेत्य कुरुश्रेष्ठ द्वारकां पाण्डुनन्दन।
अश्रौषं त्वां व्यसनिनं युयुधानाद्यथातथम् ।।

श्रुत्वैव चाहं राजेन्द्र परमोद्विग्रमानसः।
तूर्णमभ्यागतोस्मित्वां द्रष्टुकामो विशंपते ।।

अहो कृच्छ्रमनुप्राप्ताः सर्वे स्म भरतर्षभ।
सोऽहं त्वां व्यसने मग्नं पश्यामि सह सोदरैः ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणइ
अर्जुनाभिगमनपर्वणि त्रयोदशोऽध्यायः ।। 13 ।।