आरण्यकपर्व

अध्यायः १२

Aranyaka Parva (Sanskrit) · Adhyaya 12
अक्षर का आकार

वैशंपायन उवाच।

भोजाः प्रव्रजिताञ्श्रुत्वा वृष्णयश्चान्धकैः सह।
पाण्डवान्दुःखसंतप्तान्समाजग्मुर्महावने ।।

पाञ्चालस्य च दायादो धृष्टकेतुश्च चेदिपः।
केकयाश्च महावीर्या भ्रातरो लोकविश्रुताः ।।

वने द्रष्टुं ययुः पार्थान्क्रोधामर्षसमन्विताः।
गर्हयन्तो धार्तराष्ट्रान्किं कुर्म इति चाब्रुवन् ।।

वासुदेवं पुरस्कृत्य सर्वे ते क्षत्रियर्षभाः।
परिवार्योपविविशुर्धर्मराजं युधिष्ठिरम्।
अभिवाद्य कुरुश्रेष्ठं विषण्णः केशवोऽब्रवीत् ।।

वासुदेव उवाच।

दुर्योधनस्य कर्णस् शकुनेश्च दुरात्मनः।
दुःशासनचतुर्थानां भूमिः पास्यति शोणितम् ।।

एतान्निहत्य समरे ये च तेषां पदानुगाः।
तांश्च सर्वान्विनिर्जित्य सहितान्स नराधिपान् ।।

ततः सर्वेऽभिषिञ्चामो धर्मराजं युधिष्ठिरम्।
निकृत्याऽभिचरन्वध्य एष धर्मः सनातनः ।।

वैशंपायन उवाच।

पार्तानामभिषङ्गेण तथा क्रुद्धं जनार्दनम्।
अर्जुनः शमयामास दिधक्षन्तमिव प्रजाः ।।

संक्रुद्धं केशवं दृष्ट्वा पूर्वदेवेषु फल्गुनः।
कीर्तयामास कर्माणि सत्यकीर्तेर्महात्मनः ।।

पुरुषस्याप्रमेयस्य सत्यस्यामिततेजसः।
प्रजापतिपतेर्विष्णोर्लोकनाथस्य धीमतः ।।

अर्जुन उवाच।

दशवर्षसहस्राणि यत्रसायंगृहो मुनिः।
व्यचरस्त्वं पुरा कृष्ण पर्वते गन्धमादने ।।

दशवर्षसहस्राणि दशवर्षशतानि च।
पुष्करेष्ववसः कृष्णं त्वमपो भक्षयन्पुरा ।।

ऊर्ध्वबाहुर्विशालायां बदर्यां मधुसूदन।
अतिष्ठ एकपादेन वायुभक्षः शतं समाः ।।

कृष्णाजिनोत्तरासङ्गः कृशो धमनिसंततः।
आसीः कृष्ण सरस्वत्यां सत्रेद्वादशवार्षिके ।।

प्रभासमप्यथासाद्य तीर्थं पुण्यजनार्चितम्।
तत्र कृष्ण महातेजा दिव्यं वर्षसहस्रकम् ।।

आतिष्ठस्त्वमथैकेन पादेन नियमस्थितः।
लोकप्रवृत्तिहेतोस्त्वमिति व्यासो ममाब्रवीत् ।।

क्षेत्रज्ञः सर्वभूतानामादिरन्तश्च केशवं।
निधानं तपसां कृष्ण यज्ञस्त्वं च सनातनः ।।

`योगकर्ता हृषीकेशः सांख्यकर्ता सनातनः।
शीलस्त्वं सर्वयोगानां करणं नियमस्य च' ।।

निहत्य नरकं भौममाहृत्य मणिकुण्डले।
प्रथमोत्पादितं कृष्ण मेध्यमश्वमवासृजः ।।

कृत्वातत्कर्म लोकानामृषभः सर्वलोकजित्।
अवधीस्त्वं रणे सर्वान्समेतान्दैत्यदानवान् ।।

ततः सर्वेश्वरत्वं च संप्रदाय शचीपतेः।
मानुषेषु महाबाहो प्रादुर्भूतोऽसि केशव ।।

स त्वं नारायणो भूत्वा हरिरासीः परंतप।
ब्रह्मा सोमश्च सूर्यश्च धर्मो धाता यमोऽनलः ।।

वायुर्वैश्रवणो रुद्रः कालः खं पृथिवी दिशः।
अजश्चराचरगुरुः स्रष्टा त्वं पुरुषोत्तम ।।

तुरायणादिभिर्देव क्रतुभिर्भूरदक्षिणैः।
अयजो भूरितेजा वै कृष्ण चैत्ररथे वने ।।

शतं शतसहस्राणि सुवर्णस्य जनार्दन।
एकैकस्मिंस्तदा यज्ञे परिपूर्णानि दत्तवान् ।।

अदितेरपि पुत्रत्वमेत्य यादवनन्दन।
त्वं विष्णुरिति विख्यात इन्द्रादवरजो विभुः ।।

शिशुर्भूत्वा दिवं खं च पृथिवीं च परंतप।
त्रिभिर्विक्रमणैः कृष्ण क्रान्तवानसि तेजसा ।

संप्राप्य दिवमाकाशमादित्यस्यन्दने स्थितः।
अत्यरोचश्च भूतात्मन्भास्करं स्वेन तेजसा ।।

प्रादुर्भावसहस्रेषु तेषुतेषु त्वया विभो।
अधर्मरुचयः कृष्ण निहताः शतशोऽसुराः ।।

सादिता मौखाः पाशा निशुम्भनरकौ हतौ।
कृतः क्षेमः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति ।।

जारूथ्यामाहुतिः क्राथः शिशुपालो नृपैः सह।
जरासन्धश्च शैब्यश्च शतधन्वा च निर्जितः ।।

तथा पर्जन्यघोषेण रथेनादित्यवर्चसा।
अहार्षी रुक्मिणीं भैष्मीं रणे निर्जित्य रुक्मिणे ।।

इन्द्रद्युम्नो हतः कोपाद्यवनश्च कशेरुमान्।
हतः सौभपतिः साल्वस्त्वया सौभं च पातितम्

एवमेते युधि हता भूयश्चान्याञ्शृमुष्व ह।
इरावत्यां हतो भोजः कार्तवीर्यसमो युधि।
गोपतिस्तालकेतुश्च त्वया विनिहतावुभौ ।।

तां च भोगवतीं पुण्यामृषिकान्तां जनार्दन।
द्वारकामात्मसात्कृत्वा समुद्रं गमयिष्यसि ।।

न क्रोधो न च मात्सर्यं नानृतं मधुसूदन।
त्वयि तिष्ठति दाशार्ह न नृशंस्यं कुतोऽनृजु ।।

आसीनं चैत्यमध्ये त्वां दीप्यमानं स्वतेजसा।
आगम्य ऋषयः सर्वेऽयाचन्ताभयमच्युत ।।

युगान्ते सर्वभूतानि संक्षिप्य मधुसूदन।
आत्मनैवात्मसात्कृत्वा जगदासीः परंतप ।।

युगादौ तव वार्ष्णेय नाभिपद्मादजायत।
ब्रह्मा चराचरगुरुर्यस्येदं सकलं जगत्।
तं हन्तुमुद्यतौ घोरौ दानवौ मधुकैटभौ ।।

तयोर्व्यतिक्रमं दृष्ट्वा क्रुद्धस्य भवतो हरेः।
ललाटाज्जातवाञ्शंभुः शूलपाणिस्त्रिलोचनः ।।

इत्थं तावपि देवेशौ त्वच्छरीरसमुद्भवौ।
त्वन्नियोगकरावेताविति मे नारदोऽब्रवीत् ।।

तथा नारायण पुरा क्रतुभिर्भूरिदक्षिणैः।
इष्टवांस्त्वं महासत्रं कृष्ण चैत्ररथे वने ।।

नैवं परे नापरे वा करिष्यन्ति कृतानि वा।
यानि कर्माणि देव त्वं बाल एव महाबलः ।।

कृतवान्पुण्डरीकाक्ष बलदेवसहायवान्।
वैराजभवने चापि ब्रह्मणा न्यवसः सह ।।

वैशंपायन उवाच।

एवमुक्त्वा महात्मानमात्मा कृष्णस्य पाण्डवः।
तूष्णीमासीत्ततः पार्थमित्युवाच जनार्दनः ।।

ममैव त्वं तवैवाहं ये मदीयास्तवैव ते।
यस्त्वां द्वेष्टि स मां द्वेष्टि यस्त्वामनु स मामनु ।।

नरस्त्वमसि दुर्धर्ष हरिर्नारायणो ह्यहम्।
काले लोकमिमं प्राप्तौ नरनारायणावृषी ।।

अनन्यः पार्थ मत्तस्त्वं त्वत्तश्चाहं तथैव च।
नावयोरन्तरं शक्यं वेदितुं भरतर्षभ ।।

वैशंपायन उवाच।

`इत्युक्त्वा पुण्डरीकाक्षः पाण्डवं सुप्रियं वचः।
प्रीयमाणो हृषीकेशस्तूष्णीं तत्र बभूव सः ।।'

एवमुक्ते तु वचने केशेवेन महात्मना।
तस्मिन्वीरसमावाये संरब्धेष्वथ राजसु ।।

धृष्टद्युम्नमुखैर्वीरैर्भ्रातृभिः परिवारिता।
पाञ्चाली पुण्डरीकाक्षमासीनं यादवैः सह।
अभिगम्याब्रवीत्कृष्णा शरण्यं शरणैषिणी ।।

द्रौपद्युवाच।

`वासुदेव हृषीकेश वासवावरजाच्युत।
देवदेवोसि देवानामिति द्वैपायनोऽब्रवीत्' ।।

पूर्वे प्रजाभिसर्गे त्वामाहुरेकं प्रजापतिम्।
स्रष्टारं सर्वलोकानामसितो देवलोऽब्रवीत् ।।

विष्णुस्त्वमसि दुर्धर्ष त्वं यज्ञो मधुसूदन।
यष्टात्वमसि त्वमसि यष्टव्यो जामदग्न्यो यथाऽब्रवीत् ।।

ऋषयस्त्वां क्षमामाहुः सत्यं च परुषोत्तम।
सत्याद्यज्ञोसि संभूतः कश्यपस्त्वां यथाऽब्रवीत् ।।

साध्यानामपि देवानां शिवानामीश्वरेश्वर।
लोकभावन लोकेश यथा त्वां नारदोऽब्रवीत् ।।

ब्रह्मशंकरशक्राद्यैर्देववृन्दैः पुनः पुनः।
क्रीडसे त्वं नरव्याघ्र बालः क्रीडनकैरिव ।।

द्यौश्च ते शिरसा व्याप्ता पद्भ्यां च पृथिवीप्रभो।
जठरे खमिमे लोकाः पुरुषोसि सनातनः ।।

विद्यातपोभितप्तानां तपसा भावितात्मनाम्।
आत्मदर्शनतृप्तानामृषीणामसि सत्तमः ।।

राजर्षीणां पुण्यकृतामाहवेष्वनिवर्तिनाम्।
सर्वधर्मोपपन्नानां त्वं गतिः पुरुषर्षभ।
त्वं प्रभुस्त्वं विभुश्च त्वं भूतात्मा त्वं विचेष्टसे ।।

लोकपालाश्च लोकाश्च नक्षत्राणि दिशे दश।
नभश्चन्द्रश्च सूर्यश्च त्वयि सर्वं प्रतिष्ठितम् ।।

मंर्त्यता चैव भूतानाममरत्वं दिवौकसाम्।
त्वयि सर्वं महाबाहो लोककार्यं प्रतिष्ठितम् ।।

सा तेऽहं दुःखमाख्यास्ये प्रणयान्मधुसूदन।
ईशस्त्वं सर्वभूतानां ये दिव्या ये च मानुषाः ।।

कथं नु भार्या पार्थानां तव कृष्ण सखी विभो।
धृष्टद्युम्नस्य भगिनी सभां कृष्येत मादृशी ।।

स्त्रीधर्मिणी वेपमाना शोणितेन समुक्षिता।
एकवस्त्रा विकृष्टाऽस्मि दुःखिता कुरुसंसदि ।।

राज्ञां मध्ये सभायां तु रजसाऽतिपरिप्लुता।
दृष्ट्वा च मां धार्तराष्ट्राः प्राहसन्पापचेतसः ।।

दासीभावेन मां भोक्तुमीष्सुते मधुसूदन।
जीवत्सु पाण्डुपुत्रेषु पाञ्चालेषु च वृष्णिषु ।।

नन्वहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः।
स्नुषा भवामि धर्मेण साऽहं दासीकृता बलात् ।।

गर्हयेपाण्डवांस्त्वेव युधि श्रेष्ठान्महाबलान्।
यत्क्लिश्यमानां प्रेक्षन्ते धर्मपत्नीं यशस्विनीम् ।।

धिग्बलं भीमसेनस्य धिक्पार्थस् च गाण्डिवम्।
यौ मां विप्रकृतां क्षुद्रैर्मर्षयेतां जनार्दन ।।

शाश्वतोऽयं धर्मपथः सद्भिराचरितः सदा।
यद्भार्यां परिरक्षन्ति भर्तारोऽल्पबला अपि ।।

भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता।
प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः ।।

आत्मा हि जायेत तस्यां तस्मज्जाया भवत्युत।
भर्ता च भार्यया रक्ष्यः कथं जायान्ममोदरे ।।

नन्विमे शरणं प्राप्तं न त्यजन्ति कदाचन।
ते मां शरणमापन्नां नान्वपद्यन्त पाण्डवाः ।।

पञ्चभिः पतिभिर्जाताः कुमासरा मे महौजसः।
एतेषामप्यवेक्षार्थं त्रातव्याऽस्मि जनार्दन ।।

प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात्।
अर्जुनाच्छ्रुतकीर्तिश्च शतानीकस्तु नाकुलिः ।।

कनिष्ठाच्छ्रुतकर्मा च सर्वे सत्यपराक्रमा।
प्रद्युम्नो यादृशः कृष्ण तादृशास्ते महारथाः ।।

नन्विमे धनुषि श्रेष्ठा अजेया युधि शात्रवैः।
किमर्थं धार्तराष्ट्राणां सहन्ते दुर्बलीयसाम् ।।

अधर्मेण हृतं राज्यं सर्वे दासाः कृतास्तथा।
सभायां परिकृष्टाऽहमेकवस्त्रा रजस्वला ।।

नाधिज्यमपि यच्छक्यं कर्तुमन्येन गाण्डिवम्।
अन्यत्रार्जुनभीमाभ्यां त्वया वा मधुसूदन ।।

धिग्बलं भीमसेनस्य धिक्पार्थस्य च पौरुषम्।
यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति ।।

य एतानाक्षिपद्राष्टात्सह मात्राऽविहिंसकान्।
अधीयानान्पुरा बालान्व्रतस्थान्मधुसूदन ।।

भोजने भीमसेनस्य पापः प्राक्षिपयद्विषम्।
कालकूटं नवं तीक्ष्णं संभृतं रोमहर्षणम् ।।

तज्जीर्णमविकारेण सहान्नेन जनार्दन।
सशेषत्वान्महाबाहो भीमस्य पुरुषोत्तम ।।

प्रमाणकोट्यां विश्वस्तं तथा सुप्तं वृकोदरम्।
बद्ध्वैनं कृष्ण गङ्गायां प्रक्षिप्य पुरमाव्रजत् ।।

यदा विबुद्धः कौन्तेयस्तदा संछिद्य बन्धनम्।
उदतिष्ठन्महाबाहुर्भीमसेनो महाबलः ।।

आशीविषैः कृष्णसर्पैः सुप्तंचैनमदंशयत्।
सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा ।।

प्रतिबुद्धस्तु कौन्तेयः सर्वान्सर्पानपोथयत्।
सारथिं चास्य दयितमपहस्तेन जघ्निवान् ।।

पुनः सुप्तानुपाधाक्षीद्बालकान्वारणावते।
शयानानार्यया सार्धं को नु तत्कर्तुमर्हति ।।

यत्रार्या रुदती भीता पाण्डवानिदमब्रवीत्।
महद्व्यसनमापन्ना शिखिना परिवारिता ।।

हा हतास्मि कुंतोन्वद्य भवेच्छान्तिरिहानलात्।
अनाथा विनशिष्यामि बालकैः पुत्रकैः सह ।।

तत्र भीमो महाबाहुर्वायुवेगपराक्रमः।
आर्यामाश्वासयामास भ्रातॄंश्चापि वृकोदरः ।।

वैनतेयो यथा पक्षी गरुत्मान्पततांवरः।
तथैवाभिपतिष्यामि भयंवो नेह विद्यते ।।

आर्यामङ्केन वामेन राजानं दक्षिणेन च।
अंसयोश्च यमौ कृत्वा पृष्ठे बीभत्सुमेव च ।।

सहसोत्पत्य वेगेन सर्वानादाय वीर्यवान्।
भ्रातॄनार्यां च बलवान्मोक्षयामास पावकात् ।।

ते रात्रौ प्रस्थितां सर्वे सह मात्रा यशस्विनः।
अभ्यगच्छन्महारण्ये हिडिम्बवनमन्तिकात् ।।

श्रान्ताः प्रसुप्तास्तत्रेमे मात्रा सह सुदुःखिताः।
सुप्तांश्चैनानभ्यगच्छद्धिडिम्बा नाम राक्षसी ।।

सा दृष्ट्वा पाण्डवांस्तत्र सुप्तान्मात्रा सह क्षितौ।
हृच्छयेनाभिभूतात्मा भीमसेनमकामयत् ।।

भीमस्य पादौ कृत्वा तु स्वउत्सङ्गे ततोऽबला।
पर्यमर्दत संहृष्टा कल्याणी मृदुपाणिना ।।

तामबुद्ध्यदमेयात्मा बलवान्सत्यविक्रमः।
पर्यपृच्छत तां भीमः किमिहेच्छस्यनिन्दिते ।।

एवमुक्ता तु भीमेन राक्षसी कामरूपिणी।
भीमसेनं महात्मानमाह चैवमनिन्दिता ।।

पलायध्वमितः क्षिप्रं मम भ्रातैष वीर्यवान्।
आगमिष्यति वो हन्तुं तस्माद्गच्छत माचिरम् ।।

अथ भीमोऽभ्युवाचैनां साभिमानमिदं वचः।
नोद्विजेयमहं तस्मान्निहनिष्येऽहमागतम् ।।

तयोः श्रुत्वा तु संजल्पमागच्छद्राक्षसाधमः।
भीमरूपो महानादान्विसृजन्भीमदर्शनः ।।

राक्षस उवाच।

केन सार्धं कथयसि आनयैनं ममान्तिकम्।
हिडिम्बे भक्षयिष्यामो न चिरं कर्तुमर्हसि ।।

सा कृपासंगृहीतेन हृदयेन मनस्विनी।
नैनमैच्छत्तदाकर्तुमनुक्रोशादनिन्दिता ।।

स नादान्विनदन्घोरान्राक्षसः पुरुषादकः।
अभ्यद्रवत वेगेन भीमसेनं तदा किल ।।

तमभिद्रुत्य संक्रुद्धो वेगेन महता बली।
अगृह्णात्पाणिना पाणिं भीमसेनस्य राक्षसः ।।

इन्द्राशनिसमस्पर्शं वज्रसंहननं दृढम्।
संहत्य भीमसेनाय व्याक्षिपत्सहसा करम् ।।

गृहीतं पाणिना पाणिं भीमसेनस्य रक्षसा।
नामृष्यत महाबाहुस्तत्राक्रुद्ध्यद्वृकोदरः ।।

तदासीत्तुमुलं युद्धं भीमसेनहिडिम्बयोः।
सर्वास्त्रविदुषोर्घोरं वृत्रवासवयोरिव ।।

विक्रीड्य सुचिरं भीमो राक्षसेन सहानघ।
निजघान महावीर्यस्तं तदा निर्बलं बली ।।

हत्वा हिडिम्बं भीमोऽथ प्रस्थितो भ्रातृभिः सह।
हिडिम्बामग्रतः कृत्वा यस्यां जातो घटोत्कटः ।।

ततः संप्राद्रवन्सर्वे सह मात्रा परंतपाः।
एकचक्रामभिमुखाः संवृता ब्राह्मणव्रजैः ।।

प्रस्थाने व्यास एषां च मन्त्री प्रियहिते रतः।
ततोऽगच्छन्नेकचक्रां पाणअडवाः संशितव्रताः ।।

तत्राप्यासादयामासुर्बकं नाम महाबलम्।
पुरुषादं प्रतिभयं हिडिम्बेनैव संमितम् ।।

तं चापि विनिहत्योग्रं भीमः प्रहरतां वरः।
सहितो भ्रातृभिः सर्वैर्द्रुपदस्य पुरं ययौ ।।

लब्धाऽहमपि तत्रैव वसता सव्यसाचिना।
यथा त्वया जिता कृष्णरुक्मिणी भीष्मकात्मजा ।।

एवं सुयुद्धे पार्थेन जिताऽहं मधुसूदन।
स्वयंवरे महत्कर्म कृत्वा न सुकरं परैः ।।

एवं क्लेशैः सुबहुभिः क्लिश्यमाना सुदुःखिता।
निवसाम्यार्यया हीना कृष्ण धौम्यपुरःसुरा ।।

त इमे सिंहविक्रान्ता वीर्येणाभ्यधिकाः परैः।
निहीनैः परिक्लिश्यन्ति समुपेक्षन्ति मां कथं।

एतादृशानि दुःखानि महन्ती दुर्बलीयसाम्।
दीर्घकालं प्रदीप्ताऽस्मि पापानां पापकर्मणाम् ।।

कुले महतिजाताऽस्मि दिव्येन विधिना किल।
पाण्डवानां प्रिया भार्या स्नुषा पाण्डोर्महात्मनः ।।

केशग्रहमनुप्राप्ता का नु जीवेत मादृशी।
पञ्चानामिन्द्रकल्पानां प्रेक्षतां मधुसूदन ।।

इत्युक्त्वा प्रारुदत्कृष्णा मुखं प्रच्छाद्य पाणिना।
पद्मकोशप्रकाशेन मृदुना मृदुभाषिणी ।।

स्तनावपतितौ पीनौ सुजातौ शुभलक्षणौ।
अभ्यवर्षत पाञ्चाली दुःखजैरश्रुबिन्दुभिः ।।

चक्षुषी परिमार्जन्ती निःश्वसन्ती पुनःपुनः।
बाष्पपूर्णेन कणअठेन क्रुद्धा वचनमब्रवीत् ।।

नैव मे पतयः सन्ति न पुत्रा न च बान्धवाः।
न भ्रातरो न च पिता नैव त्वं मधुसूदन ।।

ये मां विप्रकृतां क्षुद्रैरुपेक्षध्वं विशोकवत्।
न च मे शाम्यते दुःखं कर्णो यत्प्राहसत्तदा ।।

चतुर्भिः कारणैः कृष्ण त्वया रक्ष्याऽस्मि नित्यशः।
संबन्धाद्गौरवात्सख्यात्प्रभुत्वेनैव केशव ।।

वैशंपायन उवाच।

अथ तामब्रवीत्कृष्णस्तस्मिन्वीरसमागमे।
रोदिष्यन्ति स्त्रियो ह्येवं येषां क्रुद्धासि नामिनि ।।

बीभत्सुशरसंछन्नाञ्शोणितौघपरिप्लुतान्।
निहतान्वल्लभान्वीक्ष्य शयानान्वसुधातले ।।

यत्समर्थं पाण्डवनां तत्करिष्यामि मा शुचः।
सत्यं ते प्रतिजानामि राज्ञां राज्ञी भविष्यसि ।।

पतेद्द्यौर्हिमवाञ्शीर्येत्पृथिवी शकली भवेत्।
शुष्येत्तोयनिधिः कृष्णे न मे मोघं वचो भवेत् ।।

तच्छ्रुत्वा द्रौपदी वाक्यं प्रतिवाक्यमथाच्युतात्।
साचीकृतमवैक्षत्सा पाञ्चाली मध्यमं पतिम् ।।

आबभाषे महाराज द्रौपदीमर्जुनस्तदा।
मा रोदीः शुभताम्राक्षि यदाह मधुसूदनः।
तथा तद्भविता देवि नान्यथा वरवर्णिनि ।।

धृष्टद्युम्न उवाच।

अहं द्रोणं हनिष्यामि शिखण्डी तु पितामहम्।
दुर्योधनं भीमसेनः कर्णं हन्ता धनिजयः ।।

रामकृष्णौ व्यपाश्रित्य अजेयाः स्म रणए स्वसः।
अपि वृत्रहणा युद्धे किं पुनर्धृतराष्ट्रजैः ।।

वैशंपायन उवाच।

इत्युक्तेऽभिमुखा वीरा वासुदेवमुपास्थितः।
तेषां मध्ये महाबाहुः केशवो वाक्यमब्रवीत् ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
अर्जुनाभिगमनपर्वणि द्वादशोऽध्यायः ।। 12 ।।