अनुशासनपर्व

अध्यायः ९९

Anusasana Parva (Sanskrit) · Adhyaya 99
अक्षर का आकार

युधिष्ठिर उवाच।

श्रुतं मे भवतो वाक्यमन्नदानस्य यो विधिः।
नक्षत्रयोगस्येदानीं दानकल्पं ब्रवीहि मे।।

भीष्म उवाच।

अत्राप्युदाहरन्तीममितिहासं पुरानम्।
देवक्याश्चैव संवादं समर्षेर्नारदस्य च।।

द्वारकामनुसम्प्राप्तं नारदं देवदर्शनम्।
पप्रच्छेदं वचः प्रश्नं देवकी धर्मदर्शिनी।।

तस्याः सम्पृच्छमानाया देवर्षिर्नारदस्ततः।
आचष्ट विधइवत्सर्वं तच्छृणुष्व विशाम्पते।।

नारद उवाच।

कृत्तिकासु महाभागे पायसेन ससर्पिषा।
सन्तर्प्य ब्राह्मणान्साधूँल्लोकानाप्नोत्यनुत्तमान्।।

रोहिण्यां प्रसृतैर्मार्गैर्मांसैरन्नेन सर्पिषा।
पयोऽन्नपानं दातव्यमनृणार्थं द्विजातये।।

दोग्ध्रीं दत्त्वा सवत्सां तु नक्षत्रे सोमदैवते।
गच्छन्ति मानुपाल्लोकात्स्वर्गलोकमनुत्तमम्।।

आर्द्रायां कृसरं दत्त्वा तिलभिश्रमुपोषितः।
नरस्तरति दुर्गाणि क्षुरधारांश्च पर्वतान्।।

पूपान्पुनर्वसौ दत्त्वा तथैवान्नानि शोभने।
यशस्वी रूपसम्पन्नो बह्वन्नो जायते कुले।।

पुण्येण कनकं दत्त्वा कृतं वाऽकृतमेव च।
अनालोकेषु लोकेषु सोमवत्स विराजते।।

आश्लेषायां तु यो रूप्यमृषभं वा प्रयच्छति।
स सर्पभयनिर्मुक्तः सम्भवानधितिष्ठति।।

मघासु तिलपूर्णानि वर्धमानानि मानवः।
प्रदाय पुत्रपशुमानिह प्रेत्य च मोदते।।

फल्गुनीपूर्वसमये ब्राह्मणानामुपोषितः।
भक्ष्यान्फाणितसंयुक्तान्दत्त्वा सौभाग्यमृच्छति।।

घृतक्षीरसमायुक्तं विधिवत्षष्टिकौदनम्।
उत्तराविषये दत्त्वा स्वर्गलोके महीयते।।

यद्यत्प्रदीयते दानमुत्तराविषये नरैः।
महाफलमनन्तं तद्भवतीति विनिश्चयः।।

हस्ते हस्तिरथं दत्त्वा चतुर्युक्तमुपोषितः।
प्राप्नोति परमाँल्लोकान्पुण्यकामसमन्वितान्।।

चित्रायां वृषभं दत्त्वा पुण्यगन्धांश्च भारत।
चरन्त्यप्सरसां लोके रमन्ते नन्दने तथा।।

स्वात्यामथ धनं दत्त्वा यदिष्टतममात्मनः।i
प्राप्नोति लोकान्स शुभानिह चैव महद्यशः।।

विशाखायामनड्वाहं धेनुं दत्त्वा च दुग्धदाम्।
सप्रासङ्गं च शकटं सधान्यं वस्त्रसंयुतम्।

पितॄन्देवांश्च प्रीणाति प्रेत्य चानन्त्यमश्नुते।
न च दुर्गाण्यवाप्नोति स्वर्गलोकं च गच्छति।।

दत्त्वा यथोक्तं विप्रेभ्यो वृत्तिमिष्टां स विन्दति।
नरकादींश्च संक्लेशान्नाप्नोतीति विनिश्चयः।।

अनुराधासु प्रावरं वरान्नं समुपोषितः।
दत्त्वा युगशतं चापि नरः स्वर्गे महीयते।।

कालशाकं तु विप्रेभ्यो दत्त्वा मर्त्यः समूलकम्।
ज्येष्ठायामृद्धिमिष्टां वै गतिमिष्टां स गच्छति।।

मूले मूलफलं दत्त्वा ब्राह्मणेभ्यः समाहितः।
पितॄन्प्रीणयते चापि गतिमिष्टां च गच्छति।

अथ पूर्वास्वषाढासु दधिपात्राण्युपोषितः।
कुलवृत्तोपसम्पन्ने ब्राह्मणे वेदपारगे।।

प्रदाय जायते प्रेत्य कुले सुबहुगोधने।
उदमन्थं ससर्पिष्कं प्रभूतमधुफाणितम्।।

दत्त्वोत्तरास्वषाढासु सर्वकामानवाप्नुयात्।
दुग्धं त्वभिजिते योगे दत्त्वा मधुघृतप्लुतम्।
धर्मनित्यो मनीषिभ्यः स्वर्गलोके महीयते।।

श्रवणे कम्बलं दत्त्वा वस्त्रान्तरितमेव वा।
श्वेतेन याति यानेन स्वर्गलोकानसंवृतान्।।

गोप्रयुक्तं धनिष्ठासु यानं दत्त्वा समाहितः।
वस्त्रराशिधनं सद्यः प्रेत्य राज्यं प्रपद्यते।।

गन्धाञ्शतभिषग्योगे दत्त्वा सागरुचन्दनान्।
प्राप्नोत्यप्सरसां सङ्घान्प्रेत्य गन्धांश्च शाश्वतान्

पूर्वप्रोष्ठपदायोगे राजमाषान्प्रदाय तु।
सर्वभक्षफलोपेतः स वै प्रेत्य सुखी भवेत्।।

औरभ्रमुत्तरायोगे यस्तु मांसं प्रयच्छति।
स पितॄन्प्रीणयति वै प्रेत्य चानन्त्यमश्नुते।।

कांस्योपदोहनां धेनु रेवत्यां यः प्रयच्छति।
सा प्रेत्य कामानादाय दातारमुपतिष्ठति।।

रथमश्वसमायुक्तं दत्त्वाऽश्विन्यां नरोत्तमः।
हस्त्यश्वरथसम्पन्ने वर्चस्वी जायते कुले।।

भरणीषु द्विजातिभ्यस्तिलधेनुं प्रदाय वै।
गाः सुप्रभूताः प्राप्नोति नरः प्रेत्य यशस्तथा।।

भीष्म उवाच।

इत्येष लक्षणोद्देशः प्रोक्तो नक्षत्रयोगतः।
देवक्या नारदेनेह सा स्नुषाभ्योऽब्रवीदिदम्।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि एकोनशततमोऽध्यायः।। 99।।