अनुशासनपर्व

अध्यायः ९८

Anusasana Parva (Sanskrit) · Adhyaya 98
अक्षर का आकार

युधिष्ठिर उवाच।

कानि दानानि लोकेऽस्मिन्दातुकामो महीपतिः।
गुणाधिकेभ्यो विप्रेभ्यो दद्याद्भरतसत्तम।।

केन तुष्यन्ति ते सद्यः किं तुष्टाः प्रदिशन्ति च।
शंस मे तन्महाबाहो फलं पुण्यकृतं महत्।।

दत्तं किं फलवद्राजन्निह लोकें परत्र च।
भवतः श्रोतुमिच्छामि तन्मे विस्तरतो वद।।

भीष्म उवाच।

इममर्थं पुरा पृष्टो नारदो देवदर्शनः।
यदुक्तवानसौ वाक्यं तन्मे निगदतः शृणु।।

नारद उवाच।

अन्नमेव प्रशंसन्ति देवा ऋषिगणास्तथा।
लोकतन्त्रं हि यज्ञाश्च सर्वमन्ने प्रतिष्ठितम्।।

अन्नेन सदृशं दानं न भूतं न भविष्यति।
तस्मादन्नं विशेषेणि दातुमिच्छन्ति मानवाः।।

अन्नमूर्जस्करं लोके प्राणाश्चान्ने प्रतिष्ठिताः।
अन्नेन धार्यते सर्वं विश्वं जगदिदं प्रभो।।

अन्नाद्गृहस्था लोकेऽस्मिन्भिक्षवस्तापसास्तथा।।
अन्नाद्भवन्ति वै प्राणाः प्रत्यक्षं नात्र संशयः।।

कटुम्बिने सीदते च ब्राह्मणाय महात्मने।
दातव्यं भिक्षवे चान्नमात्मनो भूतिमिच्छता।।

ब्राह्मणायाभिरूपाय यो दद्यादन्नमर्थिने।
निदधाति निधिं श्रेष्ठं पारलौकिकमात्मनः।।

श्रान्तमध्वनि वर्तन्तं वृद्धमर्हमुपस्थितम्।
अर्ययेद्भूतिमन्विच्छन्गृहस्थो गृहमागतम्।।

क्रोधमुत्पतितं हित्वा सुशीलो वीतमत्सरः।
अन्नदः प्राप्नुते राजन्दिवि चेह च यत्सुखम्।।

नावमन्येदभिगतं न प्रणुद्यात्कदाचन।
अपि श्वपाके शुनि वा नान्नदानं प्रणश्यति।।

यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते।
आर्तायादृष्टपूर्वाय स महद्धर्ममाप्नुयात्।।

पितॄन्देवानृपीन्विप्रानतिथींश्च जनाधिप।
यो नरः प्रीणयत्यन्नैस्तस्य पुण्यफलं महत्।।

कृत्वाऽतिपातकं कर्म यो दद्यादन्नमर्थिने।
ब्राह्मणाय विशेषेण न स पापेन मुह्यते।।

ब्राह्मणेष्वक्षयं दानमन्नं शूद्रे महाफलम्।
अन्नदानं हि शूद्रे च ब्राह्मणे च विशिष्यते।।

न पृच्छेद्गोत्रचरणं स्वाध्यायं देशमेव च।
भिक्षितो ब्राह्मणेनान्नं दद्यादेवाविचारतः।।

अन्नदस्यान्नदा वृक्षाः सर्वकामफलप्रदाः।
भवन्ति चेह चामुत्र नृपते नात्र संशयः।।

आशंसन्ते हि पितरः सुवृष्टिमिव कर्षकाः।
अस्माकमपि पुत्रो वा पौत्रो वाऽन्नं प्रदास्यति।।

ब्राह्मणो हि महद्भूतं स्वयं देहीति याचते।
अकामो वा सकामो वा दत्त्वा पुण्यमवाप्नुयात्।।

ब्राह्मणः सर्वभूतानामतिथिः प्रसृताग्रभुक्।
विप्रा यदधिगच्छन्ति भिक्षमाणा गृहं सदा।।

सत्कताश्च निवर्तन्ते तदतीव प्रवर्धते।
महाभागे कुले प्रेत्य जन्म चाप्नोति भारत।।

दत्त्वा त्वन्नं नरो लोके तथा स्थानमनुत्तमम्।
स्विष्टमृष्टान्नदायी तु स्वर्गे वसति सत्कृतः।।

अन्नं प्राणा नराणां हि सर्वमन्ने प्रतिष्ठिम्।
अन्नदः पशुमान्पुत्री धनवान्भोगवानपि।।

प्राणवांश्चापि भवति रूपवांश्च तथा नृप।
अन्नदः प्राणदो लोके सर्वदः प्रोच्यते तु सः।।

अन्नं हि दत्त्वाऽतिथये ब्राह्मणाय यथाविधि।
प्रदाता सुखमाप्नोति दैवतैश्चापि पूज्यते।।

ब्राह्मणो हि महद्भूतं क्षेत्रभूतं युधिष्ठिर।
उप्यते तत्रि यद्बीजं तद्धि पुण्यफलं महत्।।

प्रत्यक्षं प्रीतिजननं भोक्तुर्दातुर्भवत्युत।
सर्वाण्यन्यानि दानानि परोक्षफलवन्त्युत।।

अन्नाद्धि प्रसवं यान्ति रतिरन्नाद्धि भारत।
धर्मार्थावन्नतो विद्धि रोगनाशं तथाऽन्नतः।।

अन्नं ह्यमृतमित्याह पुरा कल्पे प्रजापतिः।
अन्नं भुवं दिवं खं च सर्वमन्ने प्रतिष्ठितम्।।

अन्नप्रणाशे भिद्यन्ते शरीरे पञ्च धातवः।
बलं बलवतोपीह प्रणश्यत्यन्नहानितः।।

आवाहाश्च विवाहाश्च यज्ञाश्चान्नमृते तथा।
निवर्तन्ते नरश्रेष्ठ ब्रह्म चात्र प्रलीयते।।

अन्नतः सर्वमेतद्धि यत्किञ्चित्स्थाणु जङ्गमम्।
त्रिषु लोकेषु धर्मार्थमन्नं देयमतो बुधैः।।

अन्नदस्य मनुष्यस्य बलमोजो यशांसि च।
कीर्तिश्च वर्धते शश्वत्त्रिषु लोकेषु पार्थिव।।

मेघेषूर्ध्वं सन्निधत्ते प्राणानां पवनः पतिः।
तच्च मेघगतं वारि शक्रो वर्षति भारत।।

आदत्ते च रसान्भौनानादित्यः स्वगभस्तिभिः।
वायुरादित्यतस्तांश्च रसान्देवः प्रवर्षति।।

तद्यदा मेघतो वारि पतितं भवति क्षितौ।
तदा वसुमती देवी स्निग्धा भवति भारत।।

ततः सस्यानि रोहन्ति येन वर्तयते जगत्।
मांसमेदोस्थिशुक्राणां प्रादुर्भावस्ततः पुनः।।

सम्भवन्ति ततः शुक्रात्प्राणिनः पृथिवीपते।
अग्नीषोमौ हि तच्छुक्रं सृजतः पुष्यतश्च ह।।

एवमन्नाद्धि सूर्यश्च पवनः शक्रमेव च।
एक एव स्मृतो राशिस्ततो भूतानि जज्ञिरे।।

प्राणान्ददाति भूतानां तेजश्च भरतर्षभ।
गृहमभ्यागतायाथ यो दद्यादन्नमर्थिने।।

भीष्म उवाच।

नारदेनैवमुक्तोऽहमन्नदानं सदा नृप।
अनसूयुस्त्वमप्यन्नं तस्माद्देहि गतज्वरः।।

दत्त्वाऽन्नं विधिवद्राजन्विप्रेभ्यस्त्वमपि प्रभो।
यथावदनुरूपेभ्यस्ततः स्वर्गमवाप्स्यसि।।

अन्नदानां हि ये लोकास्तांस्त्वं शृणु जनाधिप।
भवनानि प्रकाशन्ते दिवि तेषां महात्मनाम्।।

नानासंस्थानि रूपाणि नानास्तम्भान्वितानि च।
चन्द्रमण्डलशुभ्राणि किंकिणीजालवन्ति च।।

तरुणादित्यवर्णानि स्थावराणि चराणि च।
अनेकशतभौमानि सान्तर्जलचराणि च।।

वैदूर्यार्कप्रकाशानि रौप्यरुक्ममयानि च।
सर्वकामफलाश्चापि वृक्षा भवनसंस्थिताः।।

वाप्यो वीथ्यः सभाः कूपा दीर्घिकाश्चैव सर्वशः।
घोषवन्ति च यानानि युक्तान्यथ सहस्रशः।।

भक्ष्यभोज्यमयाः शैला वासांस्याभरणानि च।
क्षीरं स्रवन्ति सरितस्तथा चैवान्नपर्वताः।।

प्रासादाः पाण्डुराभ्राभाः शय्याश्च कनकोञ्ज्वलाः।
तान्यन्नदाः प्रपद्यन्ते तस्मादन्नप्रदो भव।।

एते लोकाः पुण्यकृता अन्नदानां महात्मनाम्।
तस्मादन्नं प्रयत्नेन दातव्यं मानवैर्भुवि।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि अष्टनवतितमोऽध्यायः।। 98 ।।