अनुशासनपर्व
अध्यायः १००
भीष्म उवाच।
सर्वान्कामान्प्रयच्छन्ति ये प्रयच्छन्ति काञ्चनम्।
इत्येवं भगवानत्रिः पितामहसुतोऽब्रवीत्।।
पवित्रं शुच्यथायुष्यं पितृणामक्ष्यं च तत्।
सुवर्णं मनुजेन्द्रेण हरिश्चन्द्रेण कीर्तितम्।।
पानीयपरमं दानं दानानां मनुरब्रवीत्।
तस्मात्कूपांश्च वापीश्च तटाकानि च स्वानयेत्।।
सर्वं विनाशयेत्पापं पुरुषस्येह कर्मणः।
कूपः प्रवृत्तपानीयः सुप्रवृत्तश्च नित्यशः।।
सर्वं तारयते वंशं यस्य खाते जलाशये।
गावः पिबन्ति विप्राश्च साधवश्च नराः सदा।।
निदाघकाले पानीयं यस्य तिष्ठत्यवारितम्।
स दुर्गं विषमं कृत्स्नं न कदाचिदवाप्नुते।।
बृहस्पतेर्भगवतः पूष्णश्चैव भगस्य च।
अश्विनोश्चैव वह्नेश्च प्रीतिर्भवति सर्पिषा।।
परमं भेषजं ह्येतद्यज्ञानामेतदुत्तमम्।
रसानामुत्तमं चैतत्फलानां चैतदुत्तमम्।।
फलकामो यशस्कामः पुष्टिकामश्च नित्यदा।
घृतं दद्याद्द्विजातिभ्यः पुरुषः शुचिरात्मवान्।।
घृतं मासे आश्वयुजि विप्रभ्यो यः प्रयच्छति।
तस्मै प्रयच्छतो रूपं प्रीतौ देवाविहाश्विनौ।।
पायसं सर्पिषा मिश्रं द्विजेभ्यो यः प्रयच्छति।
गृहं तस्य न रक्षांसि धर्षयन्ति कदाचन।।
पिपासया न म्रियते सोपच्छन्दश्च जायते।
न प्राप्नुयाच्च व्यसनं करकान्यः प्रयच्छति।।
प्रयतो ब्राह्मणाग्रे यः श्रद्धया परया युतः।
उपस्पर्शनषड्भागं लभते पुरुषः सदा।।
यः साधनार्थं काष्ठानि ब्राह्मणेभ्यः प्रयच्छति।
प्रतापनार्थं राजेन्द्र वृत्तवद्भ्यः सदा नरः।।
सिद्ध्यन्त्यर्थाः सदा तस्य कार्याणि विविधानि च।
उपर्युपरि शत्रूणां वपुषा दीप्यते च सः।।
भगवांश्चापि सम्प्रतो वह्निर्भवति नित्यशः।
न तं त्यजन्ति पशवः सङ्ग्रामे च जयत्यपि।।
पुत्राञ्श्रियं च लभते यश्छत्रं सम्प्रच्छति।
न चक्षुर्व्याधिं लभते यज्ञभागमथाश्नुते।।
निदाघकाले वर्षे वा यश्छत्रं सम्प्रयच्छति।
नास्य कश्चिन्मनोदाहः कदाचिदपि जायते।
कृच्छ्रात्स विषमाच्चैव क्षिप्रं मोक्षमवाप्नुते।।
प्रदानं सर्वदानानां शकटस्य विशाम्पते।
एवमाह महाभागः शाण्डिल्यो भगवानृषिः।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि शततमोऽध्यायः।। 100 ।।