अनुशासनपर्व
अध्यायः ९७
युधिष्ठिर उवाच।
इदं देयमिदं देयमितीयं श्रुतिचोदनात्।
बहुदेयाश्च राजानः किंस्विद्देयमनुत्तमम्।।
भीष्म उवाच।
अति दानानि सर्वाणि पृथिवीदानमुच्यते।
अचला ह्यक्षया भूमिर्दोग्ध्री कामानिहोत्तमान्।।
दोग्ध्री वासांसि रत्नानि पशून्व्रीहियवांस्तथा।
भूमिदः सर्वभूतेषु शाश्वतीरेधते समाः।।
यावद्भूमेरायुरिह तावद्भूमिद एधते।
न भूमिदानादस्तीह परं किञ्चिद्युधिष्ठिर।।
अप्यल्पं प्रददुः सर्वे पृथिव्या इति नः श्रुतम्।
भूमिमेव ददुः सर्वे भूमिं ते भुञ्जते जनाः।।
स्वकर्मैवोपजीवन्ति नरा इह परत्र च।
भूमिः पतिं महादेवी दातारं कुरुते प्रियम्।।
य एतां दक्षिणां दद्यादक्षयां राजसत्तम।
पुनर्नरत्वं सम्प्राप्य भवेत्स पृथिवीपतिः।।
यथा दानं तथा भोग इति धर्मेषु निश्चयः।
सङ्ग्रामे वा तनुं जह्याद्दद्याच्च पृथिवीमिमांम्।।
इत्येतत्क्षत्रबन्धूनां वदन्ति परमाशिषः।
पुनाति दत्ता पृथिवी दातारमिति शुश्रुम।।
अपि पापसमाचारं ब्रह्मघ्नमपि चानृतम्।
सैव पापं प्लावयति सैव पापात्प्रमोचयेत्।।
अपि पापकृतां राज्ञां प्रतिगृह्णन्ति साधवः।
पृथिवीं नान्यदिच्छन्ति पावनं जगती यतः।।
नामास्याः प्रियदत्तेति गुह्यं देव्याः सनातनम्।
दानं वाऽप्यथवाऽदानं नामास्याः प्रथमप्रियम्।।
य एतां विदुषे दद्यात्पृथिवीं पृथिवीपतिः।
पृथिव्यामेतदिष्टं स राजा राज्यमितो व्रजेत्।।
पुनश्चासौ जनिं प्राप्य राजवत्स्यान्न संशयः।
तस्मात्प्राप्यैव पृथिवीं दद्याद्विप्राय पार्थिवः।।
नाभूमिपतिना भूमिरधिष्ठेया कथञ्चन।
न च वस्त्रेणि वा गूहेदन्तर्धानेन वा चरेत्।।
ये चान्ये भूमिमिच्छेयुः कुर्युरेवं न संशयः।
यः साधोर्भूमिमादत्ते न भूमिं विन्दते तु सः।।
भूमिं दत्त्वा तु साधुभ्यो विन्दते भूमिमुत्तमाम्।
प्रेत्य चेह च धर्मात्मा सम्प्राप्नोति महद्यशः।।
`एकाहारकरीं दत्त्वा षष्ठिसाहस्रमूर्ध्वगः।
तावत्या हरणे पृथ्व्या नरकं द्विगुणोत्तरम्।।'
यस्य विप्रास्तु शंसन्ति साधोर्भूमिं सदैव हि।
न तस्य शत्रवो राजन्प्रशंसन्ति वसुन्धराम्।।
यत्किञ्चित्पुरुषः पापं कुरुते वृत्तिकर्शितः।
अपि गोचर्ममात्रेण भूमिदानेन पूयते।।
येऽपि सङ्गीर्णाकर्माणो राजानो रौद्रकर्मिणः।
तेभ्यः पवित्रमाख्येयं भूमिदानमनुत्तमम्।।
अल्पान्तरमिदं शश्वत्पुराणा मेनिरे जनाः।
यो यजेताश्वमेधेन दद्याद्वा साधवे महीम्।।
अपि चेत्सुकृतं कृत्वा शङ्केरन्नपि पण्डिताः।
अशंक्यमेकमेवैतद्भूमिदानमनुत्तमम्।।
सुवर्णं रजतं वस्त्रं मणिमुक्तावसूनि च।
सर्वमेतन्महाप्राज्ञो ददाति वसुधां ददत्।।
तपो यज्ञः श्रुतं शीलमलोभः सत्यसन्धता।
गुरुदैवतपूजा च एता वर्तन्ति भूमिदम्।।
भर्तुनिःश्रेयसे युक्तास्त्यक्तात्मानो रणे हताः।
ब्रह्मलोकगताः सिद्धा नातिक्रामन्ति भूमिदम्।।
यथा जनित्री स्वं पुत्रं क्षीरेण भरते सदा।
अनुगृह्णाति दातारं तथा सर्वरसैर्मही।।
मृत्युर्वैकिंकरो दण्डस्तापो वह्नेः सुदारुणः।
घोराश्च वारुणाः पाशा नोपसर्पन्ति भूमिदम्।।
पितॄंश्च पितृलोकस्थान्देवलोके च देवताः।
सन्तर्पयति शान्तात्मा यो ददाति वसुन्धराम्।।
कृशाय म्रियमाणाय वृत्तिग्लानाय सीदते।
भूमिं वृत्तिकरीं दत्त्वा सत्री भवति मानवः।।
यथा धावति गौर्वत्सं स्रवन्ती वत्सला पयः।
एवमेव महाभाग भूमिर्भरति भूमिदम्।।
हलकृष्टां महीं दत्त्वा सबीजां सफलामपि।
सोदकं वाऽपि शरणं तथा भवति कामदः।।
ब्राह्मणं वृत्तसम्पन्नमाहिताग्निं शुचिव्रतम्।
नरः प्रतिग्राह्य महीं न याति यमसादनम्।।
यथा चन्द्रमसो वृद्धिरहन्यहनि जायते।
तथा भूमिकृतं दानं सस्येसस्ये विवर्धते।।
अत्र गाथा भूमिगीताः कीर्तयन्ति पुराविदः।
याः श्रुत्वा जामदग्न्येन दत्ता भूः काश्यपाय वै।।
मामेवादत्त मां दत्त मां दत्त्वा मामवाप्स्यथ।
अस्मिँल्लोके परे चैव तद्दत्तं जायते पुनः।।
य इमां व्याहृतिं वेद ब्राह्मणो वेदसम्मिताम्।
श्राद्धस्य हूयमानस्य ब्रह्मभूयं स गच्छति।।
कृत्यानामभिशप्तानामरिष्टशमनं महत्।
प्रायश्चित्तं महीं दत्त्वा पुनात्युभयतो दश।।
पुनाति य इदं वेद वेदवादं तथैव च।
प्रकृतिः सर्वभूतानां भूमिर्वै शाश्वती मता।।
अभिषिच्यैव नृपतिं श्रावयेदिममागमम्।
यथा श्रुत्वा महीं दद्यान्नादद्यात्साधुतश्च तां।।
सोऽयं कृत्स्नो ब्राह्मणार्थो राजार्थश्चाप्यसंशयः।
राजा हि धर्मकुशलः प्रथमं भूतिलक्षणम्।।
अथ येषामधर्मज्ञो राजा भवति नास्तिकः।
न ते सुखं प्रबुध्यन्ति न सुखं प्रस्वपन्ति च।।
सदा भवन्ति चोद्विग्नास्तस्य दुश्चरितैर्नराः।
योगक्षेमा हि बहवो राष्ट्रं नास्याविशन्ति तत्।।
अथ येषां पुनः प्राज्ञो राजा भवति धार्मिकः।
सुखं ते प्रतिबुध्यन्ते सुसुखं प्रस्वपन्ति च।।
तस्य राज्ञः शुभे राज्ये कर्मभिर्निर्वृता नराः।
योगक्षेमेण वृष्ट्या च विवर्धन्ते स्वकर्मभिः।।
स कुलीनः स पुरुषः स बन्धुः स च पुण्यकृत्।
स दाता स च विक्रान्तो यो ददाति वसुन्धरां।।
आदित्या इव दीप्यन्ते तेजसा भुवि मानवाः।
ददन्ति वसुधां स्फीतां ये वेदविदुषि द्विजे।।
यथा सस्यानि रोहन्ति प्रकीर्णानि महीतले।
तथा कामाः प्ररोहन्ति भूमिदानसमार्जिताः।।
आदित्यो वरुणो विष्णुर्ब्रह्मा सोमो हुताशनः।
शूलिपाणिश्च भगवान्प्रतिनन्दन्ति भूमिदम्।।
भूमौ जायन्ति पुरुषा भूमौ निष्ठां व्रजन्ति च।
चतुर्विधो हि लोकोऽयं योऽयं भूमिगुणात्मकः।।
एषा माता पिता चैव जगतः पृथिवीपते।
नानया सदृशं भूतं किञ्चिदस्ति जनाधिप।।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
बृहस्पतेश्च संवादमिन्द्रस्य च युधिष्ठिर।।
इष्ट्वा क्रतुशतेनाथ महता दक्षिणावता।
मघवा वाग्विदांश्रेष्ठं पप्रच्छेदं बृहस्पतिम्।।
भगवन्केन दानेन स्वर्गतः सुखमेधते।
यदक्षयमहार्यं च तद्ब्रूहि वदतांवर।।
भीष्म उवाच।
इत्युक्तृः स सुरेन्द्रेण ततो देवपुलोहितः।
बृहस्पतिर्बृहत्तेजाः प्रत्युवाच शतक्रतुम्।।
सुवर्णदानं गोदानं भूमिदानं च वृत्रहन्।
`विद्यादानं च कन्यानां दानं पापहरं परम्।'
दददेतान्महाप्राज्ञः सर्वपापैः प्रमुच्यते।।
न भूमिदानाद्देवेन्द्र परं किञ्चिदिति प्रभो।
विशिष्टमिति मन्येऽहं यता प्राहुर्मनीषिणः।।
`ब्राह्मणार्थे गवार्थे वा राष्ट्रघातेऽथ स्वामिनः।
कुलस्त्रीणां परिभवे मृतास्ते भूमिपैः समाः'।।
ये शूरा निहता युद्धे स्वर्याता रणगृद्धिनः।
सर्वे ते विबुधश्रेष्ठ नातिक्रामन्ति भूमिदम्।।
भर्तुर्निःश्रेयसे युक्तास्त्यक्तात्मानो रणे हताः।
ब्राह्मलोकगता युक्ता नातिक्रामन्ति भूमिदम्।।
पञ्च पूर्वा हि पुरुषाः षडन्ये वसुधां गताः।
एकादश ददद्भूमिं परित्रातीह मानवः।।
रत्नोपकीर्णां वसुधां यो ददाति पुरंदर।
स मुक्तः सर्वकलुषैः स्वर्गलोके महीयते।।
महीं स्फीतां ददद्राजन्सर्वकामगुणान्विताम्।
राजाधिराजो भवति तद्धि दानमनुत्तमम्।।
सर्वकामसमायुक्तां काश्यपीं यः प्रयच्छति।
सर्वभूतानि मन्यन्ते मां ददातीति वासव।।
सर्वकामदुघां धेनुं सर्वकामगुणान्विताम्।
ददाति यः सहस्राक्ष स्वर्गं याति स मानवः।।
मधुसर्पिःप्रवाहिण्यः पयोदधिवहास्तथा।
सरितस्तपर्यन्तीह सुरेन्द्र वसुधाप्रदम्।।
भूमिप्रदानान्नृपतिर्मुच्यते सर्वकिल्बिषात्।
न हि भूमिप्रदानेन दानमन्यद्विशिष्यते।।
ददाति यः समुन्द्रान्तां पृथिवीं शस्त्रनिर्जिताम्।
तं जनाः कथयन्तीह यावद्धरति गौरियम्।।
पुण्यामृद्धिरसां भूमिं यो ददाति पुरंदर।
न तस्य लोकाः क्षीयन्ते भूमिदानगुणान्विताः।।
सर्वदा पार्थिवेनेह सततं भूतिमिच्छता।
भूर्देया विधिवच्छक्र पात्रे सुखमभीप्सुनां।।
अपि कृत्वा नरः पापं भूमिं दत्त्वा द्विजातये।
समुत्सृजति तत्पापं जीर्णां त्वचमिवोरगः।।
सागरान्सरितः शैलान्काननानि च सर्वशः।
सर्वमेतन्नरः शक्र ददाति वसुधां ददत्।।
तटाकान्युदपानानि स्रोतांसि च सरांसि च।
स्नेहान्सर्वरसांश्चैव ददाति वसुधां ददत्।।
ओषधीर्वीर्यसम्पन्नानगान्पुष्पफलान्वितान्।
काननोपलशैलांश्च ददाति वसुधां ददत्।।
अग्निष्टोमप्रभृतिभिरिष्ट्वा च स्वाप्तदक्षिणैः।
न तत्फलमवाप्नोति भूमिदानाद्यदश्नुते।।
दाता दशानुगृह्णाति दश हन्ति तथा क्षिपन्।
पूर्वदत्तां हरन्भूमिं नरकायोपगच्छति।।
न ददाति प्रतिश्रुत्य दत्त्वाऽपि च हरेत्तु यः।
स बद्धो वारुणैः पाशैस्तप्यते मृत्युसासनात्।।
आहिताग्निं सदायज्ञं कृशवृत्तिं प्रियातिथिम्।
ये भरन्ति द्विजश्रेष्ठं नोपसर्पन्ति ते यमम्।।
ब्राह्मणेष्वनृणीभूतः पार्थिवः स्यात्पुरंदर।
इतरेषां तु वर्णानां तारयेत्कृशदुर्बलान्।।
नाच्छिन्द्यात्स्पर्शितां भूमिं परेण त्रिदशाधिप।
ब्राह्मणस्य सुरश्रेष्ठ कृशवृत्तेः कदाचन।।
यथाश्रु पतितं तेषां दीनानामथ सीदताम्।
ब्राह्मणानां हृते क्षेत्रे हन्यात्त्रिपुरुषं कुलम्।।
भूमिपालं च्युतं राष्ट्राद्यस्तु संस्थापयेत्पुनः।
तस्य वासः सहस्राक्ष नाकपृष्ठे महीयते।।
`सुनिर्मितां सुविक्रीतां सुभृतां स्थापयेन्नृप।'
इक्षुभिः सन्ततां भूमिं यवगोधूमसालिनीम्।।
गोश्ववाहनपूर्णां वा यो ददाति वसुन्धराम्।
विमुक्तः सर्वपापेभ्यः स्वर्गलोके महीयते।।'
निधिगर्भां ददद्भूमिं सर्वरत्नपरिच्छदाम्।
अक्षयाँल्लभते लोकान्भूमिसत्रं हि तस्य तत।।
विधूय कलुषं सर्वं विरजाः सम्मतः सताम्।
लोके महीयते सद्भिर्यो ददाति वसुन्धराम्।।
यथाऽप्सु पतितः शक्र तैलबिन्दुर्विसर्पति।
तथा भूमिकृतं दानं सस्येसस्ये विवर्धते।।
ये रणाग्रे महीपालाः शूराः समितिशोभनाः।
वध्यन्तेऽभिमुखाः शक्र ब्रह्मलोकं व्रजन्ति ते।।
नृत्तगीतपरा नार्यो दिव्यमाल्यविभूषिताः।
उपतिष्ठन्ति देवेन्द्र यथा भूमिप्रदं दिवि।।
मोदते च सुखं स्वर्गे देवगन्धर्वपूजितः।
यो ददाति महीं सम्यग्विधिनेह द्विजातये।।
शतमप्सरसश्चैव दिव्यमाल्यविभूषिताः।
उपतिष्ठन्ति देवेन्द्र ब्रह्मलोके धराप्रदम्।।
उपतिष्ठन्ति पुण्यानि सदा भूमिप्रदं नरम्।
शङ्खं भद्रासनं छत्रं वराश्वा वरवाहनम्।।
भूमिप्रदानात्पुष्पाणि हिरण्यनिचयास्तथा।
आज्ञा सदाऽप्रतिहता जयशब्दा वसूनि च।।
भूमिदानस्य पुण्यानि फलं स्वर्गः पुरन्दर।
हिरण्यपुष्पाश्चौषध्यः कुशकाञ्चनशाद्वलाः।।
अमृतप्रसवां भूमिं प्राप्नोति पुरुषो ददत्।।
नास्ति भूमिसमं दानं नास्ति मातृसमो गुरुः।
नास्ति सत्यसमो धर्मो नास्ति दानसमो निधिः।।
भीष्म उवाच।
एतदाङ्गिरसाच्छ्रुत्वा वासवो वसुधामिमाम्।
वसुरत्नसमाकीर्णां ददावाङ्गिरसे तदा।।
य इदं श्रावयेच्छ्राद्धे भूमिदानस्य संस्तवम्।
न तस्य रक्षसां भागो नासुराणां भवत्युत।।
अक्षयं च भवेद्दत्तं पितृभ्यस्तन्न संशयः।
तस्माच्छ्राद्धेष्विदं विद्वान्भुञ्जतः श्रावयेद्द्विजान्।।
इत्येतत्सर्वदानानां श्रेष्ठमुक्तं तवानघ।
मया भरतशार्दूल किं भूयः श्रोतुमिच्छसि।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि सप्तनवतितमोऽध्यायः।। 97 ।।