अनुशासनपर्व

अध्यायः ९६

Anusasana Parva (Sanskrit) · Adhyaya 96
अक्षर का आकार

युधिष्ठर उवाच।

दानं यज्ञः क्रिया चेह किंस्वित्प्रेत्य महाफलम्।
कस्य ज्यायः फलं प्रोक्तं कीदृशेभ्यः कथं कदा।।

एतदिच्छामि विज्ञातुं याथातथ्येनि भारत।
विद्वञ्जिज्ञासमानाय दानधर्मान्प्रचक्ष्व मे।।

अन्तर्वेद्यां च यद्दत्तं श्रद्धया चानृशंस्यतः।
किंस्विन्नैःश्रेयसं तात तन्मे ब्रूहि पितामह।।

भीष्म उवाच।

रौद्रं कर्म क्षत्रियस्य सततं तात वर्तते।
नास्य वैतानिकफलं विना दानं सुपावनम्।।

न तु पापकृतां राज्ञां याजका द्विजसत्तमाः।।
धने सत्यप्रदातॄणां प्रतिगृह्णन्ति साधवः।।

प्रतिगृह्णन्ति न तु चेद्यद्रोषादाप्तदक्षिणैः।
एतस्मात्कारणाद्यज्ञैर्यजेद्राजाऽऽप्तदक्षिणैः।।

अथ चेत्प्रतिगृह्णीयुर्दद्यादहरहर्नृपः।
श्रद्धामास्थाय परमां पावनं ह्येतुदुत्तमम्।।

ब्राह्मणांस्तर्पयन्द्रव्यैः स वै यज्ञोऽनुपद्रवः।
मैत्रान्साधून्वेदविदः शीलवृत्ततपोर्जितान्।।

यत्ते ते न करिष्यन्ति कृतं ते न भविष्यति।
यज्ञान्साधय साधुभ्यः स्वाद्वन्नान्दक्षिणावतः।।

इष्टं दत्तं च मन्येथा आत्मानं दानकर्मणा।
पूजयेथा यायजूकांस्तवाप्यंशो भवेद्यथा।।

`विद्वद्भ्यः सम्प्रदानेन तत्राप्यंशोऽस्य पूजया।
यज्वभ्यश्चाथ विद्वद्भ्यो दत्त्वा लोकं प्रदापयेत्।
प्रदद्याज्ज्ञानदातॄणां ज्ञानदानांशभाग्यभवेत्।।'

प्रजावतो भरेथाश्च ब्राह्मणान्बहुभारिणः।
प्रजावांस्तेन भवति यथा जनयिता तथा।।

यावतः साधुधर्मान्वै सन्तः संवर्धयन्त्युत।
सर्वस्वैश्चापि भर्तव्या नरा ये बहुकारिणः।।

समृद्धः सम्प्रयच्छ त्वं ब्राह्म्णेभ्यो युधिष्ठिर।
धेनूरनडुहोऽन्नानि च्छत्रं वासांस्युपानहौ।।

आज्यानि यजमानेभ्यस्तथाऽन्नानि च भारत।
अश्ववन्ति च यानानि वेश्मानि शयनानि च।।

एते देयाः पुष्टिमद्भिर्लघूपायाश्च भारत।
अजुगुप्सांश्च विज्ञाय ब्राह्मणान्वृत्तिकर्शितान्।।

उपच्छन्नं प्रकाशं वा वृत्त्या तान्प्रतिपालय।
राजसूयाश्वमेधाभ्यां श्रेयस्तत्क्षत्रियान्प्रति।।

एवं पापैर्विनिर्मुक्तस्त्वं पूतः स्वर्गमाप्स्यसि।
सञ्चयित्वा पुनः कोशं यद्राष्ट्रं पालयिष्यसि।।

तेन त्वं ब्रह्मभूयत्वमवाप्स्यसि धनानि च।
आत्मनश्च परेषां च वृत्तिं संरक्ष भारत।।

पुत्रवच्चापि भृत्यान्स्वान्प्रजाश्च परिपालय।
[योगः क्षेमश्च ते नित्यं ब्राह्मणेष्वस्तु भारत।।

तदर्थं जीवितं तेऽस्तु मा तेभ्योऽप्रतिपालनम्।
अनर्थो ब्राह्मणस्यैष यद्वित्तनिचयो महान्।।

क्षिया ह्यभीक्ष्णं संवासो दर्पयेत्सम्प्रमोहयेत्।
ब्राह्मणेषु प्रमूढेषु धर्मो विप्रणशेद्धुवम्।
धर्मप्रणाशे भूतानामभावः स्यान्न संशयः।।

यो रक्षिभ्यः सम्प्रदाय राजा राष्ट्रं विलुम्पति।
यज्ञे राष्ट्राद्धनं तस्मादानयध्वमिति ब्रुवन्।।

यच्चादाय तदाज्ञप्तं भीतं दत्तं सुदारुणम्।
यजेद्राजा न तं यज्ञं प्रशंसन्त्यस्य साधवः।।

अपीडिताः सुसंवृद्धा ये ददत्यनुकूलतः।
तादृशेनाप्युपायेन यष्टव्यं नोद्यमाहृतैः।।

यदा परिनिषिच्येत निहितो वै यथाविधि।
तदा राजा महायज्ञैर्यजेत बहुदक्षिणैः।।

वृद्धबालधनं रक्ष्यमन्धस्य कृपणस्य च।
न खातपूर्वं कुर्वीत न रुदन्तीधनं हरेत्।।

हृतं कृपणवित्तं हि राष्ट्रं हन्ति नृप श्रियम्।
दद्याच्च महतो भोगान्क्षुद्भयं प्रणुदेत्सताम्।।

येषां स्वादूनि भोज्यानि समवेक्ष्यन्ति बालकाः।
नाश्नन्ति विधिवत्तानि किन्नु पापतरं ततः।।

यदि ते तादृशो राष्ट्रे विद्वान्त्सीदेत्क्षुधा द्विजः।
भ्रूणहत्यां च गच्छेथाः कृत्वा पापमिवोत्तमम्।।

धिक्तस्य जीवितं राज्ञो राष्ट्रे यस्यावसीदति।
द्विजोऽन्यो वा मनुष्योपि शिबिराह वचो यथा।।

यस्य स्म विषये राज्ञः स्नातकः सीदति क्षुधा।
अवृद्धिमेति तद्राष्ट्रं विन्दते सह राजकम्।।

क्रोशन्त्यो यस्य वै राष्ट्राद्ध्रियन्ते तरसा स्त्रियः।
क्रोशतां पतिपुत्राणां मृतोऽसौ न च जीवति]।।

अरक्षितारं हर्तारं विलोप्तारमनायकम्।
तं वै राजकलिं हन्युः प्रजाः सन्नह्य निर्घृणं।।

अहं वो रक्षितेत्युक्त्वा यो न रक्षति भूमिपः।
स संहत्य निहन्तव्यः श्वेव सोन्माद आतुरः।।

पापं कुर्वन्ति यत्किञ्चित्प्रजा राज्ञा ह्यरक्षिताः।
चतुर्थं तस्य पापस्य राजा विन्दति भारत।।

अथाहुः सर्वमेवैति भूयोऽर्धमिति निश्चयः।
चतुर्थं मतमस्माकं मनोः श्रुत्वानुशासनम्।।

शुभं वा यच्च कुर्वन्ति प्रजा राज्ञा सुरक्षिताः।
चतुर्थं तस्य पुण्यस्य राजा चाप्नोति भारत।।

जीवन्तं त्वानुजीवन्तु प्रजाः सर्वा युधिष्ठिर।
पर्जन्यमिव भूतानि महाद्रुममिवाण्डजाः।।

कुबेरमिव रक्षांसि शतक्रतुमिवामराः।
ज्ञातयस्त्वाऽनुजीवन्तु सुहृदश्च परन्तप।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि षण्णवतितमोऽध्यायः।। 96 ।।