अनुशासनपर्व
अध्यायः ९३
युधिष्ठिर उवाच।
आरामाणां तटाकानां यत्फलं कुरुपुङ्गव।
तदहं श्रोतुमिच्छामि त्वत्तोऽद्य भरतर्षभ।।
भीष्म उवाच।
सुप्रदर्शा बलवती चित्रा धातुविभूषिता।
उपेता सर्वभूतैश्च श्रेष्ठा भूमिरिहोच्यते।।
तस्याः क्षेत्रविशेषाश्च तटाकानां च बन्धनम्।
औदकानि च सर्वाणि प्रवक्ष्याम्यनुपूर्वशः।।
तटाकानां च वक्ष्यामि कृतानां चापि ये गुणाः।
त्रिषु लोकेषु सर्वत्र पूजनीयस्तटाकवान्।।
अथवा मित्रसदनं मैत्रं मित्रविवर्धनम्।
कीर्तिसंजननं श्रेष्ठं तटाकानां निवेशनम्।।
धर्मस्यार्थस्य कामस्य फलमाहुर्मनीषिणः।
तटाकसुकृतं देशे क्षेत्रमेकं महाश्रयम्।।
चतुर्विधानां भूतानां तटाकमुपलक्षयेत्।
तटाकानि च सर्वाणि दिशन्ति श्रियमुत्तमाम्।।
देवा मनुष्यगन्धर्वाः पितरोरगराक्षसाः।
स्थावराणि च भूतानि संश्रयन्ति जलाशयम्।।
तस्मात्तांस्ते प्रवक्ष्यामि तटाके ये गुणाः स्मृताः।
या च तत्र फलावाप्तिर्ऋषिभिः समुदाहृताः।।
वर्षाकाले तटाके तु सलिलं यस्य तिष्ठति।
अग्निहोत्रफलं तस्य फलमाहुर्मनीषिणः।।
शरत्काले तु सलिलं तटाके यस्य तिष्ठति।
गोसहस्रस्य स प्रेत्य लभते फलमुत्तमम्।।
हेमन्तकाले सलिलं तटाके यस्य तिष्ठति।
स वै बहुसुवर्णस्य यज्ञस्य लभते फलम्।।
यस्य वै शैशिरे काले तटाके सलिलं भवेत्।
तस्याग्निष्टोमयज्ञस्य फलमाहुर्मनीषिणः।।
तटाकं सुकृतं यस्य वसन्ते तु महाश्रयम्।
अतिरात्रस्य यज्ञस्य फलं स समुपाश्नुते।।
निदाघकाले पानीयं तटाके यस्य तिष्ठति।
वाजिमेधफलं तस्य फलं वै मुनयो विदुः।।
स कुलं तारयेत्सर्वं यस्य खाते जलाशये।
गावः पिबन्ति सलिलं साधवश्च नराः सदा।।
तटाके यस्य गावस्तु पिबन्ति तृषिता जलम्।
मृगपक्षिमनुष्याश्च सोऽश्वमेधफलं लभेत।।
यत्पिबन्ति जलं तत्र स्नायन्ते विश्रमन्ति च।
तटाके यस्य तत्सर्वं प्रेत्यानन्त्याय कल्पते।।
दुर्लभं सलिलं तात विशेषेण परत्र वै।
पानीयस्य प्रदानेन प्रीतिर्भवति शाश्वती।।
तिलान्ददत पानीयं दीपान्ददत जागृत।
ज्ञातिभिः सह मोदध्वमेतत्प्रेत्य सुदुर्लभम्।।
सर्वदानैर्गुरुतरं सर्वदानैर्विशिष्यते।
पानीयं नरशार्दूल तस्माद्दातव्यमेव हि।।
एवमेतत्तटाकस्य कीर्तितं फलमुत्तमम्।
अत ऊर्ध्वं प्रवक्ष्यामि वृक्षाणामवरोपणम्।।
स्थावराणां च भूतानां जातयः षट् प्रकीर्तिताः।
वृक्षगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः।।
एता जात्यस्तु वृक्षाणां तेषां रोपे गुणास्त्विमे।
कीर्तिश्च मानुषे लोके प्रेत्य चैव फलं शुभम्।।
लभते नाम लोके च पितृभिश्च महीयते।
देवलोके गतस्यापि नाम तस्य न नश्यति।।
अतीतानागते चोभे पितृवंशं च भारत।
तारयेद्वृक्षरोपी च तस्माद्वृक्षांश्च रोपयेत्।।
तस्य पुत्रा भवन्त्येते पादपा नात्र संशयः।
परलोकगतः स्वर्गं लोकांश्चाप्नोति सोऽव्ययान्।।
पुष्णैः सुरगणान्वृक्षाः फलैश्चापि तथा पितॄन्।
धायया चातिथिं तात पूजयन्ति महीरुहः।।
किन्नरोरगरक्षांसि देवगन्धर्वमानवाः।
तथा ऋषिगणाश्चैव संश्रयन्ति महीरुहान्।।
पुष्पिताः फलवन्तश्च तर्पयन्तीह मानवान्।
वृक्षदं पुत्रवद्वृक्षास्तारयन्ति परत्र तु।।
तस्मात्तटाके सद्वृक्षा रोप्याः श्रेयोर्थिना सदा।
पुत्रवत्परिपाल्याश्च पुत्रास्ते धर्मतः स्मृताः।।
तटाककृद्वृक्षरोपी इष्टयज्ञश्च यो द्विजः।
एते स्वर्गे महीयन्ते ये चान्ये सत्यवादिनः।।
तस्मात्तटाकं कुर्वीत आरामांश्चैव रोपयेत्।
यजेच्च विविधैर्यज्ञैः सत्यं च सततं वदेत्।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि त्रिनवतितमोऽध्यायः।। 93 ।।