अनुशासनपर्व
अध्यायः ९४
युधिष्ठिर उवाच।
यानीमानि बहिर्वेद्यां दानानि परिचक्षते।
तेभ्यो विशिष्टं किं दानं मतं ते कुरुपुङ्गव।।
कौतूहलं हि परमं तत्र मे विद्यते प्रभो।
दातारं दत्तमन्वेति यद्दानं तत्प्रचक्ष्व मे।।
भीष्म उवाच।
अभयं सर्वभूतेभ्यो व्यसने चाप्यनुग्रहः।
यच्चाभिलषितं दद्यात्तृषितायाभियाचते।।
भरणे पुत्रदाराणां तद्दानं श्रेष्ठमुच्यते।
दत्तं दातारमन्वेति तद्दानं भरतर्षभ।।
हिरण्यदानं गोदानं पृथिवीदानमेव च।
एतानि वै पवित्राणि तारयन्त्यपि दुष्कृतात्।।
एतानि पुरुषव्याघ्र साधुभ्यो देहि नित्यदा।
दानानि हि नरं पापान्मोक्षयन्ति न संशयः।।
यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे।
तत्तद्गुणवते देयं तदेवाक्षयमिच्छता।।
प्रियाणि लभते नित्यं प्रियदः प्रियकृत्तथा।
प्रियो भवति भूतानामिह चैव परत्र च।।
याचमानमभीमानादनासक्तमकिञ्चनम्।
यो नार्चति यथाशक्ति स नृशंसो युधिष्ठिर।।
अमित्रमपि चेद्दीनं शरणैषिणमागतम्।
व्यसने योऽनुगृह्णाति स वै पुरुषसत्तमः।।
कृशाय कृतविद्याय वृत्तिक्षीणाय सीदते।
अपहन्यात्क्षुधां यस्तु न तेन पुरुषः समः।।
क्रियानियमितान्साधुन्पुत्रदारैश्च कर्शितान्।
अयाचमानान्कौन्तेय सर्वोपायैर्निमन्त्रयेत्।।
आशिषं ये न देवेषु न च मर्त्येषु कुर्वते।
अर्हन्तो नित्यसत्वस्था यथालब्धोपजीविनः।।
आशीविषसमेभ्यश्च तेभ्यो रक्षस्व भारत।
तान्युक्तैरुपजिज्ञास्य भोगैर्निर्वप रक्ष च।।
कृतैरावसथैर्नित्यं सप्रेष्यैः सपरिच्छदैः।
निमन्त्रयेथाः कौरव्य सर्वभूतसुखावहैः।।
यदि ते प्रतिगृह्णीयुः श्रद्धापूतं युधिष्ठिर।
कार्यमित्येव मन्वाना धार्मिकाः पुण्यकर्मिणः।।
विद्यास्नाता व्रतस्नाता धर्ममाश्रित्य जीविनः।
गूढस्वाध्यायतपसो ब्राह्म्णाः संशितव्रताः।।
तेषु शुद्धेषु दान्तेषु स्वदारनिरतेषु च।
यत्करिष्यसि कल्याणं तत्ते लोके युधाम्पते।।
यथाऽग्निहोत्रं सुहुतं सायम्प्रातर्द्विजातिना।
तथा भवति दत्तं वै विद्वद्भ्यो यत्कृतात्मना।।
एष ते विततो यज्ञः श्रद्धापूतः सदक्षिणः।
विशिष्टः सर्वयज्ञेभ्यो ददतस्तात वर्तताम्।।
निवापो दानसदृशः सदृशेषु युधिष्ठिर।
निवेदयन्पूजयन्वै तेष्वानृण्यं निगच्छति।।
य एवं नैव कुप्यन्ते न लुभ्यन्ति तृणेष्वपि।
त एव नः पूज्यतमा ये चापि प्रियवादिनः।।
ये नो न बहुमन्यन्ते न प्रवर्तन्ति याचने।
पुत्रवत्परिपाल्यास्ते नमस्तेभ्यस्तथाऽभयम्।।
ऋत्विक्पुरोहिताचार्या मृदुधर्मपरा हि ये।
क्षात्रेणापि हि संसृष्टं तेजः शाम्यति तेष्वपि।।
ईश्वरो बलवानस्मि राजाऽस्मीति युधिष्ठिर।
ब्राह्मणान्मास्म पर्यासीर्वासोभिरशनेन च।।
यच्छोभार्थं बलार्तं वा वित्तमस्ति तवानघ।
तेन ते ब्राह्मणाः पूज्याः स्वधर्ममनुतिष्ठता।।
नमस्कार्यास्तथा विप्रा वर्तमाना यथातथम्।
यथासुखं यथोत्साहं ललन्तु त्वयि पुत्रवत्।।
को ह्यक्षयप्रसादानां सुहृदामल्पतोषिणाम्।
वृत्तिमर्हत्युपक्षेप्तुं त्वदन्यः कुरुसत्तम।।
यथाऽपत्याश्रयो धर्मः स्त्रीणां लोके सनातनः।
सदैव सा गतिर्नान्या तथाऽस्माकं द्विजातयः।।
यदि नो ब्राह्मणास्तात संत्यजेयुरपूजिताः।
पश्यन्तो दारुणं कर्म सततं क्षत्रिये स्थितम्।।
अवेदानामकीर्तीनामलोकानामयज्विनाम्।
कोनु स्याज्जीवितेनार्थस्तद्धिनो ब्राह्मणाश्रयम्।।
अत्र ते वर्तयिष्यामि यथा धर्मं सनातनम्।
राजन्यो ब्राह्मणान्राजन्पुरा परिचचार ह।
वैश्यो राजन्यमित्येव शूद्रो वैश्यमिति श्रुतिः।।
दूराच्छूद्रेणोपचर्यो ब्राह्मणोऽग्निरिव ज्वलन्।
संस्पर्शपरिचर्यसल्तु वैश्येन क्षत्रियेण च।।
मृदुभावान्सत्यशीलान्सत्यधर्मानुपालकान्।
आशीविषानिव क्रुद्धांस्तानुपाचरत द्विजान्।।
अपरेषां परेषां च परेभ्यश्चापि ये परे।
क्षत्रियाणां प्रतपतां तेजसा च बलेन च।
ब्राह्मणेष्वेव शाम्यन्ति तेजांसि च तपांसि च।।
न मे पिता प्रियतरो न त्वं तात तथा प्रियः।
न मे पितुः पिता राजन्न चात्मा न च जीवितम्।।
त्वत्तश्च मे प्रियतरः पृथिव्यां नास्ति कश्चन।
त्वत्तोऽपि मे प्रियतरा ब्राह्मणा भरतर्षभ।।
ब्रवीमि सत्यमेतच्च यथाऽहं पाण्डुनन्दन।
तेन सत्येन गच्छेयं लोकान्यत्र स शान्तनुः।।
पश्येयं च सतां लोकाञ्छुचीन्ब्रह्मपुरस्कृतान्।
तत्र मे तात गन्तव्यमह्नाय च चिराय च।।
सोहमेतादृशान्लोकान्दृष्ट्वा भरतसत्तम।
यन्मे कृतं ब्राह्मणेषु न तप्ये तेन पार्थिव।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि चतुर्नवतितमोऽध्यायः।। 94 ।।