अनुशासनपर्व

अध्यायः ९२

Anusasana Parva (Sanskrit) · Adhyaya 92
अक्षर का आकार

युधिष्ठिर उवाच।

मुह्यामीति निशम्याद्य चिन्तयानः पुनःपुनः।
हीनां पार्थिवसिंहैस्तैः श्रीमद्भिः पृथिवीमिमाम्।।

प्राप्य राज्यानि शतशो महीं जित्वाऽपि भारत।
कोटिशः पुरुषान्हत्वा परितप्ये पितामह।।

का नु तासां वरस्त्रीणामवस्थाऽद्य भविष्यति।
या हीनाः पतिभिः पुत्रैर्मातुलैर्भ्रातृभिस्तथा।।

वयं हि तान्कुरुन्हत्वा ज्ञातींश्च सुहृदोऽपि च।
अवाक्शीर्षाः पतिष्यामो नरके नात्रं संशयः।।

शरीरं योक्तुमिच्छामि तपसोग्रेण भारत।
उपदिष्टमिहेच्छामि तत्त्वतोऽहं विशाम्पते।।

वैशम्पायन उवाच।

युधिष्ठिरस्य तद्वाक्यं श्रुत्वा भीष्मो महामनाः।
परीक्ष्य निपुणं बुद्ध्या युधिष्ठिरमभाषत।।

रहस्यमद्भुतं चैव शृणु वक्ष्यामि भारत।
या गतिः प्राप्यते वेन प्रेत्यभावे विशाम्पते।।

तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः।
आयुःप्रकर्षो भोगाश्च लभ्यन्ते तपसा विभो।।

ज्ञानं विज्ञानमारोग्यं रूपं सम्पत्तथैव च।
सौभाग्यं चैव तपसा प्राप्यते भरतर्षभ।।

धनं प्राप्नोति तपसा मौनं ज्ञानं प्रयच्छति।
उपभोगांस्तु दानेन ब्रह्मचर्येण जीवितम्।।

अहिंसायाः फलं रूपं दीक्षाया जन्म वै कुले।
फलमूलाशनाद्राज्यं स्वर्गः पर्णशनाद्भवेत्।।

पयोभक्षो दिवं याति दानेन द्रविणाधिकः।
गुरुशुश्रूषया विद्या नित्यश्राद्धेन सन्ततिः।।

गवाढ्यः शाकदीक्षाभिः स्वर्गमाहुस्तृणाशनात्।
स्त्रियस्त्रिषवण्सनानाद्वायुं पीत्वा क्रतुं लभेत्।।

नित्यस्नायी दीर्घजीवी सन्ध्ये तु द्वे जपन्द्विजः।
मन्त्रं साधयतो राजन्नाकपृष्ठमनाशने।।

स्थण्डिलेषु शयानानां गृहाणि शयनानि च।
चीरवल्कलवासोभिर्वासांस्याभाणानि च।।

शय्यासनानि यानानि योगयुक्ते तपोधने।
अग्निप्रवेशे नियतं ब्रह्मलोके महीयते।।

रसानां प्रतिसंहारात्सौभाग्यमिह विन्दति।
आमिषप्रतिसंहारात्प्रजा ह्यायुष्मती भवेत्।।

उदवासं वसेद्यस्तु स नराधिपतिर्भवेत्।
सत्यवादी नरश्रेष्ठ दैवतैः सह मोदते।।

कीर्तिर्भवति दानेन तथाऽऽरोग्यमहिंसया।
द्विजशुश्रूषया राज्यं द्विजत्वं चापि पुष्कलम्।।

पानीयस्य प्रदानेन कीर्तिर्भवति शाश्वती।
अन्नस्य तु प्रदानेन तृप्यन्ते कामभोगतः।।

सान्त्वदः सर्वभूतानां सर्वशोकैर्विमुच्यते।
देवशुश्रूषया राज्यं दिव्यं रूपं निगच्छति।।

दीपालोकप्रदानेन चक्षुष्मान्बुद्धिमान्भवेत्।
प्रेक्षणीयप्रदानेन स्मृतिं मेधां च विन्दति।।

गन्धमाल्यप्रदानेन कीर्तिर्भवति पुष्कला।
केशश्मश्रू धारंयतामग्र्या भवति सन्ततिः।।

उपवासं च दीक्षां च अभिषेकं च पार्थिव।
कृत्वा द्वादशवर्षाणि वीरस्थानाद्विशिष्यते।।

दासीदासमलङ्कारान्क्षेत्राणि च गृहाणि च।
ब्रह्मदेयां सुतां दत्त्वा प्राप्नोति मनुजर्षभ।।

क्रतुभिश्चोपवासैश्च त्रिदिवं याति भारत।
लभते च शिवं ज्ञानं फलपुष्पप्रदो नरः।।

सुवर्णशृङ्गैस्तु विराजितानां
गवां सहस्रस्य नरः प्रदानात्।
प्राप्नोति पुण्यं दिवि देवलोक-
मित्येवमाहुर्दिवि वेदसङ्घाः।।

प्रयच्छते यः कपिलां सवत्सां
कांस्योपदोहां कनकाग्रशृङ्गीम्।
तैस्तैर्गुणैः कामदुघाऽस्य भूत्वा
नरं प्रदातारमुपैति सा गौः।।

यावन्ति रोमाणि भवन्ति धेन्वा-
स्तावत्फलं प्राप्य स गोप्रदानात्।
पुत्रांश्च पौत्रांश्च कुलं च सर्व-
मासप्तमं तारयते परत्र।।

सदक्षिणां काञ्चनचारुशृङ्गीं
कांस्योपदोहां द्रविणोत्तरीयाम्।
धेनुं तिलानां ददतो द्विजाय
लोका वसूनां सुलभा भवन्ति।।

स्वकर्मभिर्मानवं संनिरुद्धं
तीव्रान्धकारे नरके पतन्तम्।
मंहार्णवे नौरिव वायुयुक्ता
दानं गवां तारयते परत्र।।

यो ब्रह्मदेयां तु ददाति कन्यां
भूमिप्रदानं च करोति विप्रे।
ददाति चान्नं विधिवच्च यश्च
स लोकमाप्नोति पुरंदरस्य।।

नैवेशिकं सर्वगुणोपपन्नं
ददाति वै यस्तु नरो द्विजाय।
स्वाध्यायचारित्र्यगुणान्विताय
तस्यापि लोकाः कुरुषूत्तरेषु।।

धुर्यप्रदानेन गवां तथा वै
लोकानवाप्नोति नरो वसूनाम्।
स्वर्गाय चाहुस्तु हिरण्यदानं
ततो विशिष्टं कनकप्रदानम्।।

छत्रप्रदानेन गृहं वरिष्ठं
यानं तथोपानहसम्प्रदाने।
वस्रप्रदानेन फलं सुरूपं
गन्धप्रदानात्सुरभिर्नरः स्यात्।।

पुष्पोपगं वाऽथ फलोपगं वा
यः पादपं स्पर्शयते द्विजाय।
सश्रीकमृद्धं बहुरत्नपूर्णं
लभत्ययत्नोपगतं गृहं वै।।

भक्ष्यान्नपानीयरसप्रदाता
सर्वान्समाप्नोति रसान्प्रकामम्।
प्रतिश्रयाच्छानसम्प्रदाता
प्राप्नोति तान्येव न संशयोऽत्र।।

स्रग्धूपगन्धाननुलेपनानि
स्नानानि माल्यानि च मानवो यः।
दद्याद्द्विजेभ्यः स भवेदरोग-
स्तथाऽभिरूपश्च नरेन्द्रलोके।।

बीजैरशून्यं शयनैरुपेतं
दद्याद्गृहं यः पुरुषो द्विजाय।
पुण्याभिरामं बहुरत्नपूर्णं
लभत्यधिष्ठानवरं स राजन्।।

सुगन्धचित्रास्तरणोपधानं
दद्यान्नरो यः शयनं द्विजाय।
रूपान्वितां पक्षवतीं मनोज्ञां
भार्यामयत्नोपगतां लभेत्सः।।

पितामहस्यानवरो वीरशायी भवेन्नरः।
नाधिकं विद्यते यस्मादित्याहुः परमर्षयः।।

वैशम्पायन उवाच।

तस्य तद्वचनं श्रुत्वा प्रीतात्मा कुरुनन्दनः।
नाश्रमेऽरोचयद्वासं वीरमार्गाभिकाङ्क्षया।।

ततो युधिष्ठिरः प्राह पाण्डवान्पुरुषर्षभ।
पितामहस्य यद्वाक्यं तद्वो रोचत्विति प्रभुः।।

ततस्तु पाण्डवाः सर्वे द्रौपदी च यशस्विनी।
युधिष्ठिरस्य तद्वाक्यं बाढमित्यभ्यपूजयन्।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि द्विनवतितमोऽध्यायः।। 92 ।।