अनुशासनपर्व

अध्यायः ९१

Anusasana Parva (Sanskrit) · Adhyaya 91
अक्षर का आकार

च्यवन उवाच।

अवश्यं कथनीयं मे तवैतन्नरपुङ्गव।
यदर्थं त्वाहमुच्छेत्तुं सम्प्राप्तो मनुजाधिप।।

भूगूणां क्षत्रिया याज्या नित्यमेतज्जनाधिप।
ते च भेदं गमिष्यन्ति दैवयुक्तेन हेतुना।।

क्षत्रियाश्च भृगून्सर्वान्वधिष्यन्ति नराधिप।
आगर्भादनुकृन्तन्तो दैतदण्डनिपीडिताः।।

तत उत्पत्स्यतेऽस्माकं कुले गोत्रविवर्धनः।
और्वो नाम महातेजा ज्वलितार्कसमद्युतिः।।

स त्रैलोक्यविनाशाय कोपाग्निं जनयिष्यति।
महीं सपर्वतवनां यः करिष्यति भस्मसात्।

कञ्चित्कालं तु वह्निं च स एव शमयिष्यति।
समुद्रे वडवावक्त्रे प्रक्षिप्य मुनिसत्तमः।

पुत्रं तस्य महाराज ऋचीकं भृगुनन्दनम्।
साक्षात्कृत्स्नो धनुर्वेदः समुपस्थास्यतेऽनघ।।

क्षत्रियाणामभावाय दैवयुक्तेनु हेतुना।
स तु तं प्रतिगृह्यैव पुत्रे संक्रामयिष्यति।।

जमदग्नौ महाभागे तपसा भावितात्मनि।
स चापि भृगुशार्दूलस्तं वेदं धारयिष्यति।।

कुलात्तु तव धर्मात्मन्कन्यां सोऽधिगमिष्यति।
उद्भावनार्थं भवतो वंशस्य भरतर्षभ।।

`क्षत्रहन्ता भवेद्धिंस्र इति दैवं सनातनम्।
नारायणमुपास्यास्य वरात्तं पुत्रमृच्छति।।'

गाधेर्दुहितरं प्राप्यि पौत्रीं तव महातपाः।
ब्राह्मणं क्षत्रधर्माणं पुत्रमुत्पादयिष्यति।।

क्षत्रियं विप्रधर्माणं बृहस्पतिमिवौजसा।
विश्वामित्रं तव कुले गाधेः पुत्रं सुधार्मिकम्।
तपसा महता युक्तं प्रदास्यति महाद्युते।।

स्त्रियौ तु कारणं तत्र परिवर्ते भविष्यतः।
पितामहनियोगाद्वै नान्यथैतद्भविष्यति।।

तृतीये पुरुषे तुभ्यं ब्राह्मणत्वमुपैष्यति।
भविता त्वं च सम्बन्धी भृगूणां भावितात्मनाम्।।

भीष्म उवाच।

कुशिकस्तु मुनेर्वाक्यं च्यवनस्य महात्मनः।
श्रुत्वा हृष्टोऽभवद्राजा वाक्यं चेदमुवाच ह।
एवमस्त्विति धर्मात्मा तदा भरतसत्तम।।

च्यवनस्तु महातेजाः पुनरेव नराधिपम्।
वरार्थं चोदयामास तमुवाच स पार्थिवः।।

बाढमेवं ग्रहीष्यामि कामांस्त्वत्तो महामुने।
ब्रह्मभूतं कुलं मेऽस्तु धर्मे चास्य मनो भवेत्।।

एवमुक्तस्तथेत्येवं प्रत्युक्त्वा च्यवनो मुनिः।
अभ्यनुज्ञाय नृपतिं तीर्थयात्रां ययौ तदा।।

एतत्ते कथितं सर्वमशेषेण मया नृप।
भृगूणां कुशिकानां च अभिसम्बन्धकारणम्।।

यथोक्तमृषिणा चापि तदा तदभवन्नृप।
जन्म रामस्य च मुनेर्विश्वामित्रस्य चैव हि।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि एकनवतितमोऽध्यायः।। 91 ।।